कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

द्वितीयः परिच्छेदः (2/4)

वातापिद्विट् तथाग्नेयो मैत्रावरुणिरप्यथ ।लोपामुद्रा च सा कौषीतकी चापि वरप्रदा ॥ १२१ ॥
2.121 · p. 20
अनुष्टुप्
पुष्पदन्तौ पुष्पवन्तौ चन्द्रसूर्यौ समोक्तितः ।कालोऽनेहा दिष्टसर्वमूषकौ समयोऽपि च ॥ १२२ ॥
2.122 · p. 20
अनुष्टुप्
राहुग्रासोपरागौ च सूर्याचन्द्रमसोर्ग्रहः ।उपप्लवस्त्वथारिष्टमुपलिङ्गमुपद्रवः ॥ १२३ ॥
2.123 · p. 20
अनुष्टुप्
उत्पातेती अजन्यं च बृहद्भानोरुपाहितः ।अष्टादशनिमेषैः स्यात्काष्ठा ते द्वे लवो मतः ॥ १२४ ॥
2.124 · p. 20
अनुष्टुप्
लवैश्च पञ्चदशभिः कलैका परिकीर्तिता ।कलाद्वयं तथा लेशो लेशपञ्चदश क्षणः ॥ १२५ ॥
2.125 · p. 20
अनुष्टुप्
क्षणषट्केन घटिका नाडिका धारिकापि च ।घटिके द्वे मुहूर्तः स्यात्त्रिंशता तैरहर्निशम् ॥ १२६ ॥
2.126 · p. 21
अनुष्टुप्
दिवसो वासरो घस्नोऽहर्दिनं द्युर्दिवं च तत् ।प्रभातं च विभातं स्यात्प्रत्यूषाहर्मुखे पुनः ॥ १२७ ॥
2.127 · p. 21
अनुष्टुप्
मध्याह्नस्तु दिवामध्यं मध्यन्दिनमपीष्यते ।सन्ध्या सायं च पितृसूर्विकालः सबलिस्तथा ॥ १३० ॥
2.130 · p. 21
अनुष्टुप्
उत्सूरोऽथ दिनान्ते स्यात्त्रिकालं चोपवैणवम् ।कुतपः श्राद्धकाले चाष्टमोंऽशो वासरस्य सः ॥ १३१ ॥
2.131 · p. 21
अनुष्टुप्
दर्शरात्रिस्तमिस्राथ ज्योत्स्नी स्यात्पूर्णिमानिशा ।निशागणो गणरात्रो गर्भकं यामिनीद्वयम् ॥ १३२ ॥
2.132 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
प्रदोषः शर्वरीचक्रमर्धरात्रो महानिशा ।निशीथोऽप्यथ यामः स्यत्प्रहरोऽपि निशम्यते ॥ १३३ ॥
2.133 · p. 21
अनुष्टुप्
अन्धकारस्तमो ध्वान्तं भूच्छाया तिमिरं त्वथ ।तमिस्र[13]मन्धतमसं तथा संतमसं स्मृतम् ॥ १३४ ॥
2.134 · p. 22
अनुष्टुप्
तिथिः स्यात्कर्मवाटी च पक्षान्तौ पर्वणी तथा ।विषुवं विषुवत्तुल्यदिनरात्रावनेहसि ॥ १३५ ॥
2.135 · p. 22
अनुष्टुप्
पक्षतिः प्रतिपत्पर्वसन्धिमानमुदाहृतम् ।प्रतिपत्पञ्चदश्योश्चान्तरं स्यादथ पूर्णिमा ॥ १३६ ॥
2.136 · p. 22
अनुष्टुप्
राका सा पौर्णमासी तु पूर्णचन्द्रमसि स्मृता ।पौर्णमास्यथ दर्शश्च संगमः सूर्यचन्द्रयोः ॥ १३७ ॥
2.137 · p. 22
अनुष्टुप्
अमावस्यामावसी च अमावास्याप्यमा मता ।दृष्टेन्दुः सा सिनीवाली नष्टेन्दुश्च कुहुः कुहूः ॥ १३८ ॥
2.138 · p. 22
अनुष्टुप्
अथ मासः पक्षयुग्ममाग्रहायणिकः सहाः ।मार्गशीर्षः सहश्चाथ पौषतैषौ सहस्यवत् ॥ १३९ ॥
