इति श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति -भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनसम्राट्-जगद्गुरु- भट्टारकाचार्यमहाराजाधिराज-श्रीमद्विजयनेभिसूरीश्वर-सुप्रसिद्धपट्टालङ्कार-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावकाचार्यदेवेशश्रीमद्विजयलावण्यसूरीश्वरपट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां प्रथमो देवाधिदेवविभागः समाप्तः ॥ १ ॥
द्वितीयो देवविभागः ।
* स्वर्गनामानि *
स्वर्गस्त्रिविष्टपं नाको देवलोकः सुरालयः ।त्रिदिवमूर्ध्वलोको गौर्द्योदिवौ द्युश्व दीदिविः ॥ ६५ ॥
3.65 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
सैरिकस्त्रिदशावासो भुविस्तविषताविषौ ।दिदिविर्वासवावासो मेरुपृष्ठं फलोदयः ॥ ६६ ॥
3.66 · p. 11
अनुष्टुप्
* देवनामानि *
अमरा निर्जरा देवाः देवता दानवारयः ।गीर्वाणा नाकिनोऽस्वप्नाः मरुतो विबुधाभिधाः ॥ ६७ ॥
3.67 · p. 11
अनुष्टुप्
अमर्त्यास्त्रिदशाः लेखा बर्हिर्मुखाः स्वधाभुजः ।अनिमिषाः सुपर्वाणः स्वाहाभुजः सुधाभुजः ॥ ६८ ॥
3.68 · p. 11
metre not recognised
स्वर्गिणस्त्रिदिवाधीशाः क्रतुभुजो हविर्भुजः ।आदितेयास्तथा वृन्दारकाः सुमनसः सुराः ॥ ६९ ॥
3.69 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भु (wrong syllable)
* अमृतनामानि *
पीयूषं चापि पेयूषं देवभोज्यं सुधाऽमृतम् ।देवाहारश्च देवान्नं समुद्रनवनीतकम् ॥ ७० ॥
3.70 · p. 11
अनुष्टुप्
* भवनपतिदेवाः *
असुराश्चैव नागाश्च विद्युतोऽनु सुपर्णकाः ।अग्नयो वायवश्चैव स्तनिता श्वोदधीश्वराः ॥ ७१ ॥
3.71 · p. 11
अनुष्टुप्
द्वीपा दिशो दशाश्चैते भवनपतयो मताः ।श्री असुरकुमाराख्यजातिका निखिला अपि ॥ ७२ ॥
3.72 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 व (wrong syllable); pāda 3, syllable 3 सु (wrong syllable)
* व्यन्तरदेवाः *
स्युः पिशाचाश्च भूताश्च यक्षाश्च राक्षसास्तथा ।ततश्च किन्नरा देवाः किंपुरुषा महोरगाः ॥ ७३ ॥
3.73 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 3 रु (wrong syllable)
गन्धर्वजातिका देवा व्यन्तरा चाष्टधा मतः ।व्यन्तरान्तर्गता देवा अष्टापि वाणव्यन्तराः ॥ ७४ ॥
3.74 · p. 12
अनुष्टुप्metre not read in every line
* ज्योतिष्कदेवाः *
चन्द्रा अर्का ग्रहाश्चैवं नक्षत्राणि च तारकाः ।ज्योतिष्का देवताः पञ्च विश्वे विश्वप्रकाशकाः ॥ ७५ ॥
3.75 · p. 12
अनुष्टुप्
* वैमानिकदेवाः *
देवाः वैमानिकाः कल्पभवा द्वादश ते त्वमी ।सौधर्मजास्तथैशानजाता सनत्कुमारजाः ॥ ७६ ॥
3.76 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
माहेन्द्रकल्पजा ब्रह्मजाश्च लान्तककल्पजाः ।शुक्रजाश्च सहस्रारजास्तथाऽऽनतकल्पजाः ॥ ७७ ॥
3.77 · p. 12
अनुष्टुप्
प्राणतकल्पजा देवा आरणकल्पजास्तथा ।अच्युतकल्पजाश्चैते कथिता ज्ञानिभिः खलु ॥ ७८ ॥
