कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षण

kṣaṇaपुं · masc.

In 14 kośas: 31 synonym verses, 12 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.137 · p. 9
क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका ।सा धारिका च घटिका मुहूर्तस्तद्द्वयेन च ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.173 · p. 57
आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।अङ्कपाली परीरम्भः क्रोडिकृतिरथोत्सवे ॥ १५०७ ॥महः क्षणोद्धवोद्धर्षा मेलके सङ्गसङ्गमौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 डि (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1509 · p. 57
विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः ।वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.11
तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशा स्त्रियाम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.38
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.750 · p. 86
उद्घात उक्तः प्रस्तावो वारश्चावसरः क्षणः ।वदन्त्युपनतं प्राज्ञा उपसन्नमुपस्थितम् ॥ ७५० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.763 · p. 87
प्रत्यग्रमुक्तं सद्यस्कमुपाग्रमुपसर्जनम् ।दोला प्रेङ्खोलनं प्रेङ्खा उत्सवः स्यान्महः क्षणः ॥ ७६३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.370 · p. 130
वर्द्धप्रमापप्रमथप्रवासप्रशमक्षणाः ।पुत्रश्च कल्पनिर्यातनिषूदप्रमथास्ततः ॥ ३७० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.52 · p. 411
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्त्तो द्वादशापि च ।ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.141 · p. 432
कम्पितं कम्पनं कम्पो वेपथुः स्वादथ क्षणः ।महोत्सवोद्धवाः पुंसि महः सान्तं नपुंसकम् ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.8 · p. 40
पुंसि क्षणोऽश्वत्थ इह स्त्रि[26b]यां नसूर्यादिकानां भणितं मुनीनाम् ।काष्ठाः किलाष्टादशकैनिमेषैस्-तत्त्रिंशतः स्त्री गदिता कला* ॥ ८ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.9 · p. 40
त्रिंशत्कलाकः कथितः क्षणो नाते षट् घटीत्युक्तिरहो परेषाम् ।स्याद्घाटिकं नाडिकमन्त्यलिङ्गंयन्त्रं घटाज्ञानकरं भवेद्यत् ॥ ९ ॥
इन्द्रवज्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.13 · p. 41
ऐन्द्राग्नो निर्ऋतिर्नक्तंचरी वरुणसम्बरौ ।अर्यमा विजयो योनिर्भग एते दिने क्षणाः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.209 · p. 98
कम्पो वेपथुरत्र कम्पनमथो दर्दूः स शीताधिकामूर्छा स्त्री प्रलयो विचेष्टनमथोद्धर्षोद्धवौ च क्षणः ।पुंसि स्यान्मह उत्सवोऽथ चरमे सान्तं महः सम्मतंप्रोक्तः खण्डरसश्च चित्ररसयुक्सर्वेऽपि यस्मिन्रसाः ॥ २०९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.121 · p. 23
क्षणः पर्व च कल्याणं मधुपर्कं तु निष्टकम् ।यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.125 · p. 20
लवैश्च पञ्चदशभिः कलैका परिकीर्तिता ।कलाद्वयं तथा लेशो लेशपञ्चदश क्षणः ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.381 · p. 99
उत्सवः क्षण उद्धर्षो महश्चोक्तस्तथोद्धवः ।मेलके संगमः सङ्गो निरोधो निग्रहो मतः ॥ ३८१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.383 · p. 99
क्षणः समय इत्येवमुपोद्धातोऽप्युपक्रमः ।अभ्यादानमथारम्भः प्रयोगः प्रक्रमः समः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.81 · p. 10
तमिस्रमन्धतमसं भूछाया तामसं रजः ।क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.92 · p. 28
प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः ।आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.123 · p. 18
लेशस्तु तद्द्वयेनैव तैः पञ्चदशभिः क्षणः ।नाडिका तु क्षणैः षड्भिः धारिका घटिका च सा ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2745 · p. 446
मह उद्धव उद्धर्षः क्षणः स्यादुत्सवे सदा ॥ २७४५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2748 · p. 447
समयोऽवसरो वारो वेला च प्रक्रमः क्षणः ।प्रस्तावोऽन्तरमित्यष्टौ क्षणनामानि सन्ति वै ॥ २७४८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.267 · p. 19
तैरष्टादशभिः काष्ठा काष्ठात्रिंशत् कला स्मृता ।कलास्त्रिंशत्क्षणः ते तु मुहूर्तो द्वादशक्षणाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.508 · p. 35
उत्सवः क्षण उद्धर्षो मह उद्धव उद्धयः ।उत्सवे बालकादीनां पर्यायः परिकीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.231 · p. 32
काष्ठा तास्तु कला त्रिंशत् तास्तु त्रिंशत् क्षणोऽथ ते ।षण्णाडी घटिका ते तु मुहूर्तः पुंनपुंसके ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1020 · p. 127
अविज्ञातेङ्गिताकारो भावो गाम्भीर्यमुत्सवः ।उद्धवः क्षण उद्धर्षो महो मान्द्यमपाटवम् ॥ १०२० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.54 · p. 21
लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः ।द्वे तु नाड्यौ मुहूर्तोऽस्त्री घटिका धारिकेति च ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.62 · p. 88
क्षणः पर्व च कल्याणं भोज्यं तु जठरोत्सवः ।मधुपर्कस्तु निष्टंकः शंखपात्रं तु पाटली ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.127 · p. 183
झिणिका वातसंचारो हिक्का हेक्का च हिक्किका ।उच्छ्वासरोधो योऽकस्मात् क्राथोऽसौ क्रथनं क्षणम् ॥ १२७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.7 · p. 192
वण्टो विभागो भागोंऽशः पादस्त्वंशश्चतुर्थकः ।कला तु षोडशो भागो वारस्त्ववसरः क्षणः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.47
निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ ४७ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.851 · p. 97
कालविशेषेऽवसरेऽव्यापारे पारतन्त्र्ये च ।मध्ये तथोत्सवे च क्षणशब्दः कथ्यते सद्भिः ॥ ८५१ ॥
metre not recognised
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.6 · p. 51
गणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः ।क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु ।कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.3 · p. 193
धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवेकृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे ।कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक-श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु ।व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो-ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः ।ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौमूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः ।संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणोघ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् ।काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौबाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.19 · p. 22
महाजलसमूहे च वाद्यादिद्रुतवर्तने ।क्षणस्त्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ॥ १९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.20 · p. 22
मुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके ।निर्व्यापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास क्षकारादयः Paramānandīyanāmamālā 5.29.378 · p. 209
क्षत्ता द्वाःस्थे नियुक्ते च दासजे सारथावपि ।क्षीवो मत्ते नृशंसे च क्षणः कालान्तरे मतः ॥ ३७८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास क्षकारादयः Paramānandīyanāmamālā 5.29.379 · p. 210
उत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा ।क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.4 · p. 207
ऊर्णा स्यादन्तरावर्ते भ्रुसोर्मेषादिलोमनि ।कर्णः स्यात्तु पृथापुत्रे श्रवणे काञ्चनी(?) त्रिषु(?) ॥क्षण पर्वण्युत्सवे च कालमानेऽपि न द्वयोः ।कणा तु जीवके चाल्पपिप्पलीमक्षिकासु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1893 · p. 231
हिंसाव्यापारवैकल्यपरतन्त्रत्वपर्वसु ।क्षणोऽथ क्रोश आक्रन्दे गव्यूतिद्वयगर्हयोः ॥ १८९३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.11 · p. 214
दातुं भूषितकन्यायां कूपो गर्ते प्रहावपि ।क्षणो व्यापारवैकल्ये कालभेदाल्पकालयोः ॥ ११ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.12 · p. 215
उत्सवे परतन्त्रत्वे मध्यावसरपर्वसु ।कन्तू कुसूलकन्दर्पौ प्राज्ञकाव्यकृतौ कवी ॥ १२ ॥
अनुष्टुप्
doubtful

