कामुक
kāmukaवि · adj.In 17 kośas: 20 synonym verses, 3 as a nānārtha head word, 30 as a meaning of another word.
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः ॥ ४३४ ॥व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः ।विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ४३५ ॥
अनुष्टुप्
genderविadj.
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ २३ ॥कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।
अनुष्टुप्
genderविadj.
जैवातृकः स्यादायुष्मान् बलवानंसलो मतः ।जाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥
अनुष्टुप्
genderविadj.
हिङ्गुलस्तु नदीकान्तो जलजो दीर्घपत्रकः ।नदीजो निचुलो रक्तः कामुकश्चाथ चण्डिका ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
कण्ठारवो गृहार्थेभ्यः कपोतोऽप्यथ कामुकः ।अंह्रिपिच्छः कलरवो वग्देशी छुल्छुलारवः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
मणिकण्ठो महायोगी नीलाङ्गः पुण्यदर्शनः ।कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
शोकनाशो विचित्रश्च कामुकः कर्णपूरकः ।हेमपुष्पः पिण्डपुष्पो गन्धपुष्पोऽपि वञ्जुलः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
अति[40a]मुक्तो मुद्गु(द्ग?)रः स्यान्मण्डको भ्रमरोत्सवः ।पुण्ड्रकः स्याद्विचकिलः सुगन्धश्चापि कामुकः ॥ ९८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
पराश्रयः सुवसन्तः कामुको माधवी लता ।पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
सिते तु तत्र कदरः कामुकः कुब्जकण्टकः ।सोमवल्को नेमिवृक्षः श्यामसारः पथिद्रुमः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
कुब्जके कामुकः श्यामसारः फुल्लो निमिद्रुमः ।निचुले तु नदीकान्तोऽम्बुजो हिज्जल इज्जलः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः ।वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
खदिरो रक्तसारः स्यात्सोमवल्कस्तु कामुकः ।अथ दारुहरिद्रा च हेमकान्ता निगद्यते ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
शालीनः शारदोऽधृष्टेऽप्यहंयुः स्यादहंकृते ।कामनः कामुकः कामी[62] कमरोऽभीक एव च ॥ ९५ ॥
अनुष्टुप्
genderविadj.
genderविadj.
रक्तमञ्जरिकाकान्तः कामुको भूकदम्बकः ।लम्बूषो दक्षिणावर्तो वर्तनी च बृहत्फली ॥ ५६५ ॥
अनुष्टुप्
genderपुंmasc.
नाथः कामयिता पतिर्वरयिता कभ्रो धवः कामनोभर्ता प्राणसमः प्रियः सहचरः कान्तोऽभिकः कामुकः ।प्राणेशः कमितानुगो रतिगुरुर्नेता वरो वल्लभोनिर्वेष्टा परिणायकश्च कमनोऽभीकश्च सध्य्रङ् सुहृत् ॥ १०४९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः ॥ १४१ ॥
genderपुंmasc.
कामुकः कमिताभीकः कम्रः कामयिताभिकः ।तृष्णक्तु गर्धनो गृध्नुः लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३५ ॥
अनुष्टुप्
genderविadj.
