All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः
इति श्रीविश्वनाथविरचिते कोषकल्पतरौ स्वर्गकाण्डः
प्रथमः समाप्तः ॥ १ ॥ श्री ॥
श्रीमन्मङ्गलमूर्तिर्जयति ।
मही महीयसी यस्य सर्वबीजा तनुस्तनूः ।शंभोर्नमांस्यहं [तस्मै] कुर्वे सर्वैनसां छिदे ॥ १ ॥
2.1 · p. 113
अनुष्टुप्
पृथ्वी-पुर-धरारण्यौषधि-सिंह-नर-द्विजैः ।क्षत्र-विड्-वृषलैः साङ्गैर्वर्गैर्भूकाण्ड उच्यते ॥ २ ॥
2.2 · p. 113
अनुष्टुप्
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
2.3 · p. 113
शार्दूलविक्रीडितम्
भूस्त्रीपृथ्वीस्त्रीपृथिवीस्त्रीरसास्त्रीपृथवीस्त्रीधात्रीस्त्रीधरित्रीस्त्रीधरास्त्रीभूमिस्त्रीभूर्णिस्त्रीइलास्त्रीभुरिज्स्त्रीवसुमतीस्त्रीक्षोणीस्त्रीक्षितिस्त्रीक्ष्मास्त्रीक्षमास्त्रीगोस्त्रीगोत्रास्त्रीजगतीस्त्रीस्थिरास्त्रीकुस्त्रीअवनिस्त्रीविश्वास्त्रीविश्वम्भरास्त्रीअनन्तास्त्रीज्यास्त्रीवसुन्धरास्त्रीवसुधास्त्रीसर्वंसहास्त्रीमेदिनीस्त्री
उर्वीराम्बुधिमेखला च विपुला स्याद्रत्नगर्भाचलामह्यम्भोनिधिनेमिरब्धिवसना रत्नप्रसूर्बीजसूः ।गन्धाम्बा धरयित्रिका च धरणिः स्याद्भूतधात्री धरा-धारा तत्र च काश्यपी च बलजा दक्षा न ना रोदसी ॥ ४ ॥
2.4 · p. 113
शार्दूलविक्रीडितम्
भरिमा सहुरिश्च स्त्री रोदसी भूरिहाव्ययम् ।द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ॥ ४ ॥
2.4 · p. 113
अनुष्टुप्
दिवस्पृ[2a]थिव्यौ स्तो द्यावाक्षमे क्लीबे तु रोदसी ।उर्वरा सर्वसस्योर्वी सोन्नता मालमन्तिमे ॥ ५ ॥
2.5 · p. 113
अनुष्टुप्metre not read in every line
प्रवणः क्रमनिम्ना भूर्निपत्या सातिपिच्छला ।पट्टस्तु शासनं राजदत्ता भौमं तु भूभवे ॥ ६ ॥
2.6 · p. 113
अनुष्टुप्
मृन्मृत्तिका विकारेऽस्या मार्त्तिको भेद्यलिङ्गकः ।मृत्सा मृत्स्ना प्रशस्ता सा क्षारा तूषा द्वयोरुषः ॥ ७ ॥
2.7 · p. 113
अनुष्टुप्
उषवानूषवांस्त्रय्यामूषरश्चोषरेरिणौ ।स्थलं स्थला कृत्रिमं तत्स्थली तु स्यादकृत्रिमम् ॥ ८ ॥
2.8 · p. 113
अनुष्टुप्
कृष्णभूमः पाण्डुभूम उदग्भूमो द्विभूमकः ।कृष्णादिभूमिके देशे कृष्णभूमादयस्त्रिषु ॥ ९ ॥
2.9 · p. 113
अनुष्टुप्
मरुर्धन्वा जाङ्गलोऽथ जगती वैष्ट्रकं जगत् ।भुवनं विष्टपं चास्त्री पिष्टपं विश्वमन्तिमे ॥ १० ॥
2.10 · p. 114
अनुष्टुप्
लोकोऽथ लोकधातुः स्याज्जम्बूद्वीपं तु न स्त्रियाम् ।इलावृतं तु फलभूर्मर्तो भूर्लोक उच्यते ॥ ११ ॥
2.11 · p. 114
अनुष्टुप्
भुवर्लोकः स्व(सुव)र्लोको महर्लोकादयोऽपरे ।[2b] लोकोऽयं भारतं वर्षमस्त्रियां वर्समित्यपि ॥ १२ ॥
2.12 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कः (syllables merged)
पुंसि स्याद्विषयो देशो निर्गश्चक्रं च मण्डलम् ।उपवर्तनमन्त्येऽथ नीवृत्स्त्री राष्ट्रमस्त्रियाम् ॥ १३ ॥
