All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वनौषधिप्रकाण्डः (3/6)
दीर्घसस्यः पाटला तु पाटलिर्विषवल्लभा ।स्थिरगन्धा तालवृन्ती रक्तपुष्पाम्बुवास्यपि ॥ २४१ ॥
1.11.241 · p. 275
अनुष्टुप्
वासन्त्यमोघा कुम्भीकाऽप्यथाशोकस्तु वञ्जुलः ।मधुपुष्पः केलिकः स्याद्रक्तपर्यायपल्लवः ॥ २४२ ॥
1.11.242 · p. 275
अनुष्टुप्
दोहदी सुभगश्चित्रो विचित्रः कर्णपूरकः ।स्याद्धेमपिण्डयोः पुष्पो नटः कामाधिवासकः ॥ २४३ ॥
1.11.243 · p. 275
अनुष्टुप्
कङ्केल्लिरपि कङ्केली स्थिरपुष्पस्तु चम्पकः ।अतिगन्धः स्वर्णपुष्पो हेमाह्वः सुकुमारकः ॥ २४४ ॥
1.11.244 · p. 276
अनुष्टुप्
वनदीपस्तत्कलिका स्त्रियाम् स्याद्गन्धमोदिनी ।बहुमोदा गन्धफली वनजे क्षुद्रचम्पकः ॥ २४५ ॥
1.11.245 · p. 276
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त (wrong syllable); pāda 3, syllable 5 ग (wrong syllable)
स्यान्नागचम्पकश्चाथ बकुलस्तु विशारदः ।मधुपुष्पः सीधुगन्धः स्थिरपुष्पक इत्यपि ॥ २४६ ॥
1.11.246 · p. 276
अनुष्टुप्
सुरभिर्भ्रमरानन्दो मद्यामोदश्च शारदी ।करकः केसरो धन्वी मन्दमन्दनो गूढपुष्पकः ॥ २४७ ॥
1.11.247 · p. 276
अनुष्टुप्metre not read in every line
योषास्यमधुरोऽपि स्याद्वीरपुष्पोहलश्च सः ।खरपत्रा तु शेकाली शारदी पुष्पवर्षिणी ॥ २४८ ॥
1.11.248 · p. 276
अनुष्टुप्
केतकी तीक्ष्णपुष्पी स्याद्विफला धूलिपुष्पिका ।स्यान्मेध्या कण्टकदला शिवद्विष्टा नृपप्रिया ॥ २४९ ॥
1.11.249 · p. 276
अनुष्टुप्
स्थिरगन्धा दीर्घपत्रा क्रकचा गन्धपुष्पिका ।स्यादिन्दुकलिकाऽथान्या कनकप्रसवा च सा ॥ २५० ॥
1.11.250 · p. 276
अनुष्टुप्
हैमी कनकपुष्पाऽत्र कामखड्गदला पुनः ।विष्टारुहा छत्ररुहा सुवर्णादपि केतकी ॥ २५१ ॥
1.11.251 · p. 276
अनुष्टुप्
सिन्दूरवीरयोः पुष्पा सुमना तु सुरप्रिया ।सन्ध्यापुष्पा राजपुष्पा मनोज्ञा तिलभाविनी ॥ २५२ ॥
1.11.252 · p. 276
अनुष्टुप्
केतकी मालती जाती गन्धा सुदृढयोरपि ।जनेष्टा सुकुमाराऽथ मुद्गरो विटवल्लभः ॥ २५३ ॥
1.11.253 · p. 277
अनुष्टुप्
गन्धसारः सकृत्पर्णः कर्दमी वृत्तपुष्पकः ।अतिगन्धो गन्धराजो जनष्टो भृङ्गवल्लभः ॥ २५४ ॥
1.11.254 · p. 277
अनुष्टुप्
गेयप्रियः सुवृत्ता तु सुमनाः शिववल्लभा ।सुशीता शतपत्री च सौरभ्याख्या द्विधा च सा ॥ २५५ ॥
