कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

द्वितीयः काण्डः · वसुंधराध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे पातालाध्यायो नवमः ।

इति प्रथमः काण्डः ॥

द्वितीयः काण्डः ॥

भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनीगोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा ।पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपीक्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥
2.1.366 · p. 49
शार्दूलविक्रीडितम्
वसुंधरा भूतधात्री सैव सस्यघनोर्वरा ।मृत्तिका मृत्प्रशस्तायां मृत्सा मृत्स्ना च मृद्युभे ॥ ३६७ ॥
2.1.367 · p. 49
अनुष्टुप्
पुमानूषः क्षारमृत्स्यादिरिणोषवदूषराः ।देशे त्रिषूषबहुले स्थली चाकृत्रिमे स्थले ॥ ३६८ ॥
2.1.368 · p. 49
अनुष्टुप्
मरुर्धन्वा च पुंसि द्वौ खिलं चाप्रहतं त्रिषु ।द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ॥ ३६९ ॥
2.1.369 · p. 49
अनुष्टुप्
अथ स्याज्जगती लोको विष्टपं भुवनं जगत् ।ब्रह्मादि स्तम्बपर्यन्तं ब्रह्मस्तम्बोऽखिलं जगत् ॥ ३७० ॥
2.1.370 · p. 50
अनुष्टुप्
वर्षोऽस्त्री भारतादिनि तानि स्युर्नव भारतम् ।दक्षिणोत्तरतो वर्षशैलास्तेषां व्यवस्थिताः ॥ ३७१ ॥
2.1.371 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 दि (wrong syllable)
तन्नाम्नैषां यदन्वख्या तेन हैमवतं च तत् ।परस्मिन्नेवमुन्नेयं वर्षे वर्षेऽद्रिनामतः ॥ ३७२ ॥
2.1.372 · p. 50
अनुष्टुप्
हैमकूटं किंपुरुषं हरिवर्षं तु नैषधम् ।रम्यवर्षं तु नैलं स्याच्छ्वेतवर्षं हिरण्ययम् ॥ ३७३ ॥
2.1.373 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable)
कुरुवर्षं शार्ङ्गवतं सौमेरवमिलावृतम् ।भद्राश्वः पूर्वतो मेरोः केतुमालं तु पश्चिमम् ॥ ३७४ ॥
2.1.374 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
2.1.375 · p. 50
अनुष्टुप्
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
2.1.376 · p. 50
स्रग्धरा
कोसलकेकयहूणा घूर्जरयौधेयहेहया मत्स्याः ।गान्धारसिन्धुजावकसिंहलकाम्बोजसोमकाम्बष्ठाः ॥ ३७७ ॥
2.1.377 · p. 51
गीतिः
पल्लवकेरलपाण्ड्याश्चेदिमहावीरदारददशार्णाः ।भल्लाटभोजसौकरहेलाहिच्छत्रभौरिकविदर्भाः ॥ ३७८ ॥
2.1.378 · p. 51
गीतिः
कुन्तियुगंधरशिबयस्त्रैपुरतोक्षारकुन्तलारट्टाः ।मेखलकशूरसेना आभीरकरूशमौखरकिराताः ॥ ३७९ ॥
2.1.379 · p. 51
गीतिः
पल्लवचोलानर्ता भोडमहाभोडजोनककलिङ्गाः ।बाह्लीकपारसीका जाङ्गलकाद्याश्च जनपदविशेषाः ॥ ३८० ॥
2.1.380 · p. 51
गीतिः
मगधाः कीकटाः सुह्मा राढाश्चीनाः करम्भकाः ।कलिङ्गास्तैतिलाः शूरसेनाः स्युः शूरसेनयः ॥ ३८१ ॥
2.1.381 · p. 51
अनुष्टुप्
प्राग्ज्योतिषाः कामरूपाः विदर्भाः कथकैशिकाः ।प्रत्यग्रथास्त्वहिच्छत्रा गान्धारास्तु दिगन्धकाः ॥ ३८२ ॥
2.1.382 · p. 51
अनुष्टुप्
जालंधरास्त्रिगर्ताः स्युस्तोक्षारास्तु सुहालिकाः ।चोलाः स्युरुत्पलावर्ताः कुन्तलास्तु पहालिकाः ॥ ३८३ ॥
2.1.383 · p. 51
अनुष्टुप्
भौरिकाः स्युः समतटा महाराष्ट्रास्तु गण्डकाः ।कुमालकास्तु सौवीरा विदेहास्तीरभुक्तयः ॥ ३८४ ॥
2.1.384 · p. 51
अनुष्टुप्
