All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
अन्तरिक्षकाण्डः · ज्योतिरध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां स्वर्गकाण्डे यक्षाद्यध्यायः
स्वर्गकाण्डस्समाप्तः
अंतरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
2.1.1 · p. 17
अनुष्टुप्
तारावर्त्मांबरं मेघवर्त्म चाकाशमस्त्रियाम् ।दिग्दिशाशा ककुब्दीर्णी हरिद्देववधूः सरिः ॥ २ ॥
2.1.2 · p. 17
अनुष्टुप्
अव्ययीभावोऽपदिशमवान्तरदिशा विदिक् ।क्रमात् पूर्वादिदिङ्नाथा इन्द्राद्याः शंकराष्टमाः ॥ ३ ॥
2.1.3 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वोऽ (wrong syllable)
लोकपालास्ततो ग्राह्या दिक् चैन्द्रीत्यादयो भिदाः ।आग्नेयी तु चराशा स्यान्नैर्ऋती तु दिगन्धकी ॥ ४ ॥
2.1.4 · p. 17
अनुष्टुप्
मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता ।कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ॥ ५ ॥
2.1.5 · p. 17
अनुष्टुप्
ब्राह्मी तूर्ध्वाथ नागी स्यान्नारकी चाधरा ककुप् ।दिङ्मण्डलं चक्रवालं दिगन्तः करिशोलुकम् ॥ ६ ॥
2.1.6 · p. 17
अनुष्टुप्
दिङ्मध्ये करिणीचारं दिग्युग्मे मण्डपीठिका ।अभ्यन्तरं त्वन्तरालमवकाशोऽन्तरं पदम् ॥ ७ ॥
2.1.7 · p. 17
अनुष्टुप्
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ ८ ॥
2.1.8 · p. 17
अनुष्टुप्
करिण्योऽभ्रमुः कपिला पिंगलानुपमा क्रमात् ।ताम्रपर्णी शुभदती चांगना चांजनावती ॥ ९ ॥
2.1.9 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ्र (wrong syllable)
अर्कः सूर्योऽर्यमा सूरो द्वादशात्मा दिवाकरः ।मार्ताण्डः सविता भानुर्भातुः पूषा दिनप्रणीः ॥ १० ॥
2.1.10 · p. 17
अनुष्टुप्
सप्तसप्तिः पद्मबन्धुस्तपनोऽनूरुसारथिः ।द्युमणिर्हरिदश्वोऽद्रिरशीतांशुर्विकर्तनः ॥ ११ ॥
2.1.11 · p. 17
अनुष्टुप्
द्युमान् कुमुद्वतीशत्रुस्त्विषांपतिरहर्पतिः ।भास्करोऽहस्करो भास्वान्विवस्वाञ्जलतस्करः ॥ १२ ॥
2.1.12 · p. 18
अनुष्टुप्
रश्मिमाली दृगध्यक्षः कर्मसाक्षी त्रयीतनुः ।तर्षुर्मार्तण्डमुण्डीरपाथिपेरुगभस्तयः ॥ १३ ॥
2.1.13 · p. 18
अनुष्टुप्
पासिर्दृशानो रात्रिद्विट् प्रभाकरविभाकरौ ।खाध्वनीनः खतिलकः खगः खाङ्कस्तमोरिपुः ॥ १४ ॥
2.1.14 · p. 18
अनुष्टुप्
चण्डांशुरंशुमानंशुः सहस्रांशुः सदागतिः ।आदित्यो मिहिरो मित्रो रविः प्रत्यूषडंबरः ॥ १५ ॥
2.1.15 · p. 18
अनुष्टुप्