1.11.255 · p. 277
अनुष्टुप्
श्वेतारुणैः सुकुसुमैर्भद्रवल्ली तु मल्लिका ।शीता भीरुप्रिया सौम्या गौरी च वनचन्द्रिका ॥ २५६ ॥
1.11.256 · p. 277
अनुष्टुप्
नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः ।दमयन्ती सिताथान्या मदनी तु कुमारिका ॥ २५७ ॥
1.11.257 · p. 277
अनुष्टुप्
मल्लिका वटपत्रा च सुगन्धा वृत्तमल्लिका ।वृत्तपुष्पा च मुक्ताभा श्रीवल्ली सुलभप्रिया ॥ २५८ ॥
1.11.258 · p. 277
अनुष्टुप्
वार्षिका त्रिपुटा व्यस्रा सुरूपा मुक्तबन्धका ।सैवोक्ता षट्पदानन्दाऽनेकनिर्देशगोचरा ॥ २५९ ॥
1.11.259 · p. 277
अनुष्टुप्
विशेषात्फलपुष्पैश्च दीर्घसूक्ष्मैः सुवर्त्तुलैः ।कस्तूरीमल्लिका सा तु कस्तूरीवासना च या ॥ २६० ॥
1.11.260 · p. 277
अनुष्टुप्
प्रातर्विकस्वराऽप्येकाऽप्यन्या सायं विकस्वरा ।सास्फोता वनमल्ल्याख्या वासन्ती मधुदूतिका ॥ २६१ ॥
1.11.261 · p. 277
अनुष्टुप्
प्रहसन्ती महाजाती मध्वाढ्या चाथ यूथिका ।माधवी गणिकाम्बष्ठा मोदिनी बालपुष्पिका ॥ २६२ ॥
1.11.262 · p. 278
अनुष्टुप्
भृङ्गानन्दापि गन्धाढ्या सुगन्धा तु मनोहरा ।युवतीष्टा सुवर्णाह्वा शिखण्डी नागपुष्पिका ॥ २६३ ॥
1.11.263 · p. 278
अनुष्टुप्
हरिता व्यक्तगन्धा च पीतयूथ्यथ कुंजकः ।महासहो वृत्तपुष्पः कण्टकाढ्योऽतिकेसरः ॥ २६४ ॥
1.11.264 · p. 278
अनुष्टुप्
विकुलः संकुलः खर्वोऽथार्घार्हो हरिवल्लभः ।मुचुकुन्दश्च सुदलो बहुपुष्पः सुपुष्पकः ॥ २६५ ॥
1.11.265 · p. 278
अनुष्टुप्
लक्ष्मणो रक्तप्रसवः करुणी ग्रीष्मपुष्प्यपि ।रक्तपुष्पा सारुणी स्याच्चन्द्रवल्ली तु माधवी ॥ २६६ ॥
1.11.266 · p. 278
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्त (wrong syllable)
भृङ्गप्रिया भद्रलता भूमिमण्डलभूषणा ।सुगन्धा गणिकारी तु काञ्चनी गन्धपुष्प्यपि ॥ २६७ ॥
1.11.267 · p. 278
अनुष्टुप्
अलिमोदा च वासन्ती सास्यान्मदनमोदिनी ।मुचुकुन्दस्तु कुन्दोऽपि महागन्धो मनोहरः ॥ २६८ ॥
1.11.268 · p. 278
अनुष्टुप्
मदनोऽपि सदातारमुक्ताभ्यः पुष्प इत्यपि ।अट्टहासो मनोज्ञः स्याद्वनहासोऽथ शाम्भवः ॥ २६९ ॥
1.11.269 · p. 278
अनुष्टुप्
शिवादापीड आह्लादो मल्ल्यङ्केष्टश्च सुव्रतः ।बकः पाशुपतश्चापि वसुकः क्रमपूरकः ॥ २७० ॥
1.11.270 · p. 278
अनुष्टुप्