साल्वास्तु कालकुत्सीया अङ्गाश्चम्पोपलक्षणाः ।कुह्मालिकास्तु यौधेया मरवस्तु दशेरकाः ।लम्पाकास्तु मुरुण्डाः स्युर्मालवाः स्युरवन्तयः ॥ ३८५ ॥
2.1.385 · p. 52
अनुष्टुप्
तुलुष्का यवनाश्वेद्याश्चेदयो दारुकाश्च ते ।सिन्धवोऽमी तु काश्मीरप्रमुखाः पुंसि भूम्नि च ॥ ३८६ ॥
2.1.386 · p. 52
अनुष्टुप्
तेषां मध्ये स्त्रियामेव स्रावन्त्यस्तीरभुक्तयः ।दक्षिणा बिन्ध्यशैलाद्ये देशास्ते दक्षिणापथाः ॥ ३८७ ॥
2.1.387 · p. 52
अनुष्टुप्
अथ देशे शरावत्या उदीच्यः पश्चिमोत्तरे ।प्राच्यः प्राग्दक्षिणे देशे मध्यदेशे तु मध्यमः ॥ ३८८ ॥
2.1.388 · p. 52
अनुष्टुप्
प्रत्यन्तो म्लेच्छदेशः स्यादपरान्तस्तु पश्चिमः ।प्राकरस्तु खनिः स्त्री स्याद्रुमा तु लवणाकरः ॥ ३८९ ॥
2.1.389 · p. 52
अनुष्टुप्
कालायसान्ध्रकाश्मीरसिह्मला रनभूमयः ।शर्करा देशदृषदोर्देशे शर्करिलं त्रिषु ॥ ३९० ॥
2.1.390 · p. 52
अनुष्टुप्
शर्करावति देशेऽपि शर्करोऽथ जलान्विते ।कच्छः पुमाननूपः स्यात्कर्करा प्रखरा मही ॥ ३९१ ॥
2.1.391 · p. 52
अनुष्टुप्
पांसुलः पांसुबहुले नड्वलो नडभूयसि ।पङ्किलः पङ्कबहुले वेतस्वान् वेतसान्विते ॥ ३९२ ॥
2.1.392 · p. 52
अनुष्टुप्
शाद्वलः शादसंछन्ने कुमुद्वान् कुमुदोत्तरे ।त्रिष्वनूपादयो गोष्ठं गोस्थानं पुंसि तु व्रजः ॥ ३९३ ॥
2.1.393 · p. 52
अनुष्टुप्
गौष्ठीनं भूतपूर्वं तद्गोष्ठश्वो गोष्ठगे शुनि ।उपजिह्वोपदीका स्त्री वम्री सैवोपदेहिका ॥ ३९४ ॥
2.1.394 · p. 53
अनुष्टुप्
पुंनपुंसकयोर्वम्रीकूटं वल्मीकमित्युभे ।नाकुर्ना वामलूरश्च श्रीवासः कृमिपर्वतः ॥ ३९५ ॥
2.1.395 · p. 53
अनुष्टुप्
अग्रहारो द्विजावासो ग्रामसंवसथौ समौ ।क्षुद्रग्रामे ग्रामटिका पल्ली खर्वट इत्यपि ॥ ३९६ ॥
2.1.396 · p. 53
अनुष्टुप्
ग्रामेयकाश्च ग्रामीणा ग्राम्याश्च ग्रामवासिनः ।सीमसीमे स्त्रियौ पुंसि त्वाघाटोऽवधिरित्युभौ ॥ ३९७ ॥
2.1.397 · p. 53
अनुष्टुप्
पक्कणः शबरावासो घोष आभीरपल्लिका ।जाङ्गलो निर्जलो देशो विरलद्रुमपर्वतः ।अवपातस्तु वारिः स्त्री वारणग्रहणक्षितौ ॥ ३९८ ॥
2.1.398 · p. 53
अनुष्टुप्
स्यान्नदीमातृको देशो नद्यम्बूत्पन्नजीवनः ।वृष्टिसंपन्नवृत्तिर्यः स देशो देवमातृकः ॥ ३९९ ॥
2.1.399 · p. 53
अनुष्टुप्
अथ वर्त्मायनं पन्था मार्गोऽध्वा पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ ४०० ॥
2.1.400 · p. 53
अनुष्टुप्
सुपन्थाश्चातिपन्थाश्च सत्पथश्च शुभे पथि ।कदध्वा कापथो व्यध्वो दुरध्वो विपथः समाः ॥ ४०१ ॥
2.1.401 · p. 53
अनुष्टुप्
अपन्थास्त्वपथं दूरशून्ये प्रान्तरमध्वनि ।संक्रमो दुर्गमार्गः स्याच्छृङ्गाटं तु चतुष्पथम् ॥ ४०२ ॥
2.1.402 · p. 53
अनुष्टुप्
जङ्घापादश्चतुष्पादस्त्रिपादस्तु गृहान्तरम् ।प्रतिमार्गो बद्धपथः प्राग्वंशः पदिकोऽपि च ॥ ४०३ ॥
2.1.403 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
यवाष्टकं त्वङ्गुलो ना शमस्तु चतुरङ्गुलः ।निष्टिरष्टाङ्गुलोऽथ स्याद्वितस्तिर्द्वादशाङ्गुलः ॥ ४०४ ॥
2.1.404 · p. 54
अनुष्टुप्
वितस्तियुग्मं किष्कुः स्यान्नल्वः किष्कुचतुःशतम् ।गव्यूतिः क्रोशयुग्मं स्याद्योजनं योजनापि च ॥ ४०५ ॥
2.1.405 · p. 54
अनुष्टुप्