कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घटिका

ghaṭikāस्त्री · fem.

In 11 kośas: 10 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.137 · p. 9
क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका ।सा धारिका च घटिका मुहूर्तस्तद्द्वयेन च ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.21 · p. 407
षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी ।नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.7 · p. 40
पलं च न स्त्री गुरुवर्णषष्ट्याषष्ट्या पलैः स्याद्घटिकात्र नाडी ।साधारणी स्त्री तु न दण्डमाहुर्-मुहूर्तमेतद्द्वितयेन न स्त्री ॥ ७ ॥
उपजातिः
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.237 · p. 38
सुधा विलेपा घटिका वालुका घटिकारसः ।संवाहकोऽङ्गमर्दः स्यादथ देहस्य रक्षके ॥ २३७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.126 · p. 21
क्षणषट्केन घटिका नाडिका धारिकापि च ।घटिके द्वे मुहूर्तः स्यात्त्रिंशता तैरहर्निशम् ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.140 · p. 43
पादोपरिस्थितग्रन्थौ घुटिका घटिकापि च ।अधोभागे गुल्फयोस्तु पार्ष्णिः स्यादथ प्रसृता ॥ १४० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.154 · p. 45
ग्रीवापश्चाद्भागदेशे त्ववटुश्च कृकाटिका ।घाटा च घटनं घाटी घटका घटिकापि च ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.123 · p. 18
लेशस्तु तद्द्वयेनैव तैः पञ्चदशभिः क्षणः ।नाडिका तु क्षणैः षड्भिः धारिका घटिका च सा ॥ १२३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.231 · p. 32
काष्ठा तास्तु कला त्रिंशत् तास्तु त्रिंशत् क्षणोऽथ ते ।षण्णाडी घटिका ते तु मुहूर्तः पुंनपुंसके ॥ २३१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.54 · p. 21
लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः ।द्वे तु नाड्यौ मुहूर्तोऽस्त्री घटिका धारिकेति च ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.29 · p. 3
घटिका तु मुहूर्ताख्ये काले नाडीद्वयात्मके ।गवादिदोहपात्रे च पारिसंज्ञे प्रकीर्तिता ॥ २९ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2088 · p. 253
गरुत्मान् विहगे तार्क्ष्ये घटिका नाडिका घटः ।चञ्चलो वाच्यलिङ्गे स्यात्तरले तडिति स्त्रियाम् ॥ २०८८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.8 · p. 247
पार्यां कालेऽपि घटिका रथ्यायामपि चत्वरी ।जुगुप्सा निन्दाघृणयोर्जननी करुणांबयोः ॥ ८ ॥
अनुष्टुप्

घटिका as a meaning in nānārtha verses