कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुहूर्त

muhūrtaपुं · masc.

In 14 kośas: 14 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.137 · p. 9
क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका ।सा धारिका च घटिका मुहूर्तस्तद्द्वयेन च ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.11
तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशा स्त्रियाम् ॥ ११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.110 · p. 80
पितृयज्ञो मासि मासि तदनुश्राद्धमस्त्रियाम् ।अन्वाहार्यमष्टमेऽह्नो मुहूर्त्तः कुतपोऽस्त्रियाम् ॥ ११० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र्य (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.7 · p. 40
पलं च न स्त्री गुरुवर्णषष्ट्याषष्ट्या पलैः स्याद्घटिकात्र नाडी ।साधारणी स्त्री तु न दण्डमाहुर्-मुहूर्तमेतद्द्वितयेन न स्त्री ॥ ७ ॥
उपजातिः
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.15 · p. 41
आदितेयोऽथ जैवश्च वैष्णवः सौर एव च ।[27a]ब्राह्मो नाभस्वतश्चेति मुहूर्त्ताः क्रमशो निशि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.47 · p. 112
genderपुंक्लीm. n.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.126 · p. 21
क्षणषट्केन घटिका नाडिका धारिकापि च ।घटिके द्वे मुहूर्तः स्यात्त्रिंशता तैरहर्निशम् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.141 · p. 228
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.124 · p. 18
तद्द्वयेन मुहूर्तस्तु तथा तैरपि त्रिंशता ।अहोरात्रस्तु सम्पूर्ण दिवसः कथितो बुधैः ॥ १२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.267 · p. 19
तैरष्टादशभिः काष्ठा काष्ठात्रिंशत् कला स्मृता ।कलास्त्रिंशत्क्षणः ते तु मुहूर्तो द्वादशक्षणाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.231 · p. 32
काष्ठा तास्तु कला त्रिंशत् तास्तु त्रिंशत् क्षणोऽथ ते ।षण्णाडी घटिका ते तु मुहूर्तः पुंनपुंसके ॥ २३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.13 · p. 277
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.54 · p. 21
लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः ।द्वे तु नाड्यौ मुहूर्तोऽस्त्री घटिका धारिकेति च ॥ ५४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 200 · p. 541
मुहूर्तमल्पकाले स्याद् घटिकाद्वितयेऽपि च ॥ २०० ॥

मुहूर्त as a meaning in nānārtha verses

  • धरणिकोश क्षणगणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः । क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥ Dharaṇikośa 14.2.6
  • कोषकल्पतरु क्षणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • नानार्थार्णवसंक्षेप क्षणमुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके । निर्व्यापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥ Nānārthārṇavasaṃkṣepa 2.2.20
  • नानार्थार्णवसंक्षेप घटीमुहूर्ताख्येऽथ ना कुम्भराशौ द्रोणाख्यमानके । नृस्त्रियोस्तु घटी कुम्भे घ्राणा तु स्त्रीनपुंसकम् ॥ ३८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.386
  • नानार्थार्णवसंक्षेप घटिकाघटिका तु मुहूर्ताख्ये काले नाडीद्वयात्मके । गवादिदोहपात्रे च पारिसंज्ञे प्रकीर्तिता ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 3.1.29
  • नानार्थार्णवसंक्षेप अश्वत्थअश्विनीसंज्ञनक्षत्रे स्यान्मुहूर्तान्तरेऽपि च । पौर्णमास्यां त्वाश्वयुज्यामश्वत्था स्यात् स्त्रियामियम् ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 4.64