All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
भूमिकाण्डः · देशाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यामन्तरिक्षकाण्डे शब्दाध्यायः
अन्तरिक्षकाण्डस्समाप्तः
भूमिरुर्वी घनश्रेणी स्थगणा गिरिकर्णिका ।क्षोणी सर्पभृता दक्षा कुः क्ष्मा क्षान्तिः क्षमा क्षरिः ॥ १ ॥
3.1.1 · p. 35
अनुष्टुप्
धरित्री धरणी धात्री भूतधात्री धरा स्थिरा ।वसुंधरा वसुमती वसुधा विपुला रसा ॥ २ ॥
3.1.2 · p. 35
अनुष्टुप्
ग्मा विश्वा पृथिवी पृथ्वी हेमा सर्वंसहा मही ।अब्धिवस्त्रा नगाधारा मेदिनीला गिरिस्तनी ॥ ३ ॥
3.1.3 · p. 35
अनुष्टुप्
अचला कीलिनी पेरा बीजसूरत्नसूः स्वसूः ।रत्नगर्भा काश्यपी भूः कुह्वर्यवनिरुर्वरा ॥ ४ ॥
3.1.4 · p. 35
अनुष्टुप्
द्यावापृथिव्यावेकोक्तौ रोदस्यौ रोदसी इति ।नाभीदं भारतं वर्षं हिमाद्रेस्तच्च दक्षिणम् ॥ ५ ॥
3.1.5 · p. 35
अनुष्टुप्
तेन हैमवतं नाम पराण्यप्येवमुन्नयेत् ।हैमकूटं किंपुरुषं हरिवर्षं तु नैषधम् ॥ ६ ॥
3.1.6 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable)
इलावृतं सौमेरवं सुमेरुं परितो हि तत् ।भद्राश्वं तु ततः पूर्वं केतुमालं तु पश्चिमम् ॥ ७ ॥
3.1.7 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मे (wrong syllable)
वर्षावेतौ क्रमात् पूर्वगंधिकापरगंधिकौ ।उदक् तु रम्यकं नैलं नीलाद्रेरुत्तरं हि तत् ॥ ८ ॥
3.1.8 · p. 35
अनुष्टुप्
ततो हिरण्मयं श्वैतं तच्च श्वेताद्गिरेरुदक् ।कुरुवर्षं शार्ङ्गवतं कुरवश्च त उत्तराः ॥ ९ ॥
3.1.9 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
जंबूद्वीपः कुमारी स्याद्यत्रेमे भारतादयः ।लावणो लवणोदः स्याद्येनासौ वेष्टितोऽब्धिना ॥ १० ॥
3.1.10 · p. 35
अनुष्टुप्
प्लक्षद्वीपादयोऽप्येवं वृता इक्षूदकादिभिः ।मन्थोदाधिस्तु क्षीराब्धिः क्षीरोदः कलशोदधिः ॥ ११ ॥
3.1.11 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)
अथाप्यन्येऽन्तरद्वीपा भारतात् सप्त दक्षिणाः ।एको वैद्युत्वतो नाम विद्युत्वान् यत्र पर्वतः ॥ १२ ॥
3.1.12 · p. 36
अनुष्टुप्
मालं मैनं व्रतं जालं नारासंगे पराणि षट् ।अनुद्वीपाश्च षट् तेषामंगद्वीपादयो यथा ॥ १३ ॥
3.1.13 · p. 36
अनुष्टुप्
अंगद्वीपं यवद्वीपं मलयद्वीपमित्यपि ।शंखद्वीपं कुशद्वीपं वराहद्वीपमित्यपि ॥ १४ ॥
3.1.14 · p. 36
अनुष्टुप्
