कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मेध्य

medhyaवि · adj.

In 17 kośas: 20 synonym verses, 6 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1436 · p. 54
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.55
पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.132 · p. 16
शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते ।विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.415 · p. 66
मेध्यः सौरभ्यदः शालनिर्यासस्त्वग्निवल्लभः ।रालः सर्जरसः शालः कालः कनकलोद्भवः ॥ ४१५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.472 · p. 185
स्थागः परिक्रमसहो जावालस्त्वजजीवनः ।मेध्यो मेको महागन्धो भकरश्च पयस्वलः ॥ ४७२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.105 · p. 225
स्यान्म्लानं कच्चलं तु स्यान्मलदूषितमित्यथ ।निर्णिक्तं विमलं वीध्रं पूतं मेध्यं पवित्रकम् ॥ १०५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.307 · p. 283
बालपत्रोऽपि कुष्ठारिर्मेध्योऽथ कदरोऽपरः ।श्वेतसारः कार्मुकः स्यात्सोमसारः पथिद्रुमः ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.21 · p. 1205
अष्टका पाणिनीयैव जानीयात्स्त्रीविशेषणे ।मेधायै हितमर्हं च मेध्यं त्रिषु समुन्नयेत् ॥ २१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.94 · p. 183
अजाजी युज्यमाना स्याद्दीर्घको जीरकोऽस्त्रियाम् ।कणा च कणजीरश्च जरणो मेध्यमित्यपि ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 242
योगाय यौ प्रभवतस्त्रिष्विमौ योग्य-यौगिकौ ।पवितः प्रयतः पूतः पवित्रः पावनः शुचिः ।मेध्यः पुण्योऽथ वाल्मीकि - वाल्मीक - कुशिनः कविः ॥ ४ ॥
अनुष्टुप्
genderविadj.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.377 · p. 202
मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग्ब्रह्ममेखलः ।अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७७ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.68 · p. 16
मुञ्जस्तु मुञ्जको मेध्ये मृदुत्वग्ब्रह्ममेखलः ।[ उल्लूकस्तूलपो ] दर्भमूर्ध्वमूलं खरच्छदः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.324 · p. 92
कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् ।पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.100 · p. 44
पूतं पवित्रं मेध्यं च मलिनं च मलीमसम् ।निर्णिक्तं क्षालितं धौतमुज्ज्वलं निर्मलं शुचि ॥ १०० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.159 · p. 421
पवित्रं पावनं पुण्यं पूतं मेध्यं तथैव च ।
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.7 · p. 164
पूतं मेध्यं पवित्रं स्याद् वीध्र प्रयतनिर्मलम् ।निःशोध्यं शोधितं मृष्टं निर्णिक्तमनवस्करम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.668 · p. 85
कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके ।मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1658 · p. 199
कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ ।पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.229 · p. 64
मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वक् ब्रह्ममेखलः ।उल्लूकस्तूलपो दर्भ ऊर्ध्वमूलः खरच्छदः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.65 · p. 206
तत्तु स्यादासेचनकं न तृप्तिर्यस्य दर्शनात् ।पवित्रं प्रयतं पूतं मेध्यं शुद्धं शुचीति च ॥ ६५ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.10 · p. 152
चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्मृता ।मेध्यं पूतं वचा मेध्या मेध्या स्यात्सूक्ष्मपुष्पिका ॥
अनुष्टुप्
meaningsपूत
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.24 · p. 289
मेध्यं शुचौ मेदुर आश्रमे चसाध्यो नरि स्याद्गणदैवते च ।योगेऽन्यवत्साधयितुं तथार्हे-ऽथाघ्न्यः प्रजापत्यबलार्थको ना ॥ २४ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.4.20 · p. 41
मूढे सौम्ये च मेध्यं तु बलाहकभवे तथा ।मेघसाधौ च याप्यं तु यापनीये विगर्हिते ॥ २० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1026 · p. 130
मेध्यं तु शुचिनि त्रिः क्ली बले धनसुवर्णयोः ।ना तु मुञ्जेऽथ नद्यां स्त्री मेध्यार्कस्य तु रश्मिषु ॥ १०२६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र यद्विः Śivakoṣa 21.1.345 · p. 32
मेध्या ब्राह्मीशङ्खपुष्पीगन्धाढ्यारोचनासु च ।वचायां पीततैलायां वेल्ले मेध्यं तु जीरके ॥ ३४५ ॥
अनुष्टुप्
meaningsजीरक
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.25 · p. 259
मेध्या स्त्री रोचनारक्तवचयोस्तु शुचौ त्रिषु ।ययुः पुंसि तुरङ्गे स्यादश्वमेधहयेऽपि च ॥
अनुष्टुप्
meaningsशुचि

मेध्य as a meaning in nānārtha verses