घृष्टिपादमयूखांशुसांध्योद्योतगभस्तयः ।किरणोस्रौ च रोचिः क्ली रश्मिरक्ली मरीचिवत् ॥ १६ ॥
2.1.16 · p. 18
अनुष्टुप्
तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने ।शतत्रयं हिमोत्सर्गे तावद्घर्मस्य सर्जने ॥ १७ ॥
2.1.17 · p. 18
अनुष्टुप्
अनन्दनाश्च मेध्याश्च नूतनाः पूतना इति ।शतं शतं वृष्टिवहास्ताः सर्वा अमृताः स्त्रियः ॥ १८ ॥
2.1.18 · p. 18
अनुष्टुप्
ता एव भन्दना मन्दाः कातनाः कोतनाः क्रमात् ।अथ मेष्यश्च पोष्यश्च ह्लादिन्यश्च शतं शतम् ॥ १९ ॥
2.1.19 · p. 18
अनुष्टुप्
हिमोत्सर्गाय ताः सर्वाः सर्वाश्चन्द्राश्च नामतः ।ता एव रेश्यो वाश्यश्च मेध्याश्चेति यथाक्रमम् ॥ २० ॥
2.1.20 · p. 18
अनुष्टुप्
अथ रुद्रा विश्वभृतः ककुहाश्च शतं शतम् ।घर्माय शुक्रास्ताः सर्वा माध्व्यः शक्वर्य इत्यपि ॥ २१ ॥
2.1.21 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
आलोकस्तु प्रभा भा रुग्रुचिदीधितिदीप्तयः ।अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका ॥ २२ ॥
2.1.22 · p. 18
अनुष्टुप्
संज्ञास्व रेणुर्द्युमयी त्रसरेणुः सुवर्चला ।त्वाष्ट्री प्रभाप्यथच्छाया विक्षुभा भूमिमय्यपि ॥ २३ ॥
2.1.23 · p. 18
अनुष्टुप्
हिमद्युतिः शशी चन्द्रश्चन्द्रमाः शशभृद्विधुः ।परिज्मा रोहिणीकान्तो निशानाथो निशाकरः ॥ २४ ॥
2.1.24 · p. 19
अनुष्टुप्
पुनर्युवा दशाश्वो ग्लौरिन्दुः कुमुदबान्धवः ।ओषधीशो निशाकेतुर्मुगलक्ष्माऽत्रिनेत्रजः ॥ २५ ॥
2.1.25 · p. 19
अनुष्टुप्
हृद्यांशुरंशुरब्जारिरमृतांशुः कलानिधिः ।यजन्तस्तपसः क्लेदुः स्यन्दः स्पन्दो यथासुखः ॥ २६ ॥
2.1.26 · p. 19
अनुष्टुप्
प्राचीनतिलको जर्णः व्याप्वः स्तृप्रस्तृपिस्तृपत् ।उडुराजः शशांकश्च समुद्रनवनीतकम् ॥ २७ ॥
2.1.27 · p. 19
अनुष्टुप्
चन्द्रपादास्तु संवाला ज्योत्स्ना तु शशिनः प्रभा ।चन्द्रिका चन्द्रिमा चान्द्री कौमुदी चन्द्रगोलिका ॥ २८ ॥
2.1.28 · p. 19
अनुष्टुप्
अंकश्चिह्नमभिज्ञानं लांछनं लक्ष्म लक्षणम् ।पुष्पवन्तौ सहैवोक्त्यां सूर्याचन्द्रमसावुभौ ॥ २९ ॥
2.1.29 · p. 19
अनुष्टुप्
परिग्रहोपरक्तौ तु ग्रस्तार्केन्द्वोरथ ग्रहे ।उपप्लवोपरागौ द्वौ स तु सन्निहितो रवेः ॥ ३० ॥
2.1.30 · p. 19
अनुष्टुप्
गजच्छायाप्यथार्केन्द्वोः परिधिः परिवेषकः ।कुजारमंगलांगारा लोहितांगो धरासुतः ॥ ३१ ॥
2.1.31 · p. 19
अनुष्टुप्
कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ र्हषुलः ।बुधः श्यामांग एकांगः सौम्यश्चान्द्रमसायनिः ॥ ३२ ॥
2.1.32 · p. 19
अनुष्टुप्metre not read in every line
वाचस्पतिरनिर्वापः सुराचार्यो बृहस्पतिः ।गीष्पत्यांगिरसौ चक्षाश्चारुश्चित्रशिखण्डिजः ॥ ३३ ॥
2.1.33 · p. 19
अनुष्टुप्
प्रचक्षा दीदिविश्चाथ शुक्रो दूतो दिवाचरः ।तिर्यग्गाम्यसुराचार्य उशना भार्गवः कविः ॥ ३४ ॥
2.1.34 · p. 19
अनुष्टुप्
मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः ।सौरिः स्थिरगतिः कोणो दीर्णांगो युगवर्तकः ॥ ३५ ॥
2.1.35 · p. 19
अनुष्टुप्
श्रुतकर्मा नीलवासा वक्रः कोलः स्थिरः शनिः ।स्वर्भानुर्ग्रहकल्लोलः सैंहिकेयो विधुन्तुदः ॥ ३६ ॥
2.1.36 · p. 20
अनुष्टुप्
राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः ।धूमजाः शिरिखनो ब्रह्मपुत्राः श्रीमन्त आहिकाः ॥ ३७ ॥
2.1.37 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना ।मृगशीर्षं मृगशिरो मार्गायण्याग्रहायणी ॥ ३८ ॥
2.1.38 · p. 20
अनुष्टुप्
इन्वकास्तच्छिरोदेशे तारका इल्वला मताः ।योग्यः सिध्यश्च पुष्यस्याद्यामकौ तु पुनर्वसू ॥ ३९ ॥
2.1.39 · p. 20
अनुष्टुप्
निष्ठ्या स्वाती विशाखे तु राधे आर्द्रो तु कालिनी ।श्रवणे श्रोणा मूले तु मूलवर्हण्यथ श्रविष्ठासु ॥ ४० ॥
2.1.40 · p. 20
अनुष्टुप्metre not read in every line
मंदागाश्च धनिष्ठाश्च भरण्योऽपभरणीषु योग्याश्च ।ज्येष्ठा ज्येष्ठघ्नी स्यात् प्रोष्ठपदाः पुंस्त्रियोः सभद्रपदाः ॥ ४१ ॥
2.1.41 · p. 20
गीतिः
अश्विन्यौ वालिन्यावश्वयुजावाश्वकिन्यौ च ।यथाप्रयोगमेतेषु वचनं स्याद्व्यवस्थितम् ॥ ४२ ॥
2.1.42 · p. 20
अनुष्टुप्metre not read in every line
अषाढाकृत्तिकाश्लेषामघा भूम्नि स्त्रियश्च ताः ।फल्गुन्यौ तु द्वित्वभूम्नोर्हस्तः शतभिषक् च सा ॥ ४३ ॥
2.1.43 · p. 20
अनुष्टुप्
अनूराधास्तु पुंभूम्नि शेषं सर्ववचः स्त्रियाम् ।वीथ्यो नवैव नक्षत्रैरश्विन्याद्यैस्त्रिभिस्त्रिभिः ॥ ४४ ॥
2.1.44 · p. 20
अनुष्टुप्
त्रिवीथिका त्रयो मार्गा दक्षिणोत्तरमध्यमाः ।उत्तरो देवयानः स्याद्योगियानस्तु मध्यमः ॥ ४५ ॥
2.1.45 · p. 20
अनुष्टुप्
दक्षिणः पितृयाणः स्यात्तत्राद्या नागवीथिका ।रोहिण्याद्याजवीथी स्यात्ततस्त्वैरावती परा ॥ ४६ ॥
2.1.46 · p. 20
अनुष्टुप्
मार्गोऽयं देवयानाख्यो मघाद्या पुनरार्षभी ।हस्तादिका तु गोवीथी ततो जारद्गवी परी ॥ ४७ ॥