अंगद्वीपं चाक्रगिरं मध्येपश्चिमवारिधि ।पूर्वाब्धौ तु यवद्वीपं यत्र कालोदकोऽर्णवः ॥ १५ ॥
3.1.15 · p. 36
अनुष्टुप्
मलयद्वीपमब्धौ स्याद्दक्षिणे तच्च दार्दरम् ।मालयं माहामलयं तत्पार्श्वे तु चतुर्थकम् ॥ १६ ॥
3.1.16 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हा (wrong syllable)
अतः पूर्वं कुशद्वीपं चंपकद्वीपमप्यदः ।यतः पुरो रक्तवहो लोहित्यो नाम वारिधिः ॥ १७ ॥
3.1.17 · p. 36
अनुष्टुप्
अथ प्रतीच्यां वाराहं वराहद्वीपमायतम् ।यत्र यज्ञवराहोऽसौ हरिरद्यापि तिष्ठति ॥ १८ ॥
3.1.18 · p. 36
अनुष्टुप्
बर्हिणं सिंहलं हेमकुड्यं द्वारवतीपदम् ।पारसीककुलं स्वर्णद्वीपं वैद्युतमार्षभम् ॥ १९ ॥
3.1.19 · p. 36
अनुष्टुप्
अयोमुखं तार्णसौमं स्यात्तार्णं ग्रामणीकुलम् ।इत्याद्या भारते वर्षे क्षुद्रा द्वीपाः सहस्रशः ॥ २० ॥
3.1.20 · p. 36
अनुष्टुप्
नीवृज्जनपदो देशस्तद्भेदाः पुंसि भूम्नि च ।स्त्रियो वरेन्द्रीस्रावस्तीराढाद्या नैव भूमनि ॥ २१ ॥
3.1.21 · p. 36
अनुष्टुप्
प्राग्दक्षिणः शरावत्याः प्राच्योऽस्याः पश्चिमोत्तरः ।उदीच्यो मध्यदेशस्तु देशो यो मध्यमस्तयोः ॥ २२ ॥
3.1.22 · p. 36
अनुष्टुप्
आर्यावर्तो ब्रह्मवेदिर्मध्यं विन्ध्यहिमागयोः ।अथोदीच्या जनपदास्तत्र चीनाः खरंभराः ॥ २३ ॥
3.1.23 · p. 36
अनुष्टुप्
गांधारास्तु दिहण्डाः स्युर्यवनास्तु हुरुष्कराः ।संभालाः स्युः शूरसेना अपि ते शूरसेनयः ॥ २४ ॥
3.1.24 · p. 37
अनुष्टुप्
मद्ध्ये तु शूरसेनानां मधुरा नाम वै पुरी ।लंपाकास्तु मुरुण्डाः स्युस्तोक्षारास्तु युगालिकाः ॥ २५ ॥
3.1.25 · p. 37
अनुष्टुप्
जालंधरास्त्रिगर्ताः स्युर्होलाः स्युः खरटी स्त्रियाम् ।प्रत्यग्रथास्त्वहिच्छत्रास्तैतुलास्तु कालिंगकाः ॥ २६ ॥
3.1.26 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable)
टर्कवाहीककाश्मीरतुरुष्केषु ससिन्धुषु ।बाह्लीका वाह्लिका कीराः शाखयो दारदाः क्रमात् ॥ २७ ॥
3.1.27 · p. 37
अनुष्टुप्
कुमालकास्तु सौवीरा यौधेयास्तु नृगालिकाः ।अप्यन्ये पारदाः किञ्जाः कुल्या इत्यादिनीवृतः ॥ २८ ॥
3.1.28 · p. 37
अनुष्टुप्
अथ प्राच्या जनपदास्तत्र मुद्गरकाः कुजाः ।प्राग्ज्योतिषाः कामरूपास्तथा प्राग्जालिका अपि ॥ २९ ॥
3.1.29 · p. 37
अनुष्टुप्
विदेहास्तीरभुक्तिः स्त्री स्रावस्ती तु पुरंजकाः ।राढा तु मुह्माः पुण्ड्रास्तु वरेंद्री पुण्ड्रलक्षणा ॥ ३० ॥