2.139 · p. 22
अनुष्टुप्
तपा माघस्त्वथ फाल्गुनिकः फाल्गुन इत्यपि ।तपस्योऽथ मधुश्चैत्रचैत्रिकौऽप्यथ माधवः ॥ १४० ॥
2.140 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
वैशाखे राध इत्येवं ज्येष्ठे शुक्रोऽपि कथ्यते ।आषाढे च शुचिः श्रावणिकस्तु श्रावणो नभाः ॥ १४१ ॥
2.141 · p. 22
अनुष्टुप्
भाद्रपदो नभस्यैव भाद्रप्रौष्ठपदावपि ।अश्वयुक् चाश्विनेषौ तु कार्तिको बाहुलः समौ ॥ १४२ ॥
2.142 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
ऊर्जकार्तिकिकौ मासौ द्वावृतुः परिकीर्तितः ।रौद्रः प्रशलहेमन्तौ शैषस्तु शिशिरोऽपि च ॥ १४३ ॥
2.143 · p. 23
अनुष्टुप्
वसन्तः पुष्पकालेष्यौ सुरभिश्च बलाङ्गकः ।उष्णागमो निदाघोष्णौ तपो ग्रीष्मोष्मकावपि ॥ १४४ ॥
2.144 · p. 23
अनुष्टुप्
प्रावृड्वर्षाः क्षरी मेघकालो मेघागमस्तथा ।तपात्ययोऽथ मुदिरात्ययः शरदपि स्मृतः ॥ १४५ ॥
2.145 · p. 23
अनुष्टुप्
ऋतुभिश्च त्रिभिश्चैकमयनं परिकीर्तितम् ।अयने द्वे भवेद्वर्षं वत्सरो हायनः समाः ॥ १४६ ॥
2.146 · p. 23
अनुष्टुप्
संवत्संवत्सरौ तुल्यौ भूम्न्येव समाः स्त्रियाम् ।अब्दं शरद्भवेत्पैत्रमहोरात्रं तु मासतः ॥ १४७ ॥
2.147 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वर्षेण दैवतं तच्च प्राहुः पूर्वमुनीश्वराः ।दैवे युगसहस्रे द्वे ब्राह्म्यं कल्पा तु ते नृणाम् ॥ १४८ ॥
2.148 · p. 23
अनुष्टुप्
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।कल्पान्तस्तु युगान्तः स्यात्संवर्तप्रलयक्षयाः ॥ १४९ ॥
2.149 · p. 23
अनुष्टुप्
कल्पोऽपि परिवर्तश्च समसुप्तिजिहानकौ ।तत्काले च तदात्वं स्यात्फलं सान्दृष्टिकं मतम् ॥ १५० ॥
2.150 · p. 23
अनुष्टुप्
आगामिसमये विद्यादायतिं तत्फलं पुनः ।उदर्क इति संपूर्णः कालवर्गः क्रमोक्तितः ॥ १५१ ॥
2.151 · p. 24
अनुष्टुप्
आकाशोऽस्त्री नभो व्योमान्तरीक्षं खं मरुत्पथः ।पुष्कराभ्रे तथा विष्णुपदं मेघाश्रयोऽपि च ॥ १५२ ॥
2.152 · p. 24
अनुष्टुप्
स्त्रीलिङ्गे द्योदिवौ देववर्त्मानन्ते विहायसि ।अम्बरं तारकामार्गोऽभ्रमार्गोऽपि निरीक्ष्यते ॥ १५३ ॥
2.153 · p. 24
अनुष्टुप्
मेघस्तु जलमुग्नभ्राड् घनाघनघनौ पुनः ।तडित्वान्मुदिरो धूमयोनिजीमूतशद्रयः ॥ १५४ ॥
2.154 · p. 24
अनुष्टुप्
जलदो जलवाहोऽभ्रं स्तनयित्नुर्बलाहकः ।धाराधरो जलधरपर्जन्यगडयेरकाः ॥ १५५ ॥
2.155 · p. 24
अनुष्टुप्