2.13 · p. 114
अनुष्टुप्
पुमाञ्जनपदश्चाथ वृत्तिर्जानपदी भवेत् ।जाता जनपदे याथ नदीं यावच्छरावतीम् ॥ १४ ॥
2.14 · p. 114
अनुष्टुप्
देशः प्राग्दक्षिणः प्राच्यः स्यादथोदीच्यपश्चिमः ।उदीच्यः स्यादथ म्लेच्छदेशः प्रत्यन्त उच्यते ॥ १५ ॥
2.15 · p. 114
अनुष्टुप्
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ १६ ॥
2.16 · p. 114
अनुष्टुप्
राष्ट्रियस्त्रिषु राष्ट्रे यः कृतक्रीतादिको भवेत् ।दैशिकः स्याद्वैषयिको देश्य-माण्डलिकावपि ॥ १७ ॥
2.17 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable)
षष्ट्यादियोजनोन्मानो देशो देशान्तरं भवेत् ।आर्यावर्तः पुण्यभूमिर्जन्मभूमिश्च सा भवेत् ॥ १८ ॥
2.18 · p. 114
अनुष्टुप्
आचारवेदिरप्युक्ता मध्यं विन्ध्यहि[3a]मागयोः ।गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली ॥ १९ ॥
2.19 · p. 114
अनुष्टुप्metre not read in every line
ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यतः ।धर्मक्षेत्रं कुरुक्षेत्रं पञ्चरामह्रदान्तरम् ॥ २० ॥
2.20 · p. 114
अनुष्टुप्
क्लीबे विनशनं तस्मिन्ब्रह्मवेदिः स्त्रियां भवेत् ।त्रिषु शैबः शिबीनां यो देशोऽस्त्यत्यन्तशीलितः ॥ २१ ॥
2.21 · p. 114
अनुष्टुप्
राजन(न्य)कस्तु राजन्यदेशो वैराटकीस्तथा ।एवं शैलूषको दैवयाजकः पौत्रकोऽपि च ॥ २२ ॥
2.22 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
स्याद्भौरिकिविधं भौलिकिविधं च नपुंसके ।स्यादैषुकारिभक्तं * * * * * * * * * ।* * * * * * * * * * * * पि नड्वलः ॥ २४ ॥
2.24 · p. 115
अनुष्टुप्metre not read in every line
एवं वेतसकीयः स्याद्वेतस्वान्बहुवेतसः ।कुमुद्वान्कुमुदावासो महिष्मान्महिषाश्रयः ॥ २५ ॥
2.25 · p. 115
अनुष्टुप्
शाद्वलः शादहरितः पङ्किलः पङ्कसंयुतः ।उत्करीयस्तूत्करवान्पलाशीयः पलाशवान् ॥ २६ ॥
2.26 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
तृणादिभिस्तु निर्वृत्तस्तृणशः पर्णशस्त[3b]था ।अश्मरस्त्वश्मवान्देशो गुडरः खण्डरस्तथा ॥ २७ ॥
2.27 · p. 115
अनुष्टुप्metre not read in every line
क्रुञ्चायाः क्रुञ्चकीयोऽसौ तक्ष्णः स्यात्तक्षकीच[य]कः ।औदुम्बरो बाल्बजश्च पार्वतस्तत्तदन्वितः ॥ २८ ॥
2.28 · p. 115
metre not recognisednearly अनुष्टुप्
प्रागद्यः स प्रगदिनी कौविदार्यस्तु तद्युतः ।स्यान्नदीमातृको देशो यः स्यान्नद्यम्बुपालितः ॥ २९ ॥
2.29 · p. 115
अनुष्टुप्
वृष्ट्यम्बुपालितो देशः प्रोच्यते देवमातृकः ।मधुमान्मधुसंपन्न आसन्दीवांस्तु तद्युतः ॥ ३० ॥
2.30 · p. 115
अनुष्टुप्
प्राग्ज्योतिषाः कामरूपा अङ्गार्श्वयो(श्चम्पो)पलक्षिताः ।वङ्गाः स्युर्हरिकेलीयास्त्रैपुरा डाहलाः स्मृताः ॥ ३२ ॥
2.32 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्श्व (wrong syllable)