3.1.30 · p. 37
अनुष्टुप्
भौरिकाः स्युः समतटा अंगाश्चंपोपलक्षणाः ।वंगास्तु हरिकेलीया मगधाः कीकटाः स्मृताः ॥ ३१ ॥
3.1.31 · p. 37
अनुष्टुप्
अप्यन्येऽन्ध्रा व्रताः साल्वा इत्याद्या नीवृतः पृथक् ।विन्ध्यात्तु दक्षिणा देशा दक्षिणापथसंज्ञिताः ॥ ३२ ॥
3.1.32 · p. 37
अनुष्टुप्
तत्र पाण्ड्याः पांडियाः स्युः कुन्तलाः स्तूपहालकाः ।चोलाः स्युरुत्पलावर्ता महाराष्ट्रास्तु दण्डकाः ॥ ३३ ॥
3.1.33 · p. 37
अनुष्टुप्
अप्यन्ये केरलाः कुल्याः सेतुजाः कुलकालकाः ।इषीकाः शबरारट्टा इत्याद्या नीवृतः पृथक् ॥ ३४ ॥
3.1.34 · p. 37
अनुष्टुप्
अपरांतास्तु पाश्चात्यास्ते च सूर्यारकादयः ।अथेमे मलदाद्याख्या विन्ध्यपर्यन्तवासिनः ॥ ३५ ॥
3.1.35 · p. 37
अनुष्टुप्
तत्र स्युर्मलदाः स्थौराः करूशास्तु बृहद्गृहाः ।त्रैपुरास्तु हहालाः स्युश्चैद्यास्ते चेदयश्च ते ॥ ३६ ॥
3.1.36 · p. 38
अनुष्टुप्
दशार्णाः स्युर्वेदिपरा मालवाः स्युरवन्तयः ।अप्यन्ये मेकला भोजाः कोसलाद्याश्च नीवृतः ॥ ३७ ॥
3.1.37 · p. 38
अनुष्टुप्
अथ देशा मध्यदेशे मरवस्तु दशेरकाः ।साल्वास्तु कारकुत्सीयास्तेषां त्ववयवाः परे ॥ ३८ ॥
3.1.38 · p. 38
अनुष्टुप्
उदुंबरास्तिलखला महाकारा युगंधराः ।हुलिंगाः शरदंडाश्च षट् साल्वावयवा इमे ॥ ३९ ॥
3.1.39 · p. 38
अनुष्टुप्
अप्यन्ये कुन्तलाः कुल्याः कलिंगाः काशिकोसलाः ।मेकलाः कुसटाः सैरा जांगलाः पृथवा वृकाः ॥ ४० ॥
3.1.40 · p. 38
अनुष्टुप्
पटच्चरादयश्चान्ये मध्यदेशस्य नीवृतः ।उक्तानामन्तरालेषु बहवः क्षुद्रनीवृतः ॥ ४१ ॥
3.1.41 · p. 38
अनुष्टुप्
मरवः पुंसि धन्वान आसारी तु स्थली स्थलम् ।कचंगला तु नीलिंगी भूर्नानाजंतुसंयुता ॥ ४२ ॥
3.1.42 · p. 38
अनुष्टुप्
पंकिलः पंकवान् देशो वेतस्वान् बहुवेतसः ।शाद्वलः शादहरितः कुमुद्वान् कुमुदाधिकः ॥ ४३ ॥
3.1.43 · p. 38
अनुष्टुप्
सनलो नड्वलो नड्वाञ्छार्करः शर्कराधिकः ।देशः शर्करिलोऽप्येवमुन्नेयौ सिकतावति ॥ ४४ ॥
3.1.44 · p. 38
अनुष्टुप्
कृष्णभूमः पाण्डुभूमः कृष्णा पाण्डुश्च यत्र मृत् ।अनूपः सांबुरन्यस्तु जांगलः शून्य उज्जटः ॥ ४५ ॥
3.1.45 · p. 38
अनुष्टुप्
स्फुटिते सारणारट्टौ राजन्वांस्तु सुराजनि ।अन्यत्र राजवान् वृष्टिजीवनो देवमातृकः ॥ ४६ ॥
3.1.46 · p. 38
अनुष्टुप्