केविका कविका केवा भृङ्गारी नृपवल्लरी ।भृङ्गमारी महागन्धा राजकन्याऽर्कवल्लभः ॥ २७१ ॥
1.11.271 · p. 279
अनुष्टुप्
बन्धूको बन्धुजीवोऽपि पुष्पो रक्तोष्ठयोरपि ।बन्धुश्च बन्धुकः पुंसि बन्धुरो वन्धुलो द्वयोः ॥ २७२ ॥
1.11.272 · p. 279
अनुष्टुप्
मध्यंदिनस्त्रिसन्धिस्तु संधीवेली सदाफलः ।स सन्धिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥ २७३ ॥
1.11.273 · p. 279
अनुष्टुप्
ओड्रका प्रातिका सूर्यप्रिया चापि यवा पुनः ।अस्यास्तु कुसुमे वज्रपुष्पं स्याद्भमरी त्वपि ॥ २७४ ॥
1.11.274 · p. 279
अनुष्टुप्
भ्रमरारिर्मासपुष्पी कुष्ठारिस्तरणी तु सा ।सहाकुमारी गन्धाढ्या सुदला चारुकेसरा ॥ २७५ ॥
1.11.275 · p. 279
अनुष्टुप्
बहुपत्रा रामभृङ्गप्रियाऽप्यथ महासहा ।महती राजतरुणी सुपुष्पोऽप्यमिलातकः ॥ २७६ ॥
1.11.276 · p. 279
अनुष्टुप्
सुवर्णपुष्पकोऽम्लातोऽथान्यो रक्तामिलातकः ।प्रसवः स्यात् कुरवको रक्तात्सभसलोत्सवः ॥ २७७ ॥
1.11.277 · p. 279
अनुष्टुप्
मधूत्सवप्रसवोऽपि रामालिङ्गनकामुकः ।सुभगो रामप्रसवः सपीतः किङ्किरातकः ॥ २७८ ॥
1.11.278 · p. 279
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 3, syllable 5 म (wrong syllable)
कुरण्टकश्च फलकः पीताम्लानश्च पीतनः ।कुसुमः स्यात्कुरवकः सादासी नीलपुष्पिका ॥ २७९ ॥
1.11.279 · p. 279
अनुष्टुप्
नीलाम्लानश्छादकः स्याद्बाला चार्त्तगला च सा ।भिण्टी कण्टकुरण्टः स्यात्पीता सैंहचरी च सा ॥ २८० ॥
1.11.280 · p. 280
अनुष्टुप्
सैव शोणा कुरवकः कण्टकिन्यथ रक्तका ।उष्ट्रभाण्डी रक्तवर्णलोहितेभ्यश्च पुष्पिका ॥ २८१ ॥
1.11.281 · p. 280
अनुष्टुप्
अस्त्रियां तगरो वक्रो विनम्रः कुञ्चितो नतः ।स्याच्छदो नहुषो दण्डहर्षो हर्षण इत्यपि ॥ २८२ ॥
1.11.282 · p. 280
अनुष्टुप्
कालानुसारकं राजहर्षणं पार्थिवं पुनः ।पिण्डीतगरकं क्षेत्रं दीनं जिह्वं मुनिस्तु ना ॥ २८३ ॥
1.11.283 · p. 280
अनुष्टुप्
गन्धोत्कटोऽपि दमनो दान्तो जटिलदण्डिनौ ।पाण्डुरागो ब्रह्मजटा विनीतो देवशेखरः ॥ २८४ ॥
1.11.284 · p. 280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब्र (wrong syllable)
पत्री पत्रविवेकोऽपि पुण्डरीकोऽपि पत्रकः ।तद्वत्तपस्विस्थूलाभ्यां वन्ये तु मदनार्थकः ॥ २८५ ॥
1.11.285 · p. 280
अनुष्टुप्