कामुक as a meaning in nānārtha verses
- धरणिकोश अभीकअलीके त्वप्रियासत्ये सूतकौ जन्मपारदौ । अभीकौ कामुकात्रस्तौ कलङ्कोऽङ्कापवादयोः ॥ Dharaṇikośa 1.1.9
- धरणिकोश संप्रयोगिन्महाधनं सुवस्त्रे च सामयोनिर्गजेऽपि च । संप्रयोगी कामुके च व्योमचारी खरेऽपि च ॥ Dharaṇikośa 19.1.24
- धरणिकोश भ्रमरप्रसरः प्रणये वेगे द्वापरः संशये युगे । भ्रमरः कामुके भृङ्गे इतरः पामरान्ययोः ॥ Dharaṇikośa 26.1.15
- धरणिकोश चञ्चलचञ्चला विद्युदाख्याता चञ्चलौ चलकामुकौ । इल्वला तारका काचिदिल्वलो दानवान्तरम् ॥ Dharaṇikośa 27.2.33
- कोषकल्पतरु अभीकधूमेन्द्रवोस्त्वजीवो ना स त्रिषूपहते मतः । कुण्डीकुलविभेदे तु चुलुकी शिशुमारके । अभीकः कवौ कामुकः क्रूरवाची विशेष्यायतोऽनीकमस्त्री रणेऽपि । अलीकालिके नाकभालानृतेषु स्मृते चाप्रियेऽथ व्यलीकं न योषित् ॥ ७९ ॥ Koṣakalpataru 6.1.79
- कोषकल्पतरु व्यवायिन्स्यादिन्द्रियेऽन्त्ये विषयि त्रये त- द्युते व्यवायी नरि कामुके स्यात् । गुणान्तरे चाथ भवेत्तपस्वी तथानुकम्पे तपसा युते च ॥ ४२ ॥ Koṣakalpataru 6.21.42
- कोषकल्पतरु मदयित्नुपारावते कामुककामयोस्तु जल्पाकमद्ये मदयित्नुरुक्तः । स्याद्धर्षयित्नुस्तनये सुवर्णे- ऽथो घोषयित्नुः पिकविप्रयोश्च ॥ ४७ ॥ Koṣakalpataru 6.21.47
- कोषकल्पतरु कामिकृष्यन्विते रासभवाचक[32b]श्च कामिस्तु खन्यां त्रिषु कामुके सा । होमिः पुमान्पावकसर्पिषोः स्यात् लक्ष्मीः स्त्रियां संपदि [वि]ष्णुनार्याम् ॥ ७४ ॥ Koṣakalpataru 6.25.74
- नानार्थार्णवसंक्षेप कमरमूर्खे च कामुके चाथ कनीयांस्तु जघन्यजे । युवतरे चाल्पतरे क्षुल्लकस्त्वल्पनीचयोः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 3.4.21
- नानार्थार्णवसंक्षेप कामलम(सु?रौ) रोगविशेषे ना कामुके त्रिषु कामलः । कालिका तु स्त्रियां मासि मासि देयेऽधमर्णकैः ॥ ४६४ ॥ Nānārthārṇavasaṃkṣepa 4.464
- नानार्थार्णवसंक्षेप भ्रमरकारुण्डिकायां भ्रमणी क्रियाद्यायामधीशितुः । भ्रमरस्तु द्वयोर्भृङ्गे कामुके त्यभिधेयवत् ॥ १२७८ ॥ Nānārthārṇavasaṃkṣepa 4.1278
- नानार्थार्णवसंक्षेप भावाटभावाटस्तु त्रिषु ज्ञेयो भावके कामुकेऽपि च । ना तु साधुनिवेशे स्याद् रभसेनेदमीरितम् ॥ १२९२ ॥ Nānārthārṇavasaṃkṣepa 4.1292
- परमानन्दीयनाममाला भावाटभूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि । भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥ Paramānandīyanāmamālā 5.20.334
- परमानन्दीयनाममाला भ्रमरभरतस्तु मुनौ भूपे भुवनं जललोकयोः । भास्करः सूर्यवह्न्योः स्याद् भ्रमरः कामुकेऽप्यलौ ॥ ३३६ ॥ Paramānandīyanāmamālā 5.20.336
- शब्दरत्नावली अभीकअभीको निर्भये क्रूरे कामुके चोत्सुके त्रिषु । अलीकमप्रियासत्यस्वल्पेषु त्रिषु कुत्रचित् ॥ Śabdaratnāvalī 7.1.27
- शब्दरत्नावली भावाटपिच्चटं सीसके रङ्गे पुमांस्तु नेत्ररोगके । वर्वटी व्रीहिभेदे स्यात्पण्यजीविस्त्रियामपि ॥ वेकटो मत्स्यभेदे स्यात्तरुणे च विदूषके । भावाटः कामुके साधुविशेषे भावके नटे ॥ Śabdaratnāvalī 7.11.50
