पथिद्रुम
pathidrumaपुं · masc.In 3 kośas: 3 synonym verses.
बालपत्रोऽपि कुष्ठारिर्मेध्योऽथ कदरोऽपरः ।श्वेतसारः कार्मुकः स्यात्सोमसारः पथिद्रुमः ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
गोराटः श्यामसारश्च शल्यको बहुशल्यकः ।स सितः सोमवल्कः स्यात्कन्दरः श्वेतसारकः ।पथिद्रुमोऽथासितेऽत्र नेमिद्रुः कुकुकण्टकः ॥ ८५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सिते तु तत्र कदरः कामुकः कुब्जकण्टकः ।सोमवल्को नेमिवृक्षः श्यामसारः पथिद्रुमः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.