स्यान्नदीमातृको देशो नद्यम्बूत्पाद्यसस्यकः ।पद्यः पदांकयोग्यः स्यात्विप्वेते पंकिलादयः ॥ ४७ ॥
3.1.47 · p. 38
अनुष्टुप्
श्मशानं स्यात् पितृवनं स्त्रीवासः क्रिमिपर्वतः ।शतमूर्धा वामलूरो नाकुर्वल्मीकमस्त्रियाम् ॥ ४८ ॥
3.1.48 · p. 39
अनुष्टुप्
मार्गोऽध्वा पदवी पंथाः पद्या चैकपदी सृतिः ।सुपंथा अतिपंथाश्च सत्पथश्च शुभे पथि ॥ ४९ ॥
3.1.49 · p. 39
अनुष्टुप्
विपथः कापथो व्यध्वो दुरध्वश्च कदध्वनि ।अपंथास्त्वपथं दूरशून्ये प्रान्तरमध्वनि ॥ ५० ॥
3.1.50 · p. 39
अनुष्टुप्
वृतिमार्गस्त्वर्धपदः प्राग्वंशः पदिकोऽपि च ।संक्रमस्तित्तिरिस्तुल्यौ शृंगाटं तु चतुष्पथः ॥ ५१ ॥
3.1.51 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
जंघापदं चतुष्पादस्त्रिपादस्तु गृहान्तरम् ।अंगुलोऽस्त्री यवा अष्टौ समस्तु चतुरंगुलः ॥ ५२ ॥
3.1.52 · p. 39
अनुष्टुप्
धनुर्ग्रहश्च दिष्टिश्च स्यातामष्टांगुलावुभौ ।दशांगुलः क्रकचिको वितस्तिर्द्वादशांगुली ॥ ५३ ॥
3.1.53 · p. 39
अनुष्टुप्
किप्कुः स्यादवटो हस्तश्चतुर्विंशतिरंगुलाः ।बद्धेन मुष्टिना हस्तः स्याद्रत्निर्मुष्टिको वसुः ॥ ५४ ॥
3.1.54 · p. 39
अनुष्टुप्
अरत्निर्निष्कनिष्ठोऽसौ स प्रजापतिहस्तकः ।कुत्सश्चाप्यथवाकुत्सः सधनुर्मुष्टिरेव सः ॥ ५५ ॥
3.1.55 · p. 39
अनुष्टुप्
अथ वर्धकिहस्तः स्याद्द्विचत्वारिंशदंगुलः ।तस्मिन्विकिष्कुः क्रकचः किष्कुः क्राकचिकोऽपि च ॥ ५६ ॥
3.1.56 · p. 39
अनुष्टुप्
हस्तद्वयं तु सक्तिष्कुर्हस्तत्रयमलीमकम् ।चतुर्हस्तो धनुर्दण्डो धनुर्धन्वंतरं युगम् ॥ ५७ ॥
3.1.57 · p. 39
अनुष्टुप्
ऐश्वरं नालिका चाथ पंचहस्तोऽर्धहस्तकः ।अष्टहस्ता तु रज्जुः स्यान्नवहस्ता तु नालिका ॥ ५८ ॥
3.1.58 · p. 39
अनुष्टुप्
दशहस्तः पितृनल्वो दीर्घदंडो निदेशकः ।स प्रावेशनिकश्चाथ परिवेषो द्विरज्जुकः ॥ ५९ ॥
3.1.59 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तृ (wrong syllable)
निवर्तनं तु तिसृभीरज्जुभिर्बलिशं च तत् ।नल्विकः किष्कुभिः षष्ट्या नल्वः किष्कुचतुः शतम् ॥ ६० ॥
3.1.60 · p. 40
अनुष्टुप्
धन्वंतरसहस्रं तु क्रोशो गव्या तु तद्द्वयम् ।स्त्री गव्यूतिश्च गव्यूतं गोरुतं गोमतं च तत् ॥ ६२ ॥
3.1.62 · p. 40
अनुष्टुप्
गव्यूतानि तु चत्वारि योजना कोसलादिषु ।गव्यूतिद्वयमेव स्याद्योजनं मगधादिषु ॥ ६३ ॥
3.1.63 · p. 40
अनुष्टुप्