2.1.47 · p. 20
अनुष्टुप्
मार्गोऽयं योगिथानाख्यो मूलाद्या गजवीथिका ।श्रोणाद्या मृगवीथी स्यात्ततो वैश्वानरी पूरा ॥ ४८ ॥
2.1.48 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 पू (wrong syllable)
मार्गोऽयं पितृयाणाख्यस्थानान्येषां पथां दिवि ।ऐरावतं जारद्गवं वैश्वानरमिति क्रमान् ॥ ४९ ॥
2.1.49 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
सप्तर्षयस्तु वे तारारूपाश्चित्रशिखण्डिनः ।ज्योतिषामयनं ज्योतिः शास्त्रं राशिर्ग्रहाह्वयः ॥ ५० ॥
2.1.50 · p. 21
अनुष्टुप्
पूर्वपश्चिमराश्यर्घौ सन्दालवलयौ क्रमात् ।संज्ञा द्रेक्काणहोराद्याः शास्त्रे ज्ञेयाः सलिंगकाः ॥ ५१ ॥
2.1.51 · p. 21
अनुष्टुप्
कालोऽनेहा च दिष्टश्च स सूक्ष्मः स्त्री तुटिस्त्रुटिः ।द्वे तुटी लघ्वक्षरकस्तौ द्वावक्षरपातकः ॥ ५२ ॥
2.1.52 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ्व (wrong syllable)
तौ निमेषो लिप्तिका तु तौ द्वौ काष्ठा तु ता नव ।ते द्वे लवो लवाः पञ्च कला दश च तद्द्वयम् ॥ ५३ ॥
2.1.53 · p. 21
अनुष्टुप्
लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः ।द्वे तु नाड्यौ मुहूर्तोऽस्त्री घटिका धारिकेति च ॥ ५४ ॥
2.1.54 · p. 21
अनुष्टुप्
त्रिंशता तैरहोरात्रः पक्षांगोऽप्यथ वासरः ।दिवसञ्चास्त्रियौ भानुर्घृणिर्घस्रो रविध्वजः ॥ ५५ ॥
2.1.55 · p. 21
अनुष्टुप्
पद्मबन्धुः कोकहितो द्युश्च क्ली स्यादहर्दिनम् ।रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा ॥ ५६ ॥
2.1.56 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
तमी तमस्विनी रात्रिर्निशा घारिर्विभावरी ।तमिस्रा क्षाणिनी क्षाणी शर्वरी वासतेय्युषा ॥ ५७ ॥
2.1.57 · p. 21
अनुष्टुप्
निशीथिनी निशीथ्या च ज्यौत्स्नी ज्योतिष्मती निशा ।पूर्णेन्दुस्तु दिनम्मन्या गर्भकं तु निशाद्वयम् ॥ ५८ ॥
2.1.58 · p. 21
अनुष्टुप्
बह्व्यस्तु गणरात्रं च चिररात्रं च रात्रयः ।पक्षाभ्यामिव याऽहोभ्यां युक्ता सा पक्षिणी निशा ॥ ५९ ॥
2.1.59 · p. 21
अनुष्टुप्
तामसी सात्त्विकी चित्रा चित्रोपघ्ना च राजसी ।खण्डता चेति शर्वर्यः प्रावृडाद्यृतुषु क्रमात् ॥ ६० ॥
2.1.60 · p. 22
अनुष्टुप्
या सप्तसप्ततितमे वर्षे मासि च सप्तमे ।सप्तमी प्राणिनां घोरा रात्रिर्भैमरथी हि सा ॥ ६१ ॥
2.1.61 · p. 22
अनुष्टुप्