वनादिनामपर्यायोऽप्यथ त्रिदशमञ्जरी ।तुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा ॥ २८६ ॥
1.11.286 · p. 280
अनुष्टुप्
सुरेज्या सुरसा श्यामा कायस्था सुरदुन्दुभिः ।बहुनो मञ्जरी पत्रा भूतघ्नी स्थूलपत्र्यपि ॥ २८७ ॥
1.11.287 · p. 280
अनुष्टुप्
गौरी स्याद्द्विविधा कृष्णासिताभेदात्फणिज्जकः ।खरपत्रो मरुवको गन्धपत्रः समीरणः ॥ २८८ ॥
1.11.288 · p. 281
अनुष्टुप्
बहुवीर्यः शीतलकः सुराह्वो मरिचोऽपि च ।जम्बीरः प्रस्थकुसुमो द्विविधोऽयमथार्जके ॥ २८९ ॥
1.11.289 · p. 281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
क्षुद्रात्पर्णश्च तुलसी कुठेरोऽपि कडिञ्जरः ।पुखार्जकश्चोग्रगन्धः सुमुखस्तु सितार्जके ॥ २९० ॥
1.11.290 · p. 281
अनुष्टुप्
पत्रो वटपुटाभ्यां स्याद्वैकुण्ठो भूरिगन्धकः ।कृष्णार्जकः कालुमालो मालूकः कृष्णमालुकः ॥ २९१ ॥
1.11.291 · p. 281
अनुष्टुप्
दोषक्लेशी विषघ्नः स्यात्सुगन्धिर्वनवर्वरी ।प्रसन्नकः सूक्ष्मपत्रो निद्रालुः शोफहार्यपि ॥ २९२ ॥
1.11.292 · p. 281
अनुष्टुप्
सुमुखो गङ्गपत्री तु गङ्गापत्री सुरङ्गका ।पाची मरकतः पत्री मल्ला हरितपत्रिका ॥ २९३ ॥
1.11.293 · p. 281
अनुष्टुप्
अरिष्टा सुरभिश्चाथ बालकोऽस्त्री तु शीतलम् ।पर्यायः केशजलयोर्ह्रीवेरं हिरिवेरकम् ॥ २९४ ॥
1.11.294 · p. 281
अनुष्टुप्
वरहिष्ठं च बर्हिष्ठमुदीच्यमपि कथ्यते ।स्यात्तिक्तं वारिपर्यायं वर्वरः सुमुखः पुनः ॥ २९५ ॥
1.11.295 · p. 281
अनुष्टुप्
गरघ्नो गन्धपत्रः स्यात्पूतगन्धः सुरार्हकः ।कृष्णवर्वरकः स्वास्यः सुपर्णं देवपर्णकम् ॥ २९६ ॥
1.11.296 · p. 282
अनुष्टुप्
स्याद्देवार्हं चीरमा च सूक्ष्मगन्धेभ्य इत्यपि ।पर्णं चाथ महानन्दा गन्धाढ्या रामशीतला ॥ २९७ ॥
1.11.297 · p. 282
अनुष्टुप्
रामाऽथ शाल्मली चापि स्त्रियां शाल्मलिरित्यपि ।चिरजीवी पिच्छलः स्याच्छाल्मलिन्यपि पूरणी ॥ २९८ ॥
1.11.298 · p. 282
अनुष्टुप्
रक्तोत्पलस्तूलवृक्षो रम्यपुष्पः कटुद्रुमः ।मोतोऽप्यथ श्रवः शृङ्गो रसो मोचा ततः पुनः ॥ २९९ ॥
1.11.299 · p. 282
अनुष्टुप्
अपि पिच्छलसारः स्याल्मलीवेष्ट इत्ययम् ।तत्तूल इन्द्रवाताभ्यां तूलं क्लीबे मरुद्ध्वजम् ॥ ३०० ॥
1.11.300 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ग्रीष्महासं वंशकफं वृद्धसूत्रकमित्यपि ।रोहीतको रोहितको रोही प्लीहनिबर्हणः ॥ ३०१ ॥