विद्युदैरावती सौदामिनी च जलवालिका ।शम्पाचिरप्रभा तुल्ये चपला चञ्चला तथा ॥ १५६ ॥
2.156 · p. 24
अनुष्टुप्
मेघानां तु या राजी कादम्बिन्यपि दृश्यते ।दुर्दिनं वार्दलं वृष्टौ वर्षया सह ॥ १५७ ॥
2.157 · p. 24
metre not recognised
वृष्टिविघ्नेऽवग्रहः स्यादवग्राहो मतो नरि ।आसारस्तु घनावेगवर्षणं [च] दिशा हरित् ॥ १५८ ॥
2.158 · p. 24
अनुष्टुप्
दिक्काष्टाशा ककुप्पूर्वा प्राच्यपाची तु दक्षिणा ।पश्चिमा च प्रतीची स्यादुत्तरा त्वपरा स्मृता ॥ १५९ ॥
2.159 · p. 25
अनुष्टुप्
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
2.160 · p. 25
अनुष्टुप्
वरुणः पवनश्रीदावीशानोऽथ दिशां गजाः ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्ज[नः] ॥ १६१ ॥
2.161 · p. 25
अनुष्टुप्
सार्वभौमः सुप्रतीकः पुष्पदन्तोऽष्टमस्तथा ।हस्तिन्योऽष्टौ तु तेषां स्युरभ्रमुप्रमुखाः स्त्रियः ॥ १६२ ॥
2.162 · p. 25
अनुष्टुप्
बुद्धः शास्ता महाबोधिर्धर्मधातुस्त्रिकालवित् ।बोधिसत्त्वो जिनार्यौ च सुगतः श्रीघनाद्वयौ ॥ १६३ ॥
2.163 · p. 25
अनुष्टुप्
तथागतश्चतुस्त्रिंशज्जातकज्ञो विनायकः ।द्वादशाक्षस्त्रिकायश्च दयाकूर्चो मुनीश्वरः ॥ १६४ ॥
2.164 · p. 25
अनुष्टुप्
बौद्धाप्तास्तु विपश्यी च शिखी स्याद्विश्वभूस्तथा ।क्रकुच्छन्दः काञ्चनश्च काश्यपः शाक्यकेसरी ॥ १६५ ॥
2.165 · p. 25
अनुष्टुप्
सौगताः सकलाः शून्यवादिनोऽथार्हता अपि ।स्याद्वादवादिनो यौगाक्षपादौ न्यायवेदिनि ॥ १६६ ॥
2.166 · p. 25
अनुष्टुप्
लोकायतो दुर्दुरूटो बार्हस्पत्योऽपि नास्तिके ।चार्वाकः स्यादथौलूक्यो वैशेषिककणाशनौ ॥ १६७ ॥
2.167 · p. 26
अनुष्टुप्
आन्वीक्षिकी न्यायवीद्या मीमांसा च विचारणा ।ओंकारः प्रणवो वेदान्तः स्यादुपनिषत्तथा ॥ १६८ ॥
2.168 · p. 26
अनुष्टुप्
धर्मशास्त्रं स्मृतिः शिक्षा कल्पो व्याकरणं तथा ।ज्योतिश्छन्दो निरुक्तिश्च षडङ्गानि यथाक्रमम् ॥ १६९ ॥
2.169 · p. 26
अनुष्टुप्
अङ्गषट्कं तथा वेदा मीमांसान्वीक्षिकी तथा ।पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ १७० ॥
2.170 · p. 26
अनुष्टुप्
वाक्यं पदसमूहः स्यात्सुप्तिङन्तं पदं मतम् ।आगमाप्तोक्तिराद्धन्ताः सिद्धान्तसमयावपि ॥ १७१ ॥
2.171 · p. 26
अनुष्टुप्
कृतान्तश्चाथ सूत्रं स्यात्सूचकं प्रस्तुतार्थतः ।तद्भाष्यमुच्यते यत्तु सूत्रमात्रार्थबोधकम् ॥ १७२ ॥
2.172 · p. 26
अनुष्टुप्