डाहालाश्च डहालास्ते कौङ्कणाः कुङ्कणा अपि ।आङ्गका वाङ्गकाश्च स्युस्त्रिषु तद्भक्तयो हि ये ॥ ३३ ॥
2.33 · p. 115
अनुष्टुप्
अवन्तयो मालवाः स्युर्मागधाः कीकटाभिधाः ।आवन्त्यः स्यादवन्तीशस्त्रि[4a]ष्ववन्ती तदीश्वराः ॥ ३४ ॥
2.34 · p. 115
metre not recognised
देशाश्चैद्याश्चेदयः स्युर्मरवस्तु दशेरुकाः ।साल्वाः स्युः कारकुक्षीयाः साल्वकस्तद्भवो नरः ॥ ३५ ॥
2.35 · p. 116
अनुष्टुप्
पदातिस्त्वेष साल्वः स्याद्यवागूर्गौश्च साल्वका ।साल्वि[स्तु?] साल्वराजः स्याद्बहुत्वे साल्वयो मताः ॥ ३६ ॥
2.36 · p. 116
अनुष्टुप्
जालंधरास्त्रिगर्ताः स्युस्तद्भूस्त्रैगर्तकस्त्रिषु ।कश्मीराः स्युर्माधुमतास्ताजीकास्ताजिकाभिधाः ॥ ३७ ॥
2.37 · p. 116
अनुष्टुप्
बाह्लीका बाह्लिकाः सारस्वतास्तु स्युर्विकर्णिकाः ।वाहीका ड(ट)क्कसंज्ञाः स्युः कारूषाः स्युर्बृहद्गृहाः ॥ ३८ ॥
2.38 · p. 116
अनुष्टुप्
खशास्तुरुष्का हूणाः स्यू रोमकाः साखयश्च ते ।वनायवः पारसीका अरब्बाश्च समार्थकाः ॥ ३९ ॥
2.39 · p. 116
अनुष्टुप्
प्रोक्ता मुरण्डा लम्पाकाः सौवीराः स्युः कुसालकाः ।आनर्तास्तु सुराष्ट्राः स्युस्तीरभुक्तिस्तु निच्छविः ॥ ४० ॥
2.40 · p. 116
अनुष्टुप्
प्रभासं सोमतीर्थं स्याद्दशार्हाः सा[4b]त्वताश्च ते ।यदवः कुकराः प्रोक्ता दशार्णा अपि तत्समाः ॥ ४१ ॥
2.41 · p. 116
अनुष्टुप्metre not read in every line
उशीनराः क्षीरपाणा राढाः सूला(सुह्माः) प्रकीर्तिताः ।स्यात्सौह्मनागरः सुह्मनगरे त्रितये भवः ।पञ्चापाः स्युः पञ्चनदाः सिन्धवः सिन्धुलक्षिताः ॥ ४२ ॥
2.42 · p. 116
अनुष्टुप्metre not read in every line
सिन्धुकः सैन्धवश्च स्यात्सिन्धुजन्मादिषु (त्रिषु) ।प्रत्यग्रथास्त्वहिच्छत्राः केरलौड्रौत्कलाः समाः ॥ ४३ ॥
2.43 · p. 116
अनुष्टुप्metre not read in every line
कुन्तला उपहाराः स्युरान्ध्रास्तेलङ्गनामकाः ।देशभेदास्तु पञ्चाला मत्स्या मद्राश्च गुर्जराः ॥ ४४ ॥
2.44 · p. 116
अनुष्टुप्
काम्बोजा दरदाश्चोलाः शकाश्चीनाश्च पुण्ड्रकाः ।कर्णाटा द्रविडा लाटाः कुरु-कोशल-काशयः ॥ ४५ ॥
2.45 · p. 116
अनुष्टुप्
दशार्णाश्च महाराष्ट्रा विदर्भाद्या अपीतरे ।काम्बोजराजः कम्बोजः पञ्चालाद्यास्तदीश्वराः ॥ ४६ ॥
2.46 · p. 117
अनुष्टुप्
कौरव्यः कुरुदेशेशः कुरूः स्त्री चेत्तदीश्वरा ।नैषध्यो नि[5a]षघेशः स्यान्नैषध्योऽन्यः प्रकीर्तितः ॥ ४७ ॥
2.47 · p. 117
अनुष्टुप्metre not read in every line
स्यात्सुपाञ्चालकस्तद्भूः सर्वपाञ्चालकोऽपि च ।अर्धपाञ्चालकस्तद्वत्पौर्वमद्र इमे त्रिषु ॥ ४८ ॥
2.48 · p. 117
अनुष्टुप्
कुरुपाञ्चालसंभूतः कौरुपाञ्चाल ईरितः ।कुरुजङ्गलजे कौरुजाङ्गलः कुरुजङ्गलः ।कच्छोऽस्त्री सजले तस्मिंस्त्रिष्वनूपं च लञ्जकः ॥ ४९ ॥
2.49 · p. 117