1.11.301 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वं (wrong syllable)
सदाप्रसूनो दाडिम्बपुष्पः स्यात्कूटशाल्मली ।कुशाल्मली बृहद्वल्कः स्याद्विरेचन इत्ययम् ॥ ३०२ ॥
1.11.302 · p. 282
अनुष्टुप्
सितपुष्पोऽप्येकवीरो महावीरः सुवीरकः ।रोहितेयो रौहतः स्यात्तद्वद्रौहित इत्यपि ॥ ३०३ ॥
1.11.303 · p. 282
अनुष्टुप्
एकादिवीरपर्यायः स्यादथो रक्तकेसरः ।पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः ॥ ३०४ ॥
1.11.304 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
कृमिघ्नो रक्तकुसुमो बहुपुष्पोऽथ कण्टकी ।खदिरो रक्तसारश्च खाद्यः पत्री क्षितिः स्त्रियाम् ॥ ३०५ ॥
1.11.305 · p. 283
अनुष्टुप्
वक्राङ्गो बालतनयो मुशल्योऽपि मुसल्यवत् ।गायत्र्यपि च पुंसि स्यात्सारद्रुर्दन्तधावनः ॥ ३०६ ॥
1.11.306 · p. 283
अनुष्टुप्
बालपत्रोऽपि कुष्ठारिर्मेध्योऽथ कदरोऽपरः ।श्वेतसारः कार्मुकः स्यात्सोमसारः पथिद्रुमः ॥ ३०७ ॥
1.11.307 · p. 283
अनुष्टुप्
सोमवल्को नेमिवृक्षः कुब्जकण्टक इत्यपि ।रक्तसारः सुसारः स्याद्रक्ते विट्खदिरस्तु सः ॥ ३०८ ॥
1.11.308 · p. 283
अनुष्टुप्
मरुजः सारखदिरः कालस्कन्धोऽपि गोरटः ।बहुसारः पत्रतरुरम्भोजारिररिः स्त्रियाम् ॥ ३०९ ॥
1.11.309 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
इरिमो वीरमेदश्चाप्यसिमेदश्च मेदकः ।दाना संदानिका चापि सैवोक्ता खदिरच्छटा ॥ ३१० ॥
1.11.310 · p. 283
अनुष्टुप्
शमी तु केशदमनी शान्ता तुङ्गा शुभङ्करी ।हविर्गन्धा शिवेशाना सुरभिः पापनाशनी ॥ ३११ ॥
1.11.311 · p. 283
अनुष्टुप्
मङ्गलापि तपस्वीष्टा मेध्या दुरितपावनी ।सुभद्रा शङ्कुकलिका भद्रासक्तुफली शिवा ॥ ३१२ ॥
1.11.312 · p. 283
अनुष्टुप्
सक्तुफलाऽपि विजया शान्ता चाप्यपराजिता ।शुभाऽप्यथ शमीरः स्याच्छम्यारुरपि पुंस्युभौ ॥ ३१३ ॥
1.11.313 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
अथ वर्वुरकर्वूरौ कण्टालुर्दीर्घकण्टकः ।पंक्तिबीजो गुग्गुलाक्षो गोशृङ्गस्तीक्ष्णकण्टकः ॥ ३१४ ॥
1.11.314 · p. 284
अनुष्टुप्
कफान्तकोऽजभद्रः स्याद् दृढबीजोऽप्यथापरः ।शुकशाकः स्थूलकण्टश्छत्राको जालवर्वुरः ॥ ३१५ ॥
1.11.315 · p. 284
अनुष्टुप्
