कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रत्यग्रथ

pratyagrathaपुं · masc.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.960 · p. 38
प्रत्यग्रथास्त्वहिच्छत्त्राः कीकटा मगधाह्वयाः ॥ ९६० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.43 · p. 116
सिन्धुकः सैन्धवश्च स्यात्सिन्धुजन्मादिषु (त्रिषु) ।प्रत्यग्रथास्त्वहिच्छत्राः केरलौड्रौत्कलाः समाः ॥ ४३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1636 · p. 263
कुमालकाश्च सौवीराः प्रोक्ता सौवीरदेशकाः ।प्रत्यग्रथा अहिच्छत्राश्चाऽहिच्छत्रप्रदेशकाः ॥ १६३६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.382 · p. 51
प्राग्ज्योतिषाः कामरूपाः विदर्भाः कथकैशिकाः ।प्रत्यग्रथास्त्वहिच्छत्रा गान्धारास्तु दिगन्धकाः ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.26 · p. 37
जालंधरास्त्रिगर्ताः स्युर्होलाः स्युः खरटी स्त्रियाम् ।प्रत्यग्रथास्त्वहिच्छत्रास्तैतुलास्तु कालिंगकाः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable)
genderपुंmasc.