प्रस्तावः स्यात्प्रकरणं वार्त्तिकं तत्प्रकीर्तितम् ।उक्तानुक्तद्विरुक्तार्थचिन्तां यत्प्रकरोति हि ॥ १७३ ॥
2.173 · p. 26
अनुष्टुप्
पदभावसमासार्थनिरन्तरसुबोधिका ।टीकाथ पञ्चिका सा स्यात्पदमात्रविभञ्जिका ॥ १७४ ॥
2.174 · p. 26
अनुष्टुप्
कारिका च स्वल्पवृत्तिः प्रचुरार्थविधायिनी ।निघण्टुश्चापि निर्घण्टुः कथितौ नामसंग्रहे ॥ १७५ ॥
2.175 · p. 26
अनुष्टुप्
इतिहासः पुरावृत्तं सर्वविद्या कलन्दिका ।संबोधनं तथाह्वानमामन्त्रणहवावपि ॥ १७६ ॥
2.176 · p. 26
अनुष्टुप्
हूतिराकारणं चैवाभिमन्त्रणमपि स्मृतम् ।बहुकृताथ संहूतिः शपथः शपनं शपः ॥ १७७ ॥
2.177 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कृ (wrong syllable)
व्यवहारो विवादः स्यात्पृच्छा प्रश्नोऽनुयोजनम् ।कथंकथिकता देवप्रश्ने तूपश्रुतिस्तथा ॥ १७८ ॥
2.178 · p. 27
अनुष्टुप्
उपन्यास उपोद्धात उदाहारश्च वाङ्मुखम् ।वार्तोदन्तौ प्रवृत्तिश्च वृत्तान्तः सा पुरातनी ॥ १७९ ॥
2.179 · p. 27
अनुष्टुप्
ऐतिह्यं तु किंवदन्ती जनश्रुतिरुदाहृता ।नामाभिधा गोत्रसंज्ञाख्याह्वाभिख्याह्वया अपि ॥ १८० ॥
2.180 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
नामधेयं प्रिये वाक्ये चटु चाटु यथाक्रमम् ।सत्यं यथातथं तथ्यं सद्भूतं च यथास्थितम् ॥ १८१ ॥
2.181 · p. 27
अनुष्टुप्
समीचीनमृतं सम्यक् प्रियतथ्यं च सूनृतम् ।क्लिष्टं तु संकुलं वाक्यं यदन्योन्यपराहतम् ॥ १८२ ॥
2.182 · p. 27
अनुष्टुप्
सान्त्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् ।अनक्षरमवाच्यं स्याद् ग्रस्तं लुप्ताक्षरं पदम् ॥ १८३ ॥
2.183 · p. 27
अनुष्टुप्
अम्बूकृतं सथूत्कारं निरर्थकमबद्धकम् ।मिथ्याभियोगोऽभ्याख्यानं हृदयंगमसंगते ॥ १८४ ॥
2.184 · p. 27
अनुष्टुप्
हृद्यं श्रव्यं मनोहारि सुस्पष्टं प्रकटोक्तिकम् ।अनृतं वितथालीके परुषे रूक्षनिष्ठुरे ॥ १८५ ॥
2.185 · p. 27
अनुष्टुप्
पृष्ठमांसादनं पृष्ठे परदोषविभाषणम् ।स्तोत्रमीडा स्तवः श्लाघा प्रशंसा वर्णना नुतिः ॥ १८६ ॥
2.186 · p. 28
अनुष्टुप्
अर्थवादः स्तुति[र्मिथ्या]स्तवेऽपि स्याद्विकत्थनम् ।वचनीयताविगाने निन्दाक्षेपौ जुगुप्सनम् ॥ १८७ ॥
2.187 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
परिवादापवादौ च निर्वादावर्णधिक्क्रियाः ।कुत्साक्रोशौ तथा गालिं विरुद्धवचनं विदुः ॥ १८८ ॥
2.188 · p. 28
अनुष्टुप्