क्षण as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् पर्वन्तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥ Amarakośa 3.3.121
  • हलायुधकोशः (अभिधानरत्नमाला) वितानप्रत्ययाः शपथज्ञानहेतुविश्वासनिश्चयाः । विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥ Abhidhānaratnamālā (Halāyudha) 5.848
  • कल्पद्रुकोशः तिरस्चिशीलने तु परेर्ज्ञाने तिरोऽप्याभण्डने क्षणे । अपात्तु ध्यायतिः शापे आङस्तूत्कण्ठितस्मृतौ ॥ ११७ ॥ Kalpadrukośa 1.10.117
  • कोषकल्पतरु प्रवणआवर्ते प्रणते च दातरि वहौ क्षीणे क्रमान्निम्नक- क्ष्याभागे प्रवणोऽन्यवत्क्षणगतोऽप्यस्त्री तु शृङ्गाटके । बन्द्यां स्वीकरणे करेऽधिगमने राहूपरागे तथा- दृत्यां च ग्रहणं दृशीक्षणमपि ज्ञाने तथा दर्शने ॥ २३ ॥ Koṣakalpataru 6.15.23
  • परमानन्दीयनाममाला पौषपौषं युद्धे क्षणे पौषो मासभेदेऽपि सम्मतः । पूगं वृन्दे फले पूग्याः पयो दुग्धे जलेऽपि च ॥ २९७ ॥ Paramānandīyanāmamālā 5.19.297
  • शब्दरत्नावली प्रेक्षाप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
  • शब्दरत्नाकर मुहुस्मुहुः क्षणेऽनुक्षणे च मिथोऽन्योऽन्यं रहस्यपि । यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे ॥ २२७५ ॥ Śabdaratnākara 5.2.2275
  • वैजयन्ती वितानअर्थवद्विषयोपेत इन्द्रिये तु नपुंसकम् । अस्त्री वितानमुल्लोचे विस्ताराध्वरयोः क्षणे ॥ ७६ ॥ Vaijayantī 7.5.76
  • वैजयन्ती मुहुस्मुहुः क्षणेऽनुक्षणे च मिथोऽन्योन्यरहस्ययोः । यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे ॥ २७ ॥ Vaijayantī 8.7.27