3.78 · p. 12
metre not recognised
कल्पातीताश्च विज्ञेयाः नवगैवेयकाः सुराः ।पञ्चानुत्तरगा एवं चतुर्निकायदेवताः ॥ ७९ ॥
3.79 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्नि (wrong syllable)
* सूर्यनामानि *
आदित्यः सविता सूर्यः सहस्रांशुः रविस्तथा ।मार्तण्डस्तरणिर्भानुर्गभस्तिः किरणो भगः ॥ ८० ॥
3.80 · p. 13
अनुष्टुप्
अर्कः पूषा पतङ्गश्च खगः प्रद्योतनस्तथा ।तपनस्तापनः सूरः विवस्वान् मिहिरोऽरुणः ॥ ८१ ॥
3.81 · p. 13
अनुष्टुप्
सप्तसप्तिर्हरिर्हेलिः तिमिरारिर्विकर्त्तनः ।भास्करश्चित्रभानुश्च भास्वान् मित्रः विभावसुः ॥ ८२ ॥
3.82 · p. 13
अनुष्टुप्
नभोमणिर्जगच्चक्षुः विभाकरः प्रभाकरः ।अहर्मणिर्दिवापुष्टः दिनेशश्च दिवाकरः ॥ ८३ ॥
3.83 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
* अर्ककिरणनामानि *
रोचिः शोचिश्च रश्मिश्च ज्योतिश्च किरणो शुचिः ।घृणिः पृश्निः मयूखश्च मरीचिर्दीधितिर्द्युतिः ॥ ८४ ॥
3.84 · p. 13
अनुष्टुप्
[१] सुदर्शनः [२] सुप्रतिबद्धः [३] मनोरमः [४] सर्वतोभद्र [५] सुविशालः [६] सुमनसः [७] सौमनसः [८] प्रियङ्करः [९] नन्दीकरश्चेति नवग्रैवेयकाः ।
(१) विजयः (२) वैजयन्तः (३) जयन्तः (४) अपराजितः (५) सर्वार्थसिद्धश्चेत्यनुत्तरा विमानदेवाः ।
प्रकाशश्तेज उद्योतः आलोकः छविरातपः ।अर्चिरंशुश्च भाः भानुः गभस्तिश्च विभा प्रभा ॥ ८५ ॥
3.85 · p. 14
अनुष्टुप्impossible sibilant cluster: प्रकाशश्तेज
प्रग्रहस्तथा पादः मृगतृष्णा मरीचिका ।मण्डलं परिवेषश्च परिधिस्तूपसूर्यकम् ॥ ८६ ॥
3.86 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सूरसूतोऽरुणश्चैव काश्यपिर्गरुडाग्रजः ।तथापि विनतासूनुः अनूरुश्चादयो मताः ॥ ८७ ॥
3.87 · p. 14
अनुष्टुप्
* चन्द्रनामानि *
चन्द्रः शशी सुधांशुश्च विधुरिन्दुश्च चन्द्रमाः ।नक्षत्रेशः निशेशश्च निशारत्नं निशाकरः ॥ ८८ ॥
3.88 · p. 14
अनुष्टुप्
निशौषधी-कौमुदी-भ[-दक्षजा-रोहिणी-पतिः ।श्वेतवाजी तथा सोमः श्वेताऽमृत-हिम-द्युतिः ॥ ८९ ॥
3.89 · p. 14
अनुष्टुप्
षोडशोंऽशः कला ज्ञेया लाञ्छनं लक्ष्म लक्षणम् ।चिह्नमङ्कः कलङ्कश्चाऽभिज्ञानं तदनन्तरम् ॥ ९० ॥
3.90 · p. 14
अनुष्टुप्
चन्द्रिका कौमुदी ज्योत्स्ना चन्द्रिमा चन्द्रगोलिका ।चन्द्रातपश्च बिम्बं तु मण्डलं तदनन्तरम् ॥ ९१ ॥
3.91 · p. 14
अनुष्टुप्
नक्षत्रं तारका तारा ज्योतिषी भमुडुर्ग्रहः ।धिष्ण्यमृक्षं नवैव स्युरन्तर्भेदोऽपि ज्ञायताम् ॥ ९२ ॥
3.92 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
* नक्षत्रनामानि *
आश्विन्यश्वकिनी दस्रदेवता चाश्वयुक् तथा ।बालिनी चाथ नक्षत्रे भरणी यमदेवता ॥ ९३ ॥
3.93 · p. 15
अनुष्टुप्
कृत्तिकाश्चाग्निदेवाश्च बहुलाश्चाथ रोहिणी ।ब्राह्मी तु मृगशीर्षं च मृगशिरस्ततः परम् ॥ ९४ ॥
3.94 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