क्षारणा रतशापे स्यादाशीः परसुभाषणम् ।कीर्तिर्यशः समाज्ञा चाभिख्याम्रेडितमेव तत् ॥ १८९ ॥
2.189 · p. 28
अनुष्टुप्
यद्द्विस्त्रिरुक्तमुल्लापः काकुवागपि कथ्यते ।संलप्तिः संकथापि स्यादन्योन्योक्तिरुदीरिता ॥ १९० ॥
2.190 · p. 28
अनुष्टुप्
परिदेवनं विलापो विप्रलापो विरुद्धवाक् ।रुशती त्वशुभा वाणी शुभा कल्याथ चर्चरी ॥ १९१ ॥
2.191 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
चर्भटी चापलापः स्यान्निह्नवोऽथ मुहुर्वचः ।संभाषणं वाचिकं च संदेशवचनं विदुः ॥ १९२ ॥
2.192 · p. 28
अनुष्टुप्
उपालम्भः सनिन्दो यस्तच्च स्यात्परिभाषणम् ।आज्ञादेशौ नियोगश्च निर्दिष्टिः शासनं तथा ॥ १९३ ॥
2.193 · p. 28
अनुष्टुप्
अङ्गीकाराभ्युपायास्थाः संधा संविच्च संश्रवः ।प्रतिश्रवाभ्युपगमौ प्रतिज्ञासंगराश्रवाः ॥ १९४ ॥
2.194 · p. 28
अनुष्टुप्
गीतं वाद्यं तथा नृत्तं तौर्यं नाट्यं प्रकीर्तितम् ।संगीतमथ गीतं तु गेयं गान्धर्वमेव तत् ॥ १९५ ॥
2.195 · p. 29
अनुष्टुप्
नृत्तं लास्यं तथा नृत्यं ताण्डवं नाट्यनर्तने ।नटनं चोच्चताले स्यात्पानगोष्ठ्यामपि स्मृतम् ॥ १९६ ॥
2.196 · p. 29
अनुष्टुप्
[17] यन्नृत्तं मण्डलेन स्यात्स्त्रीणां हल्लीसकं च तत् ।नृत्तस्थानं तथा रङ्गो नान्दी द्वादशतौर्यकम् ॥ १९७ ॥
2.197 · p. 29
अनुष्टुप्
वाद्यं वादित्रमातोद्यं तूरतूर्ये स्मरध्वजः ।वीणा च वल्लकी कण्ठकूणिका घोषवत्यपि ॥ १९८ ॥
2.198 · p. 29
अनुष्टुप्
विपञ्ची सप्ततन्तीका कथिता परिवादिनी ।नारदस्य च या वीणा महती परिगीयते ॥ १९९ ॥
2.199 · p. 29
अनुष्टुप्
भारत्याः कच्छपी वीणानालम्बी शंकरस्य च ।प्रभावती गणानां स्यात्तुम्बरोश्च कलावती ॥ २०० ॥
2.200 · p. 29
अनुष्टुप्
कोलम्बो वल्लकीदेहः प्रवालो दण्ड इष्यते ।निबन्धनं तूपनाहः ककुभश्च प्रसेवकः ॥ २०१ ॥
2.201 · p. 29
अनुष्टुप्
ततं वीणादिकं वाद्यं वंशादि शुषिरं विदुः ।घनं तालादिकं चाथानद्धं मुरजमुख्यकम् ॥ २०२ ॥
2.202 · p. 29
अनुष्टुप्
लयः साम्यं पुमस्तालः क्रियया कालसम्मितिः ।मुरजस्तु मृदङ्गोऽथ समावानकदुन्दुभी ॥ २०३ ॥
2.203 · p. 29
अनुष्टुप्
भेरी ढक्का यशःपूर्वपटहः परिकीर्त्यते ।वल्लकीवादनं कोणः शारिकापि तथोच्यते ॥ २०४ ॥
2.204 · p. 30
अनुष्टुप्
पण्डा तत्त्वानुगा बुद्धिर्धारणं ग्रहणं तथा ।अर्थविज्ञानमूहादि तत्त्वज्ञानं च धीगुणाः ॥ २०६ ॥
2.206 · p. 30
अनुष्टुप्
मोक्षबुद्धिर्मता ज्ञानं विज्ञप्तिः शास्त्रशिल्पयोः ।लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं चाथ संलयः ॥ २०७ ॥