रन्धकण्टस्तनुच्छायोऽथारिमेदोऽरिमेदकः ।गोधास्कन्धोऽपीरिमेदः पूतिमेदोऽहिमारकः ॥ ३१६ ॥
1.11.316 · p. 284
अनुष्टुप्
पलाण्डुस्तु कटुः पञ्चवर्द्धनः पञ्चरक्षकः ।हस्ताञ्जनविधौ शस्तो जीर्णज्वरहरश्च सः ॥ ३१७ ॥
1.11.317 · p. 284
अनुष्टुप्
पञ्चकश्चाथ शूलारिर्गौरवो विषकण्टकः ।तीक्ष्णकण्टः क्रोष्टुफलोऽतिगन्धस्तापसद्रुमः ॥ ३१८ ॥
1.11.318 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रो (wrong syllable)
पूतिगन्धस्तैलफलस्तनुपत्रोऽनिलान्तकः ।पुंस्त्रियोरिङ्गुदी पुंसीङ्गुदपत्रो मुनिद्रुमः ॥ ३१९ ॥
1.11.319 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तै (wrong syllable)
ग्रन्थिलः कृकरो गूढपत्रः स्यात्कररः पुनः ।करीरोऽपि च कारीरो निःपत्रस्तीक्ष्णकण्टकः ॥ ३२० ॥
1.11.320 · p. 284
अनुष्टुप्
सुधा स्नुही स्नुक्स्त्रियः स्युः क्षीरी निस्त्रिंशपत्रकः ।शाखापत्रो महावृक्षः सेहुण्डो वज्रकण्टकः ॥ ३२१ ॥
1.11.321 · p. 284
अनुष्टुप्
बहुशाखः क्षीरकाण्डो गण्डीरो दण्डवृक्षकः ।हुण्डो वनारिर्नेत्रारिर्भद्रो व्याघ्रनखः पुनः ॥ ३२२ ॥
1.11.322 · p. 285
अनुष्टुप्
वज्री समन्तदुग्धाऽन्या स्नुहा वज्रा गुडा गुला ।स्नुहिः सिहुण्डो वज्रद्रुर्धारापूर्वा स्नुही पुवा ॥ ३२३ ॥
1.11.323 · p. 285
अनुष्टुप्
त्रिधाराऽप्यथ कन्थारी कन्थरी तीक्ष्णकण्टका ।तीक्ष्णगन्धा दुःप्रवेशा दुर्द्धर्षा कन्थकाऽप्यथ ॥ ३२४ ॥
1.11.324 · p. 285
अनुष्टुप्
रुवुर्वातारिस्तरुणश्चित्रो गन्धर्वहस्तकः ।व्याघ्रपुच्छो वर्द्धमानः श्वेतैरण्डोऽपमण्डकः ॥ ३२५ ॥
1.11.325 · p. 285
अनुष्टुप्
पञ्चाङ्गुलो दीर्घदण्डेरुवूकौ रुबुको वकः ।वर्द्धमानस्तत्र रक्ते स्याद्व्याघ्रो हस्तिकर्णकः ॥ ३२६ ॥
1.11.326 · p. 285
अनुष्टुप्
उरुवुश्चोरुवूकोऽपि चञ्चुरुत्तानपर्णकः ।करपर्णः पञ्चनखस्तलुः स्निग्धोऽपि मस्करः ॥ ३२७ ॥
1.11.327 · p. 285
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
एरण्डो मण्ड आमण्डोप्यमण्डश्च व्यडम्बनः ।व्यडम्बकश्चित्रचञ्चुरादण्डस्त्रिपुरः स च ॥ ३२८ ॥
1.11.328 · p. 285
अनुष्टुप्
ह्रस्वैरण्डश्चित्रदण्डः स्थूलदण्डोऽपरोऽप्यथ ।घोटा बदरिका घोटी गोलिका शत्रुकण्टकः ॥ ३२९ ॥
1.11.329 · p. 285
अनुष्टुप्
कण्टकी चतुरङ्गाह्वाऽप्यथ वल्लीकरञ्जकः ।दुःस्पर्शोऽपि कुबेराक्षः स्यात्कण्टफल इत्यथ ॥ ३३० ॥