चान्द्रमसं तथा मार्गः मृगश्च तदनन्तरम् ।इल्वलास्तु मृगशिरः शिरःस्थाः पञ्चतारकाः ॥ ९५ ॥
3.95 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
ज्ञेया आर्द्रा तु रौद्री च कालिनी तु पुनर्वसू ।आदित्यौ यामकौ चाथ पुष्यश्च गुरुदैवतः ॥ ९६ ॥
3.96 · p. 15
अनुष्टुप्
तिष्यः साध्यस्ततः सार्प्यश्लेषा पित्र्यास्तथा मघाः ।विज्ञेया पूर्वफल्गुनी नक्षत्रयोनिदेवता ॥ ९७ ॥
3.97 · p. 15
अनुष्टुप्metre not read in every line
उत्तरफल्गुनी चार्यमदेवा हस्त नामकः ।सवितृदैवतस्त्वाष्ट्री चित्रा स्वातिस्तथाऽऽनिली ॥ ९८ ॥
3.98 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 3 तृ (wrong syllable)
इन्द्राग्निदेवता राधा विशाखा तदनन्तरम् ।अनुराधा च मैत्री स्थात् ज्येष्ठन्द्री मूल आश्रपः ॥ ९९ ॥
3.99 · p. 15
अनुष्टुप्
पूर्वाषाढा तथाऽऽपी तूत्तराषाढा तदनन्तरम् ।वैश्वी तु श्रवणश्चैव हरिदेवस्ततः परम् ॥ १०० ॥
3.100 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धनिष्ठा तु श्रविष्ठा च नक्षत्रवसुदेवता ।शतभिषक् तु नक्षत्रवारुणी त्वजदेवता ॥ १०१ ॥
3.101 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भि (wrong syllable)
पूर्वभद्रपदाश्चैव प्रोष्ठपदास्ततःपरम् ।नक्षत्रश्चाप्यहिर्बुध्नदेवतास्तदनन्तरम् ॥ १०२ ॥
3.102 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
प्रोष्ठपदाश्च नक्षत्रोत्तरभद्रपदास्तथा ।रेवती पौष्णमाख्यातं दाक्षायण्यः शशिप्रियाः ॥ १०३ ॥
3.103 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
* राशिनामानि *
राशीनामुदयो लग्नं स च मेषो वृषस्तथा ।मिथुनः कर्कटः सिंहः कन्या तुला च वृश्चिकः ॥ १०४ ॥
3.104 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
धनुश्च मकरश्चैव कुम्भो मीनश्च राशयः ।
3.41 · p. 16
अनुष्टुप्
* ग्रहनामानि *
अथ ग्रहाणां नामानि ज्ञेयानि क्रमतो यथा ॥ १०५ ॥
3.105 · p. 16
अनुष्टुप्
आरो वक्रो नवार्चिश्च माहेयोऽङ्गारकस्तथा ।आषाढाभूः कुजो भौमः लोहिताङ्गश्च मङ्गलः ॥ १०६ ॥
3.106 · p. 16
अनुष्टुप्
बुधः सौम्यः श्रविष्ठाभूः श्यामाङ्गश्च प्रहर्षुलः ।चन्द्रात्मजस्तथा ज्ञश्च पञ्चार्चिः रोहिणीसुतः ॥ १०७ ॥
3.107 · p. 16
अनुष्टुप्
आङ्गिरसो गुरुर्वाग्मी गीःपतिर्बृहतीपतिः ।द्वादशार्चिः सुराचार्यो वाचस्पतिर्बृहस्पतिः ॥ १०८ ॥
3.108 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 स्प (wrong syllable)
चित्रशिखण्डिजो जीवो धीषणो फल्गुनीभवः ।शुक्रः काव्यः कविर्धिष्ण्यः षोडशार्चिश्च भार्गवः ॥ १०९ ॥
3.109 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
उशनाश्च भृगुश्चैव दैत्यगुरुर्मघाभवः ।शनैश्चरः शनिः सौरिः सप्तार्चिःरेवतीभवः ॥ ११० ॥
3.110 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 गु (wrong syllable)