2.207 · p. 30
अनुष्टुप्
निद्रासंवेशशयनप्रमीलाः श्वाससंहतिः ।तन्द्रानन्दीमुखीस्वापाः सुप्तं निद्राधिका पुनः ॥ २०८ ॥
2.208 · p. 30
अनुष्टुप्
उत्कण्ठारतिरौत्सुक्यं हृल्लेखायल्लके अपि ।तन्द्रा कौसीद्यमालस्यं जाड्यं मौर्ख्यं च मूढता ॥ २०९ ॥
2.209 · p. 30
अनुष्टुप्
विषादस्त्ववसादः स्यात्सादोऽपि च विषण्णता ।शोकः शोचनखेदौ शुक् क्रोधः कोपक्रुधारुषाः ॥ २१० ॥
2.210 · p. 30
अनुष्टुप्
मन्युः प्रतिघरोषौ रुड् उद्योगः प्रौढिरुद्यमः ।प्रगल्भताभियोगौ चोत्साहश्च कियदेति [18] का ॥ २११ ॥
2.211 · p. 30
अनुष्टुप्
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
2.212 · p. 31
अनुष्टुप्
भीमं भयानकं घोरं भैरवं च भयावहम् ।करवीरं प्रेतवनं स्मशानं प्रेतधाम च ॥ २१३ ॥
2.213 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रे (wrong syllable)
आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमेव च ।शमश्चोपशमः शान्तिः शमथोऽपि निगद्यते ॥ २१४ ॥
2.214 · p. 31
अनुष्टुप्
हासस्तु घर्घरो हास्यं हासिका हसनं हसः ।अदृष्टरदहास्यं तु स्मितं वक्रोष्ठिका पुनः ॥ २१५ ॥
2.215 · p. 31
अनुष्टुप्
अट्टहासो महाहासोऽपहासोऽकारणोद्भवे ।रोमाञ्चः पुलको रोमविकारो रोमहर्षणम् ॥ २१६ ॥
2.216 · p. 31
अनुष्टुप्
रोमोद्गमस्तूद्धुषणं कथितः कण्टकोऽपि च ।आनन्दः प्रमदो हर्षानन्दथू प्रतिसम्मदौ ॥ २१७ ॥
2.217 · p. 31
अनुष्टुप्
मुदामोदप्रमोदाश्च ह्लादश्चित्तप्रसन्नता ।गर्वश्चित्तोन्नतिर्दर्पोऽभिमानश्चावलिप्तता ॥ २१८ ॥
2.218 · p. 31
अनुष्टुप्
अहंकारः स्मयो मानो मरदोऽपि विभाव्यते ।परिश्रमः श्रमः क्लेशः क्लमो व्यायाम इत्यपि ॥ २१९ ॥
2.219 · p. 31
अनुष्टुप्
आयासश्च प्रयासोऽपि दैन्यं कार्पण्यमुच्यते ।नटो भरतपुत्रः स्याच्छैलाली भरतोऽपि च ॥ २२० ॥
2.220 · p. 32
अनुष्टुप्
शैलूषो नर्तको रङ्गाजीवो रङ्गावतारकः ।कृशाश्वी सर्वकेशी च धर्मीपुत्रोऽपि दृश्यते ॥ २२१ ॥
2.221 · p. 32
अनुष्टुप्
सूचकः सूत्रधारः स्यान्नन्दी नान्द्याः प्रपाठकः ।वेश्यासूरिः पीठमर्दश्चारणश्च कुशीलवः ॥ २२२ ॥
2.222 · p. 32
अनुष्टुप्
भ्रूकुंशश्च भ्रकुंशश्च भृकुंशो भीरुवेषभृत् ।विदूषकः केलिकिलः प्रहासिप्रीतिदौ पुनः ॥ २२३ ॥
2.223 · p. 32
अनुष्टुप्
वासन्तिको विटश्चाथ षिङ्गपल्लवकौ समौ ।पूज्यो भट्टारको भट्टो देवस्तत्रभवानपि ॥ २२४ ॥