1.11.330 · p. 285
अनुष्टुप्
कारी कार्याऽपि गिरिजाऽप्यतिपत्र्यपरा पुनः ।कण्टकार्यथ राटस्तु तर्दनो वस्तिरोधनः ॥ ३३१ ॥
1.11.331 · p. 286
अनुष्टुप्
ग्रन्थिधारा गोलघटाफलः पिण्डीतकः पुनः ।तगरः शल्यकैडर्यो मदनः करहाटकः ॥ ३३२ ॥
1.11.332 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
कण्डालोऽपि विषान्मुष्टिफलो हर्षोऽप्यथापरः ।महापिण्डीतकः स्निग्धपिण्डीतकवराहकौ ॥ ३३३ ॥
1.11.333 · p. 286
अनुष्टुप्
कटुपर्णोऽथ कृच्छ्रारिः क्षुधाकुशल इत्यपि ।पील्वन्तरो वीरवृक्षो दीर्घमूलोऽथ तारटी ॥ ३३४ ॥
1.11.334 · p. 286
अनुष्टुप्
खर्बूरा तरटी तीव्रा रक्तबीजाऽथ शीतला ।श्रीवल्ली शिववल्ली च कण्टवल्ली दुरारुहा ॥ ३३५ ॥
1.11.335 · p. 286
अनुष्टुप्
अम्ला कटुफला स्वच्छा सैवाप्यन्या निकुञ्चिका ।स्यादम्लकुञ्चिका कुञ्जवल्लयाऽथ नृपप्रियः ॥ ३३६ ॥
1.11.336 · p. 286
अनुष्टुप्
रामवर्णोऽपर्वदण्डो दीर्घोऽप्यथ नदीभवः ।यावनालो दृढत्वक् स्यात्खरपत्रो नदी स च ॥ ३३७ ॥
1.11.337 · p. 286
अनुष्टुप्
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥
1.11.338 · p. 286
अनुष्टुप्
बहुमूलः स्थूलशरो दीर्घमूलोऽथ रञ्जनः ।मुञ्जो मुञ्जतृणाह्वः स्याद्ब्राह्मणस्ते जनाह्वयः ॥ ३३९ ॥
1.11.339 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable)
वानीरको मुञ्जनको दूरमूलो धृषत्तृणः ।बहुप्रजो दृढमूलः शत्रुभङ्गोऽथ काशकः ॥ ३४० ॥
1.11.340 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ढ (wrong syllable)
काण्डेक्षुर्वायसेक्षुः स्यादिक्षुकाण्डोऽपि चेक्षुरः ।कासेन्दुरिक्ष्वरिर्दर्भपत्रः शारद इत्यपि ॥ ३४१ ॥
1.11.341 · p. 287
अनुष्टुप्
नादेयो लेखिनीकाण्डः कच्छालंकारकः पुनः ।सितपुष्पोऽप्यथाश्वालो नीरजः शर इत्यपि ॥ ३४२ ॥
1.11.342 · p. 287
अनुष्टुप्
गुण्डा शिरिशिरा श्वेता स्यात्तदर्थस्तु वज्रकः ।पूतो ह्रस्वः कुशो ब्रह्मपवित्रो यज्ञभूषणः ॥ ३४३ ॥
1.11.343 · p. 287
अनुष्टुप्
स्यात्सूच्यग्रः पुण्यतृणस्तीक्ष्णो याज्ञिकपत्रकः ।अन्यस्तु शरपत्रः स्यात् हरिद्दर्भः पृथुच्छदः ॥ ३४४ ॥
1.11.344 · p. 287
अनुष्टुप्
दीर्घपत्रः सूक्ष्मपत्रः पवित्रं चाथ वल्वजा ।अस्त्रियां हठपत्री स्यात्तृणेक्षुश्च तृणत्वचः ॥ ३४५ ॥