छायासुतोऽसितो मन्दः क्रूरात्मा च यम स्थिरः ।पङ्गुः क्रोडस्तथा कालः नीलवासा महाग्रहः ॥ १११ ॥
3.111 · p. 17
अनुष्टुप्
उपरागस्तु स्वर्भाणुः सैहिकेयो विधुन्तुदः ।उपप्लवस्तमो राहुर्भरणीभूरथाऽहिकः ॥ ११२ ॥
3.112 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)
अश्लेषाभूश्च केतुश्च शिखी चेति ग्रहा मताः ।उत्तानपादजश्चैव ध्रुवाख्यः कथितो बुधैः ॥ ११३ ॥
3.113 · p. 17
अनुष्टुप्
* अगस्त्यनामानि *
अगस्त्योऽगस्तिराग्नेयः सत्याग्निरग्निमारुतः ।वातापिद्विट् तथा क्वाथिः और्वशेयो घटोद्भवः ॥ ११४ ॥
3.114 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्नि (wrong syllable)
पीताब्धिः वारुणिः मैत्रावरुणिः कलशीसुतः ।कौषीतकी तु तद्भार्या लोपामुद्रा वरप्रदा ॥ ११५ ॥
3.115 · p. 17
अनुष्टुप्
* सप्तर्षि नामानि *
सप्तर्षीणां तु नामानि मरीचिरत्रिरङ्गिराः ।पुलस्त्यश्च महातेजाः ऋतुः वशिष्ठ नामवान् ॥ ११६ ॥
3.116 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
पुलहः सप्तमो ज्ञेयः एते चित्रशिखण्डिनः ।
3.54 · p. 17
अनुष्टुप्
* चन्द्रसूर्यसंमिलितनामानि *
पुष्पवन्तौ पुष्पदन्तावेकोक्त्या चन्द्रभास्करौ ॥ ११७ ॥
3.117 · p. 17
अनुष्टुप्
* चन्द्रसूर्यग्रहणनामानि *
सूर्येन्दोः राहुग्रासे स्यादुपराग उपप्लवः ।
3.56 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हु (wrong syllable)
* उपद्रवनामानि *
उपसर्गस्त्वरिष्टं स्यादुपलिङ्गमुपद्रवः ॥ ११८ ॥
3.118 · p. 18
अनुष्टुप्metre not read in every line
उत्पातश्च तथाऽजन्यमीतिश्च तदनन्तरम् ।एते चोपद्रवाः ज्ञेयाः वह्न्युत्पात उपाहितः ॥ ११९ ॥
3.119 · p. 18
अनुष्टुप्
* कालनामानि *
कालो दिष्टोऽप्यनेहाः स्यात् समयः सर्वमूषकः ।कालो द्विधाऽवसर्पिण्युत्सर्पिणीकालभेदतः ॥ १२० ॥
3.120 · p. 18
अनुष्टुप्
षडरा अवsaर्पिण्यामुत्सर्पिण्यां त एव वै ।एवं द्वादशभिश्चारैः वर्तते कालचक्रकम् ॥ १२१ ॥
3.121 · p. 18
अनुष्टुप्metre not read in every lineLatin letters: sa
अष्टादश निमेषाः स्युः काष्ठा काष्ठाद्वयं भवेत् ।लवस्तु तैः कला पञ्चदशभिरपि ज्ञायताम् ॥ १२२ ॥
3.122 · p. 18
अनुष्टुप्metre not read in every line
लेशस्तु तद्द्वयेनैव तैः पञ्चदशभिः क्षणः ।नाडिका तु क्षणैः षड्भिः धारिका घटिका च सा ॥ १२३ ॥
3.123 · p. 18
अनुष्टुप्
तद्द्वयेन मुहूर्तस्तु तथा तैरपि त्रिंशता ।अहोरात्रस्तु सम्पूर्ण दिवसः कथितो बुधैः ॥ १२४ ॥
3.124 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
* दिवसनामानि *
अहर्दिनञ्च घस्रं द्युर्दिवसो वासरो दिवम् ।
3.64 · p. 18
अनुष्टुप्
* प्रभातनामानि *
प्रभातं तु विभातं च प्रत्यूषं स्यादहर्मुखम् ॥ १२५ ॥
3.125 · p. 18
अनुष्टुप्
उषो व्यृष्टं प्रगे प्राह्णे पूर्वेद्युश्च निशात्ययः ।गोसः प्रातश्च गोसर्गः काल्यं कल्यं च प्रत्युषः ॥ १२६ ॥
3.126 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