- शब्दरत्नावली सरण्डन स्त्रियां श्रवणाक्ष्णोश्च मले च सेचपात्रके । भेरुण्डी यक्षिणीभेददेवतान्तरयोः स्त्रियाम् ॥ भयानके भिन्नलिङ्गं भेरुण्डं गर्भधारणे । मार्तण्डो मिहिरे क्रोडे शिखण्डो वर्हचूडयोः ॥ मारुण्डोऽपि च सर्पाण्डे पथगोमयमण्डले । वण्डोशाविकाश(?) स्त्रीवर्त्तिभेदेषु च स्त्रियाम् ॥ वितण्डा स्त्री वादभेदे कच्वी शाके शिफाद्वये । सरण्डः सरटे धूर्ते कामुके भूषणान्तरे ॥ Śabdaratnāvalī 7.13.35
- शब्दरत्नावली त्रिगर्तजृम्भितं करणे स्त्रीणां तथा स्फुटितचेष्टयोः । त्रिगर्त्तो देशभेदे स्याद् गणिते कामुकेऽपि च ॥ Śabdaratnāvalī 7.16.105
- शब्दरत्नावली कमनउद्घानं क्लीबलिङ्गन्तु चूल्ल्यां वाच्यवदुद्गते । ओदनोऽस्त्री तु भक्ते स्याद्वलायामोदनी स्त्रियाम् । कमनः कामुकेऽशोके कामदेवाभिरूपयोः ॥ Śabdaratnāvalī 7.20.39
- शब्दरत्नावली कामिन्कामी पारावते चक्रवाके चटककामुके । कानीनः कन्यकाजातसुते च व्यासकर्णयोः ॥ Śabdaratnāvalī 7.20.44
- शब्दरत्नावली गदयित्नुगवादनीन्द्रवारुण्यां गोघासग्रसनालये । गदयित्नुः कामदेवे जल्पाके कामुके पुमान् ॥ Śabdaratnāvalī 7.20.107
- शब्दरत्नावली संप्रयोगिन्भृङ्गरोट श्रीधरे च शैले च शिवकीर्तनः । धनञ्जये हिमकरे मकरे श्वेतवाहनः ॥ कुञ्जरे धान्यभेदे च स्यात्पुमान् षष्टिहायनः । कर्पूरफेणचन्द्रेषु श्वेतधामा पुमानयम् ॥ कामुके च कलाकेलौ संप्रयोगी निगद्यते । स्वर्गद्रुमे पुमान्क्लीबं गोशीर्षे कुङ्कुमेऽपि च ॥ Śabdaratnāvalī 7.20.138
- शब्दरत्नावली कामिकामिः पुंसि कामुके स्यादथ रत्यामपि स्त्रियाम् । किंक्षेपे च वितर्के च वाच्यवत्प्रश्ननिन्दयोः ॥ कृमिः क्रिमिः पुंसि कीटे लाक्षायां कृमिले खरे । किर्मी स्त्री हेमपुत्याञ्च शालापलालयोरपि ॥ Śabdaratnāvalī 7.25.5
- शब्दरत्नावली भ्रामरभ्रामरः कामुके भृङ्गे भ्रामरं मधुशिलयोः । मत्सरः कृपणे क्रोधे मात्सर्येऽसह्यसम्पदि ॥ Śabdaratnāvalī 7.27.92
- शब्दरत्नावली मधुत्रमन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥ मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥ महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ Śabdaratnāvalī 7.27.95
- शब्दरत्नावली मुदिरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96
- त्रिकाण्डशेष नटवटी त्रिषु गुणे पुंसि न्यग्रोधे च कपर्दके । बर्बट्यौ व्रीहिभिद्वेश्ये नटौ भरतकामुकौ ॥ १०० ॥ Trikāṇḍaśeṣa 3.3.100
- त्रिकाण्डशेष भ्रमरकुब्जवृक्षे हरे वारो बन्धुरं रम्यनम्रयोः । भ्रमरः कामुके भृङ्गे भरोऽतिशयभारयोः ॥ ३६६ ॥ Trikāṇḍaśeṣa 3.3.366
- त्रिकाण्डशेष कामलकाको विषञ्च काकोलौ सास्नायामपि कम्बलः । धूनकेऽपि कलकलः कामलः कामुके मधौ ॥ ३८५ ॥ Trikāṇḍaśeṣa 3.3.385
- वैजयन्ती भ्रमरस्त्री स्यात्पृथिव्यामुस्रायामेलायां कृत्तिकासु च । भविलं भवने भव्ये भ्रमरः कामुकेऽलिनि ॥ ६२ ॥ Vaijayantī 7.5.62