1.11.345 · p. 287
अनुष्टुप्
मौञ्जीपत्रो दृढतृणः पानीयाख्या दृढक्षुरा ।कत्तृणं रोहिषतृणं पूतीकं यवदग्धकम् ॥ ३४६ ॥
1.11.346 · p. 287
अनुष्टुप्
श्यामकं चामकं चाम्यं दृढकाण्डं दृढच्छदम् ।द्राघिष्ठं दीर्घतालं च तिक्तसारं तु कुत्सितम् ॥ ३४७ ॥
1.11.347 · p. 288
अनुष्टुप्
नलो नालो नडः कुक्षिरन्ध्रकः कीचकः पुनः ।वंशान्तरोपि धमनः शून्यमध्यो विभीषणः ॥ ३४८ ॥
1.11.348 · p. 288
अनुष्टुप्
छिद्रांशोऽपि मृदोर्वंशात् पत्रः स्यान्नालवंशकः ।अपि पोटगलो वन्ये देवनालो महानडः ॥ ३४९ ॥
1.11.349 · p. 288
अनुष्टुप्
नलोत्तमः स्थूलनडः स्थूलदण्डः सुनालकः ।सुरद्रुमोऽथ हरिता नीलदूर्वा च शाम्भवी ॥ ३५० ॥
1.11.350 · p. 288
अनुष्टुप्
श्यामा शीता शतग्रन्थिर्मङ्गला सुभगा जया ।शतमूला तूष्णवल्ली पूतिहन्त्री महौषधी ॥ ३५१ ॥
1.11.351 · p. 288
अनुष्टुप्
अमृता विजया पूता शिवेष्टा च शिताऽप्यथ ।श्वेतदूर्वा सिता चण्डा गोलोमी सुरवल्लभा ॥ ३५२ ॥
1.11.352 · p. 288
अनुष्टुप्
दुर्मरा भार्गवी भद्राऽनन्ता दिव्या सितच्छदा ।गौरा विघ्नेशानकान्ताऽमृता स्वच्छेक्षुपर्विका ॥ ३५३ ॥
1.11.353 · p. 288
अनुष्टुप्
स्यात्प्रचण्डा श्वेतकाण्डा वीर्या काण्डा सहस्रतः ।मालावल्ल्यतिग्रन्थिभ्यो दूर्वा स्याद्ग्रन्थिमूलिका ॥ ३५४ ॥
1.11.354 · p. 288
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ति (wrong syllable)
ग्रन्थिला वल्लिनी मूलग्रन्थिः स्यात्पर्ववल्ल्यपि ।रोहत्पर्वाथ गण्डाली गण्डदूर्वा च वारुणी ॥ ३५५ ॥
1.11.355 · p. 288
अनुष्टुप्
मत्स्याक्षी श्यामलग्रन्थिर्ग्रन्थिला ग्रन्थिपर्णिका ।सूचीपत्रा श्यामकाण्डा कलायाऽप्यथ कुन्दुरुः ॥ ३५६ ॥
1.11.356 · p. 289
अनुष्टुप्
कन्दुरुर्दीर्घपत्रश्च रसालोऽपि खरच्छदः ।सुतृणः क्षेत्रसम्भूता झिण्टी स्यान्मृगवल्लभः ॥ ३५७ ॥
1.11.357 · p. 289
अनुष्टुप्
भूतृणो रोहितो भूतिर्भूतीकश्च कुटुम्बकः ।मालातृणः श्रमालंबा गुच्छलस्त्वतिगन्धकः ॥ ३५८ ॥
1.11.358 · p. 289
अनुष्टुप्
अतिच्छत्रो गुह्यबीजः सुगन्धिः पुंस्त्वविग्रहः ।व्यङ्गरोधश्च बधिरोऽप्यन्यो भूतृण इत्यपि ॥ ३५९ ॥
1.11.359 · p. 289
अनुष्टुप्
सुरसः सुरभिग्रन्थिः स च स्यान्मुखवासनः ।सुगन्धिरूषरो भूरिपत्रोऽपि च तृणोत्तमः ॥ ३६० ॥
1.11.360 · p. 289
अनुष्टुप्