ध्वान्तन्तिमिरमासक्तं तामिस्रं शार्वरं तमः ।आततिश्चान्धकारोऽस्त्री तत्तु सन्तमसं यदि ॥ ६२ ॥
2.1.62 · p. 22
अनुष्टुप्
अपिधानतिरोधानपिधानाच्छादनानि च ।दिनादौ प्राह्णपूर्वाह्णौ ततः संगतसंगवौ ॥ ६४ ॥
2.1.64 · p. 22
अनुष्टुप्
मध्यन्दिनन्तु मध्याह्न उच्छूरस्तु विकालकः ।सायाह्नोऽप्यपराह्णोऽस्त्री प्रदोषो मैथिलः समौ ॥ ६५ ॥
2.1.65 · p. 22
अनुष्टुप्
सांबाधिकः परस्तस्मान्निशीथस्त्वर्धरात्रकः ।मध्यरात्रो महारत्र उच्चन्द्रोऽपररात्रकः ॥ ६६ ॥
2.1.66 · p. 22
अनुष्टुप्
ब्राह्मोऽप्येते क्रमाद्यामा यामे प्रहरयातुकौ ।पुण्याहमह्नि पुण्योंऽशास्त्रिसंध्यन्तूपवणैवम् ॥ ६७ ॥
2.1.67 · p. 22
अनुष्टुप्metre not read in every line
विहानोऽस्त्री प्रविसरो गोसर्गप्रत्युषावुषः ।व्युष्टं विभातं प्रत्यूषं सांयात्रिकमहर्मुखम् ॥ ६८ ॥
2.1.68 · p. 22
अनुष्टुप्
काल्यं प्रभातं स्त्री वोषः सन्धा सन्ध्या पितृप्रसूः ।तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः ॥ ६९ ॥
2.1.69 · p. 22
अनुष्टुप्
पक्षतिश्चाथ पाटूरो भूतेष्टा च चतुर्दशी ।निपक्षतिर्द्वितीया स्याद्दर्शोऽमावास्यमावसी ॥ ७० ॥
2.1.70 · p. 22
अनुष्टुप्
अमावस्याऽप्यमावास्याऽप्यमामंस्याऽप्यमामसी ।सा दृष्टेन्दुः सिनीवाली नष्टचन्द्रकला कुहूः ॥ ७१ ॥
2.1.71 · p. 22
अनुष्टुप्
पित्र्या तु पूर्णिमा चान्द्री चन्द्रमाता निरञ्जना ।पूर्णा च पूर्णमासी च पौर्णमासी च पूर्णिका ॥ ७२ ॥
2.1.72 · p. 22
अनुष्टुप्
चन्द्रे कलोनेऽनुमतिः सैव राका तु पूरिते ।पर्वणी पञ्चदश्यौ द्वे पक्षान्तौ नन्दिवर्धनौ ॥ ७३ ॥
2.1.73 · p. 23
अनुष्टुप्
आग्रायणी शंकुमूली पौर्णमास्याग्रहायणी ।पौषी तु महिषी माता माघी स्यादग्निपूर्णिमा ॥ ७४ ॥
2.1.74 · p. 23
अनुष्टुप्
फाल्गुनी दाण्डपाता स्याच्चैत्री तु मदनध्वना ।विश्वविस्ता तु वैशाखी ज्यैष्ठी तूपनिवेशिनी ॥ ७५ ॥
2.1.75 · p. 23
अनुष्टुप्
आषाढी कृत्त्रिमाचारी श्रावणी तु द्विवेदिनी ।अथ प्रौष्ठपदी गांगी स्यादाश्विन्यवराविला ॥ ७६ ॥
2.1.76 · p. 23
अनुष्टुप्
वत्सरान्ता त्वरिश्रेणी धैनुकी चापि कार्तिकी ।मासाख्याकृच्च नक्षत्रयोगश्च गुरुणा यदा ॥ ७७ ॥
2.1.77 · p. 23
अनुष्टुप्
महाग्रहायणीत्याद्यास्त एव तिथयः क्रमात् ।जयंतीत्यादिकाः संज्ञाः पुराणे तिथिषूदिताः ॥ ७८ ॥
2.1.78 · p. 23
अनुष्टुप्
पक्षोऽर्धमासः पूर्वस्तु शुक्लाख्योऽन्योऽसिताह्वयः ।क्षीयमाणतिथिप्रायः पक्षो रिक्तोऽपरस्त्वणिः ॥ ७९ ॥
