सौवीर
sauvīraक्ली · neut.In 16 kośas: 34 synonym verses, 9 as a nānārtha head word, 3 as a meaning of another word.
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
स्रोतोऽञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ १०५१ ॥
अनुष्टुप्
genderक्लीneut.
कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले ॥ ३६ ॥सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः ।विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
आरनालकसौवीरकुल्माषाभिषुतानि च ।अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥
अनुष्टुप्
genderक्लीneut.
धान्याम्लमारनालं सन्धानं काञ्जिकं च सौवीरम् ।अभिषवमवन्तिसोमं तुषोदकं शुक्तमिच्छन्ति ॥ ३१८ ॥
आर्या
genderक्लीneut.
गोधूमजं तु सौवीरं तुषोत्थं तु तुषोदकम् ।द्विरुत्तरं मधुगुडकाञ्जिकं मस्तु धान्यकम् ॥ २०५ ॥
अनुष्टुप्
genderक्लीneut.
कापोतं दृक्प्रदं स्रोतोञ्जनं नीलाञ्जनं पुनः ।सौवीरमथ चक्षुष्या दृक्प्रसादा मलापहा ॥ ५७६ ॥
अनुष्टुप्
genderक्लीneut.
शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि ।यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥ ७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
प्रोक्ता मुरण्डा लम्पाकाः सौवीराः स्युः कुसालकाः ।आनर्तास्तु सुराष्ट्राः स्युस्तीरभुक्तिस्तु निच्छविः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
स्रोतोञ्जनं तु कापोतं स्रोतोजं च नदीभवम् ।सौवीरं यामुनं कृष्णं रीतिपुष्पं तु पौष्पकम् ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
सौवीरं बदरं कोलं फलं तासां च बेरटम् ।कर्कन्धूनां तु पाके स्यात्कर्कन्धुकुणमन्तिमे ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
आरनालक-सौवीर-कुल्माषाभिषुतानि च ।अवन्तिसोममुन्नाहं सुवीराम्लं च कुञ्जलम् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
अङ्गाश्चम्पोपलक्ष्याः स्युर्मगधाः कीकटाः स्मृताः ।कुमालकाश्च सौवीराश्चेदयश्चैद्यसंज्ञकाः ॥ २४७ ॥
अनुष्टुप्
genderपुंmasc.
स्रोतोञ्जनं च कापोतं सौवीरं कृष्णयामुने ।सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ ३३४ ॥
अनुष्टुप्
genderक्लीneut.
धातुघ्नं चुक्रसौवीरे कुण्डगोलकमित्यपि ।सुवीराम्लं तथोन्नाहं रक्षोघ्नं च महारसम् ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् ।घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
शुण्ठ्यां विश्वं नागरं च विश्वभेषजमित्यपि ।स्यादन्नसारे कुलजं सौवीरं चारनालकम् ॥ ४५७ ॥
अनुष्टुप्
genderक्लीneut.
स्याच्छृङ्गिमहिषादीनामभ्रके(कं?) गिरिजामले ।स्त्रोतोञ्जनं च सौवीरं कपोताञ्जनयामुने ॥ ५४६ ॥
अनुष्टुप्
genderक्लीneut.
आरनालं सुवीराम्लं धान्याम्लं च महारसम् ।अवन्तिसोमं सौवीरं रक्षोघ्नं मधुरा तथा ॥ ६२४ ॥
अनुष्टुप्
genderक्लीneut.
कुमालकाश्च सौवीराः प्रोक्ता सौवीरदेशकाः ।प्रत्यग्रथा अहिच्छत्राश्चाऽहिच्छत्रप्रदेशकाः ॥ १६३६ ॥
अनुष्टुप्
genderपुंmasc.
स्रोतोञ्जनं तु सौवीरं कापोतं कृष्णयामुने ॥ १८२० ॥
अनुष्टुप्
genderक्लीneut.