* मध्याह्ननामानि *
दिवामध्यं तु मध्याह्नं मध्यन्दिनं तथैव च ।
3.67 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दि (wrong syllable)
* सायं-सन्ध्याकालनामानि *
दिनावसानमुत्सूरो विकालः सबलिस्तथा ॥ १२७ ॥
3.127 · p. 19
अनुष्टुप्metre not read in every line
सायं तु पितृसूः सन्ध्या त्रिसन्ध्यं तूपवैणवम् ।कुतपो श्राद्धकालस्तु भागोऽष्टमो दिनस्य यः ॥ १२८ ॥
3.128 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
* रात्रिनामानि *
रात्रिः रात्री तमी भौती तमा तमिस्तमस्विनी ।त्रियामा यामिनी तुङ्गी वासतेयी विभावरी ॥ १२९ ॥
3.129 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
शर्वरी शार्वरी श्यामा वसतिर्वासुरा तथा ।निशीथिनी निशा नक्ता शताक्षी क्षणदा क्षपा ॥ १३० ॥
3.130 · p. 19
अनुष्टुप्
वासरकन्यका याम्या निशीथ्या च निषद्वरी ।रजनी रजनिः घोरा पूतार्चिश्चक्रभेदिनी ॥ १३१ ॥
3.131 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
क्षणिनी राक्षसी चैव यामवती च तामसी ।उशाः उषा तथा दोषा इन्दुकान्ता तथैवच ॥ १३२ ॥
3.132 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
ज्यौस्त्नी तु पूर्णिमारात्रिस्तमिस्रा दर्शयामिनी ।निशासमूहबोधार्थे गणरात्रो निशागणः ॥ १३३ ॥
3.133 · p. 20
अनुष्टुप्
पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता क्षपा ।ज्ञातव्या रजनीद्वन्द्वं गर्भकं तु निशामुखम् ॥ १३४ ॥
3.134 · p. 20
अनुष्टुप्
दिनात्ययः प्रदोषश्च यामस्तु प्रहरस्तथा ।निशीथस्त्वर्धरात्रश्च निःसंपातो महानिशा ॥ १३५ ॥
3.135 · p. 20
अनुष्टुप्
उच्चन्द्रस्त्वपररात्रस्त्वन्धकारं रजोबलम् ।तमिस्त्रं तिमिरं ध्वान्तं तथाऽन्धतमसं तमः ॥ १३६ ॥
3.136 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
नीलपङ्को निशावर्म दिनाण्डं दिनकेसरः ।सन्तमसं तथा वृत्रोऽवतमसं दिगम्बरः ॥ १३७ ॥
3.137 · p. 20
अनुष्टुप्metre not read in every line
वियद्भूतिश्च भूच्छाया रात्रिरागः स्मृतो बुधैः ।तुल्यनक्तं दिवंकाले विषुवद्विषुवं च यत् ॥ १३८ ॥
3.138 · p. 20
अनुष्टुप्
पञ्चदशदिनानाञ्च पक्षः स बहुलोऽसितः ।कृष्णो निशाह्वयः ख्यातः शुक्लो दिशाह्वयस्तथा ॥ १३९ ॥
3.139 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
तिथिस्तु कर्मवाटी स्यात् पक्षतिः प्रतिपत् तथा ।पञ्चदश्यौ यज्ञकालौ पक्षान्तौ चापि पर्वणी ॥ १४० ॥
3.140 · p. 20
अनुष्टुप्
भूतेष्टापञ्चदश्योर्यद् पर्वमूलं तदन्तरम् ।प्रतिपत् पर्वसन्धिः स पञ्चदश्योर्यदन्तरम् ॥ १४१ ॥
3.141 · p. 20
अनुष्टुप्
पूर्णिमा पौर्णमासी स्यात् राका पूर्णे क्षपाकरे ।कलाहीने त्वनुमतिर्मार्गशीर्ष्याऽऽग्रहायणी ॥ १४२ ॥
3.142 · p. 20
अनुष्टुप्
अमावास्या त्वमावासी सूर्येन्दुसङ्गमस्तथा ।अमावस्या च दर्शोऽमाऽमावासी कथिता बुधैः ॥ १४३ ॥