2.1.79 · p. 23
अनुष्टुप्
अणिकूर्चस्त्वमावास्या भूतेष्टा प्रतिपत्क्षयात् ।मासः संवत्सरस्तान्तः संक्रान्त्या तु स तारणः ॥ ८० ॥
2.1.80 · p. 23
अनुष्टुप्
ज्यौतिषः पुनराचारात् सावनो दिनसंख्यया ।आग्रहायणिको मार्गशीर्षो वर्षमुखः सहाः ॥ ८१ ॥
2.1.81 · p. 23
अनुष्टुप्
सहस्ये स्युस्तैषपौषसैधा माघे तु शानकः ।शातरश्च तपाश्चाथ द्वौ फाल्गुनिकफाल्गुनौ ॥ ८२ ॥
2.1.82 · p. 23
अनुष्टुप्
तपस्ये फल्गुनालश्च चैत्रे मौहनिको मधुः ।चैत्रिको मन्मथसखो वैशाखो राध उच्छुनः ॥ ८३ ॥
2.1.83 · p. 23
अनुष्टुप्
ज्येष्ठामूलीय ईजानो ज्येष्ठश्च खरकोमलः ।ते शुक्रे स्युरथाषाढे शुचिः श्रावणिके नभाः ॥ ८४ ॥
2.1.84 · p. 23
अनुष्टुप्
श्रावणश्च नभस्ये तु भाद्रो भाद्रपदोऽपि च ।अपि प्रौष्ठपदस्तस्मिन्नाश्विनाश्वयुजाविषे ॥ ८५ ॥
2.1.85 · p. 24
अनुष्टुप्
कार्त्तिके स्यात् कार्त्तिकिको बाहुलः शैलकौमुदौ ।क्लीबेऽप्येषु सकारान्ता ऋतुर्बीजं सतेरकम् ॥ ८६ ॥
2.1.86 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
हेमन्तः प्रसवो लोध्रः शैखस्तु शिशिरोऽस्त्रियाम् ।मधुर्वसन्तः सुरभिर्वलांगः पुष्पसारणः ॥ ८७ ॥
2.1.87 · p. 24
अनुष्टुप्
पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वाखोर ऊष्मकः ।शुचिरुष्णागमः पात्म उष्ण ऊष्माप्यथ क्षरी ॥ ८८ ॥
2.1.88 · p. 24
अनुष्टुप्
प्रावृड्वार्षी भूम्नि वर्षाः कालोक्षी च घनागमः ।घनात्ययः शरत् स्त्री स्याद्विसर्गो दक्षिणायनम् ॥ ८९ ॥
2.1.89 · p. 24
अनुष्टुप्
उत्तरायणमाग्नेयं विषुवान्विषुवोऽस्त्रियौ ।संवत्सरोऽब्द आग्नेयो वत्सरः परिवत्सरः ॥ ९० ॥
2.1.90 · p. 24
अनुष्टुप्
वत्सवायव्यसौर्याश्च वर्षोऽस्त्री स्त्री शरत् समाः ।कृतं सत्ययुगं सौम्यं त्रेताग्नेयी विसर्जिका ॥ ९१ ॥
2.1.91 · p. 24
अनुष्टुप्
द्वापरे यज्ञियाग्नेयौ पुष्यो झईरकः कलिः ।त्रियुगं तु युगासारं द्व्यायोगं तु युगद्वयम् ॥ ९२ ॥
2.1.92 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 झ (wrong syllable)
मन्वन्तरं त्वन्तरं स्यात् कल्पभागे चतुर्दशे ।चतुर्युगसहस्रं तु कल्पस्तद्ब्रह्मणो दिनम् ॥ ९३ ॥
2.1.93 · p. 24
अनुष्टुप्
तद्रात्रौ तु महासुप्तिः समसुप्तिर्जगत्क्षयः ।महाप्रलयकल्पान्तौ युगांतो भूतसंप्लवः ॥ ९४ ॥
2.1.94 · p. 24
अनुष्टुप्
प्रतिसर्गस्तु संहारः प्रलयः प्रतिसञ्चरः ॥ ९४.५ ॥
2.1.95 · p. 24