आरनालकरक्षोघ्नसौविरञ्च तुषोदकम् ।कुञ्जकुल्माषाभिषुतं कुल्माषाभिषुतञ्च तत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षा (wrong syllable)
genderक्लीneut.doubtful
गिरिजामलञ्च गिरिजममलञ्च तथाभ्रकम् ।कपोताञ्जनसौवीरस्रोतोञ्जनानि यामुनम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ञ्ज (wrong syllable)
genderक्लीneut.
विजेविलं विजिपिलमारनाले तु काञ्चिकम् ।काञ्चिकं च सुवीराऽम्लं सौवीरं चाभितः षुतम् ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
भौरिकाः स्युः समतटा महाराष्ट्रास्तु गण्डकाः ।कुमालकास्तु सौवीरा विदेहास्तीरभुक्तयः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
अथ गोला तु नेपाली माक्षिकं चक्रसंज्ञकम् ।स्रोतोऽञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ ४३१ ॥
अनुष्टुप्
genderक्लीneut.
घोण्टा तु बदरी कोलिः कर्कन्धूर्न नपुंसके ।कुवलं फेनिलं कोलं सौवीरं बदरं तथा ॥ ५०७ ॥
अनुष्टुप्
genderक्लीneut.
आरनालकसौवीरगोलकुल्माषकुण्डकम् ।मधुसंधानधान्याम्लधान्याकसदनोकम् ॥ १४३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
कुमालकास्तु सौवीरा यौधेयास्तु नृगालिकाः ।अप्यन्ये पारदाः किञ्जाः कुल्या इत्यादिनीवृतः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
स्रोतोऽञ्जनं तु सौवीरं कपोताञ्जनयामुने ।तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
खलिः स्त्री तण्डुलैः पिष्टैर्जले पक्वा घनद्रवा ।सौवीरं काञ्चिकं कुण्डमारनालं गृहोदकम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
जम्बीर उक्तोऽथ शये च पीठे-प्यौशीरमुक्तं चमरे च दण्डे ।सौवीरमन्त्ये बदरारनालेस्रोतोञ्जने पुंसि तु देशभेदे ॥ ५७ ॥
इन्द्रवज्रा
स्रोतोयुक्ते स्त्रियां तु स्यान्नद्यां स्रोतस्विनीत्यथ ।सौवीरं काञ्जिके स्रोतोञ्जने बदरिकाफले ॥ २०१० ॥
अनुष्टुप्
सिन्दूरी रोचनारक्तबीजिकाधातुकीषु च ।सौवीरं काञ्जिके स्त्रोतोञ्जने च बदरीफले ॥ ४१७ ॥
अनुष्टुप्
बदरे देशभेदे ना स्यन्दनो रथवृक्षयोः ।संगरस्तु प्रतिज्ञायां विपत्त्यां सांपरायिके ॥ २१८४ ॥
अनुष्टुप्
doubtful
शम्बरौ दैत्यहरिणौ सत्त्रं स्यात्कैतवे वने ।स्रोतोञ्जने च सौवीरं काञ्जिके बदरेऽपि च ॥ ३७९ ॥
अनुष्टुप्
सौवीर as a meaning in nānārtha verses
- कोषकल्पतरु अञ्जनगोपित्तके स्यात्रिषु रोचनेऽथ स्यादञ्जनो दिग्गजभूधरार्थः । अन्त्ये तु सौवीररसाञ्जनार्थः स्यात्कज्जले मारुतयोषिति स्त्री ॥ ५७ ॥ Koṣakalpataru 6.21.57
- परमानन्दीयनाममाला अञ्जनशुभेऽपि सूतिकागारेऽङ्गजः कामे तनूद्भवे । अञ्जनो दिग्गजे भूध्रेऽञ्जनं सौवीरयानयोः ॥ २६ ॥ Paramānandīyanāmamālā 5.1.26
- शिवकोष अञ्जनफल्गुने च तृणे क्लीबमञ्जनं तु रसाञ्जने । सौवीरेऽप्योदनो न स्त्री भक्ते वाट्यालके स्त्रियाम् ॥ २४७ ॥ Śivakoṣa 16.1.247