3.143 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दु (wrong syllable)
सा नष्टेन्दुः कुहुः प्रोक्ता कुहूश्चापि निगद्यते ।सचन्द्रिका सिनीवाली भूतेष्टा तु चतुर्दशी ॥ १४४ ॥
3.144 · p. 21
अनुष्टुप्
* मासनामानि *
द्विपक्षौ मास आख्यातः वर्षकोशोऽपि कथ्यते ।वर्षांशकोऽपि मासार्थे दिनमलश्च प्रयुज्यते ॥ १४५ ॥
3.145 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 दिन (syllable split)
* मासभेदः *
मार्गशीर्षः सहाः मार्गो वत्सरादिस्तथा सहः ।आग्रहायणिकश्चैव सहस्यस्तु सहस्यवत् ॥ १४६ ॥
3.146 · p. 21
अनुष्टुप्
पौषस्तैषस्तु माघश्च तपास्तु फाल्गुनस्तथा ।फल्गुनिकस्तपस्यश्च फल्गुनालस्तपस्यवत् ॥ १४७ ॥
3.147 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable); pāda 3, syllable 3 नि (wrong syllable)
चैत्रस्तु चैत्रिकश्चैव मधुश्च फाल्गुनानुजः ।कामसखस्तथा मोहनिकराधस्तु माधवः ॥ १४८ ॥
3.148 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
उच्छरश्चैव वैशाखे ज्येष्ठस्तु खरकोमलः ।मलः शुक्रस्तथा ज्येष्ठामूलीयः खरकस्तथा ॥ १४९ ॥
3.149 · p. 21
अनुष्टुप्
अथाऽऽषाढः शुचिश्चापि श्रावणस्तु नभास्तथा ।श्रावणिकोऽथ भाद्रश्च भाद्र-प्रौष्ठपरः पदः ॥ १५० ॥
3.150 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable)
नभस्यः स्यादिषश्चाश्वियुज आश्विन उच्यते ।अथ कार्त्तिकिकः सैरी कार्त्तिकः कौमुदस्तथा ॥ १५१ ॥
3.151 · p. 22
अनुष्टुप्
बहुलोर्जौ च नामानि प्रोक्तानि कोविदैः समैः ।द्वौ द्वौ मासौ च एकर्तुर्मार्गादितः क्रमाद्भवेत् ॥ १५२ ॥
3.152 · p. 22
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
हिमागमस्तु हेमन्तो रौद्रश्च प्रसलस्तथा ।शैषस्तु शिशिरश्चैव वसन्तस्तु बलाङ्गकः ॥ १५३ ॥
3.153 · p. 22
अनुष्टुप्
इष्यश्च पुष्पकालस्तु सुरभिः पिकबान्धवः ।पुष्पसाधारणश्चाथ निदाग ऊष्म ऊष्मकः ॥ १५४ ॥
3.154 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
उष्ण ऊष्मायणो ग्रीष्मः पद्म उष्णागमस्तपः ।आखोरचैव वर्षा तु मेघागमस्तपात्ययः ॥ १५५ ॥
3.155 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
मेघकालः क्षरी प्रावृट् वरिषास्तु घनात्ययः ।शरत् चैवाऽयनं ज्ञेयं शिशिराद्यैस्त्रिभिस्त्रिभिः ॥ १५६ ॥
3.156 · p. 22
अनुष्टुप्
उत्तरायणकालेन संयुक्तं दक्षिणायनम् ।स्यादेको वत्सरो नाम्ना वर्षं संवत्सरं शरत् ॥ १५७ ॥
3.157 · p. 22
अनुष्टुप्
तथाऽनुवत्सरोऽब्दं च हायनः परिवत्सरः ।उद्वत्सरः समाः वत्सः संवत् च कथ्यते बुधैः ॥ १५८ ॥
3.158 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
भवेत् पैत्रं त्वहर्नक्तं मासेनाब्देन दैवतम् ।सहस्रयुगलैर्दिव्यैः युगैः स्याद्ब्राह्ममेककम् ॥ १५९ ॥
3.159 · p. 22
अनुष्टुप्
स्थितिप्रलयकालात्मकल्पौ नॄणां तु तत्तथा ।एकसप्ततिभिर्दिव्यैर्युगै मन्वन्तरं मतम् ॥ १६० ॥