2.224 · p. 32
अनुष्टुप्
भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ ।भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥
2.225 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रभ (syllable split)
विश्वंभरा रत्नगर्भा [19] मेदिनी सागराम्बरा ।विपुला काश्यपी रत्नबीजसूरचलावनिः ॥ २२७ ॥
2.227 · p. 32
अनुष्टुप्
पृथ्वी पर्वताधारा गौर्या सागरमेखला ।सर्वंसहा धरित्री च क्ष्मानन्ता धरणी तथा ॥ २२८ ॥
2.228 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 पृ (syllables merged)
धरित्री (धात्रीरा?) वार्धिनेमी च द्यावाभूमी तु रोदसी ।तथा द्यावापृथिव्यौ च ज्ञेये द्यावाक्षमे अपि ॥ २२९ ॥
2.229 · p. 33
अनुष्टुप्
सर्वसस्या मही च स्यादुर्वरा मृत्तु मृत्तिका ।इरिणं तूषरं धन्वा स्थलं प्रोक्ता स्थली पुनः ॥ २३० ॥
2.230 · p. 33
अनुष्टुप्
मृत्सा मृत्स्ना च रम्या मृत्खिलं क्षेत्राहतं पदम् ।लवणं वशिरोऽक्षीवं यत्समुद्रसमुद्भवम् ॥ २३१ ॥
2.231 · p. 33
अनुष्टुप्
सैन्धवं माणिमन्थं च नदीभवमपि स्मृतम् ।रोमकं तु रुमाजातं वसूकं वसुकं तथा ॥ २३२ ॥
2.232 · p. 33
अनुष्टुप्
रुमा लवणखानिस्तु विडं पाक्यं च कृत्रिमे ।सौवर्चलं शूलहरं दुर्गन्धरुचके पुनः ॥ २३३ ॥
2.233 · p. 33
अनुष्टुप्
श्यामे च तिलकं तस्मिन् टङ्कणो रसशोधनः ।मालतीतीरजोऽथ स्याद्यवक्षारश्च पाचनः ॥ २३४ ॥
2.234 · p. 33
अनुष्टुप्
यवनालजस्तथा पाक्यो यवाग्रज इतीष्यते ।स्वर्जिः सुवर्चिका योगवाही स्रुघ्नी निगद्यते ॥ २३५ ॥
2.235 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षेत्रं वर्षधराद्यङ्कं वर्षं देशोऽथ मण्डलम् ।राष्ट्रं जनपदो निर्गो विषयो नीवृदीरितः ॥ २३६ ॥
2.236 · p. 34
अनुष्टुप्
उपवर्तमथार्योऽसावुत्तमोत्पत्तिर्विश्रुतः ।अन्तर्वेदिस्तथा गङ्गाकालिन्द्योर्मध्यमुच्यते ॥ २३७ ॥
2.237 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्ति (wrong syllable)
सरस्वतीदृषद्वत्योर्ब्रह्मावर्तोऽन्तरः स्मृतः ।मध्यं विन्ध्यहिमाद्र्योश्चाचारवेदी तु पुण्यभूः ॥ २३८ ॥
2.238 · p. 34
अनुष्टुप्
अन्तरं च कुरुक्षेत्रपञ्चरामनदाह्वयोः ।ब्रह्मवेदिः कुरुक्षेत्रं धर्मक्षेत्रं च कथ्यते ॥ २३९ ॥
2.239 · p. 34
अनुष्टुप्
मध्यं यद्धिमवद्विन्ध्यगिर्योः प्रत्यग्प्रयागतः ।देशो विनशनात्प्राक्तु मध्यदेशोऽपि मध्यमः ॥ २४० ॥
2.240 · p. 34
अनुष्टुप्