3.160 · p. 22
अनुष्टुप्
कल्पान्तः प्रलयः कल्पः परिवर्तस्तथा क्षयः ।समगुप्तिश्च संवर्तो युगान्तश्च जिहानकः ॥ १६१ ॥
3.161 · p. 23
अनुष्टुप्
संहार स्यादथत्काले तदात्वं प्रतिपाद्यते ।तज्जं सांदृष्टिकं चैव सांसृष्टिकं फलं तथा ॥ १६२ ॥
3.162 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टि (wrong syllable)
आयतिस्तूत्तरः काल उदर्कः स्याद्भविष्यदः ।
3.104 · p. 23
अनुष्टुप्
* आकाशस्य नामानि *
आकाशमम्बरं चाऽभ्रमन्तरिक्षं घनाश्रयः ॥ १६३ ॥
3.163 · p. 23
अनुष्टुप्
वियद्विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः ।व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥
3.164 · p. 23
अनुष्टुप्
* मेघनामानि *
[मेघो] घनाघनो नभ्राट् तडित्वान् मुदिरो घनः ॥ १६५ ॥
3.165 · p. 23
अनुष्टुप्
जीमूतो जलदश्चाऽभ्रं जलमुक् जलदस्तथा ।वारिमुक् वारिवाहश्च वारिधरश्च वारिदः ॥ १६६ ॥
3.166 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
स्तनयित्नुश्च पर्जन्यो धाराधरो बलाहकः ।नभोध्वजो जलधरो जलवाहश्च वार्मसिः ॥ १६७ ॥
3.167 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
व्योमधूमस्तथा धूमयोनिश्च वारिवाहनः ।कादम्बिनी कालिका वै मेघमाला निगद्यते ॥ १६८ ॥
3.168 · p. 23
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
दुर्दिनं वार्दलं चैव ज्ञायतां मेघजं तमः ।धारासम्पात आसारः महावृष्टिस्तथैव च ॥ १६९ ॥
3.169 · p. 24
अनुष्टुप्
ज्ञायतां वेगवान् वर्षो वातास्तं वारिशीकरः ।वृष्टिश्च वर्षणं वर्षं तदभावस्त्ववग्रहः ॥ १७० ॥
3.170 · p. 24
अनुष्टुप्
अवग्राहश्च वग्राहो वग्रहः कथ्यते बुधैः ।मेघास्थिमिञ्जका चैव वर्षाबीजं घनोपलः ॥ १७१ ॥
3.171 · p. 24
अनुष्टुप्
करकस्तोयडीम्भो वै बीजोदकमिरावरम् ।मेघास्थिपुञ्जिका चैव मेघकफ इराम्बरम् ॥ १७२ ॥
3.172 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 घ (wrong syllable)
अम्बुघनश्च नामानि कथ्यन्ते किल पण्डितैः ।
3.116 · p. 24
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 घ (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
* दिङ्नामानि *
आशा चैव हरित् काष्ठा स्याद्दिक् तथा ककुप् किल ॥ १७३ ॥
3.173 · p. 24
metre not recognised
दिक पूर्वा तु तथा प्राची स्यादऽपरेतरा तथा ।दक्षिणा तु अवाची स्यादपाची चोत्तरेतरा ॥ १७४ ॥
3.174 · p. 24
अनुष्टुप्metre not read in every line
प्रतीची पश्चिमा तु स्याद् पूर्वेतरा तथैव च ।उदीची तूत्तरा दिक् च स्यादऽपाचीतरा तथा ॥ १७५ ॥
3.175 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
विदिक् त्वपदिशं चैव प्रदिक् च कथ्यते बुधैः ।दिश्यं दिग्भववस्तुन्यपागपाचीनमेवस्यात् ॥ १७६ ॥
3.176 · p. 24
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 7 व (wrong syllable)