अनुष्टुप्
आनूपं काच्छकं तज्जे विशेष्यवदुदीरितम् ।कटः परिसरः पुंसि तस्मिन्पर्यन्तभूमिका ॥ ५० ॥
2.50 · p. 117
अनुष्टुप्
कर्मान्तः कर्मभूमिः स्याद्यज्ञवाटस्तु यज्ञकः ।वास्तुरस्त्री वेश्मभूमिर्गोष्ठं गोस्थानमीरितम् ॥ ५१ ॥
2.51 · p. 117
अनुष्टुप्
गोगोष्ठं चाथ तद्भूतपूर्वं गौष्ठीनमन्तिमे ।त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा ॥ ५२ ॥
2.52 · p. 117
अनुष्टुप्
गोस्थानजः स्याद्गोस्थानो गोशालोऽप्येवमन्यवत् ।वम्रीकूटं शक्रमूर्ध कृमिपर्वतवाचकः ॥ ५३ ॥
2.53 · p. 117
अनुष्टुप्
स्यमीकः स्यमिको वामलू[5b]रो वल्मीकमस्त्रियाम् ।पाणिंधमोऽन्यवत्पन्था योऽन्धकारादिसंवृतः ॥ ५४ ॥
2.54 · p. 117
अनुष्टुप्metre not read in every line
पन्थाः पत्सल-चारौ निगमो मार्गः पथोध्व-पद्वाजाः ।पद्या-पद्धति-पदवी-सृति-वर्तन्येकपद्यश्च ॥ ५५ ॥
2.55 · p. 117
आर्या
सरणिर्वर्त्मनि-वीथ्यौ शरणिः स्त्री चायनं वर्त्म ।अतिपन्थाश्च सुपन्थाः सत्पथ एते पुमांसः स्युः ॥ ५६ ॥
2.56 · p. 117
metre not recognised
प्राध्वः स्यात्प्रहतः पन्थाः कान्तारोऽस्त्री स दुर्गमः ।प्रान्तरं दूरशून्योऽन्त्येऽथा[पन्था] अपथं भवेत् ॥ ५७ ॥
2.57 · p. 118
अनुष्टुप्
कदध्वा तु दुरध्वो व्यध्वोऽस्त्री विपथ-कापथौ ।आरण्यकस्तु स भवेत्पन्था योऽरण्यसंभवः ॥ ५८ ॥
2.58 · p. 118
अनुष्टुप्
स्यात्प्रातिपथिकी प्रातिपथिकापैति तत्सृतिः ।सुरङ्गा सन्धिला गूढमार्गो यः स्याद्भुवोऽन्तरे ॥ ५९ ॥
2.59 · p. 118
अनुष्टुप्
द्विपथं स्याच्चारपथस्त्रिपथं त्रिकमित्यपि ।शृङ्गाटकं स्यात्संस्थानं चतुष्कं [च] चतुष्पथम् ॥ ६० ॥
2.60 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चा (wrong syllable)
चत्वरं च द्विपाध्वा तु मार्गो यः स्यादसंकुलः ।घण्टापथो राजमार्गः श्रीपथश्चोप[6a]निष्क्रमः ॥ ६१ ॥
2.61 · p. 118
अनुष्टुप्metre not read in every line
महापथः संसरणं तत्पुरस्योपनिष्करम् ।चतुर्विंशत्यङ्गुलः स्याद्धस्तः किष्कुर्द्वयोर्भवेत् ॥ ६२ ॥
2.62 · p. 118
अनुष्टुप्
दण्डोऽस्त्रियां चतुर्हस्तो धनुरत्र न योषिति ।हस्तषोडशकोन्माने दण्डे काण्डं न योषिति ।धनुषां तु सहस्रे द्वे क्रोशः क्रोशद्वयं पुनः ॥ ६३ ॥
2.63 · p. 118
अनुष्टुप्
गव्यूतं गोकृतं गव्या गव्यूतिर्मिथुने तथा ।योजनं मार्गधेनुः स्त्री भवेत्क्रोशचतुष्टयम् ॥ ६४ ॥
2.64 · p. 118
अनुष्टुप्
नल्वोऽस्त्रियां किष्कुचतुःशती हस्तशती च सः ।पुंस्येकाहगमोऽध्वा स्याद्य एकाहेन गम्यते ॥ ६५ ॥
2.65 · p. 118
अनुष्टुप्
त्रिष्वाश्वीनो हयस्यासौ पथ्यं नापेतमध्वनः ।तत्स्यादौत्तरपथिकं यदुत्तरपथाहृतम् ॥ ६६ ॥
2.66 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
यौजनीको योजनगो यौजनशतिकस्तु तच्छतं गच्छन् ।गच्छेत्क्रोशशतं यः स क्रौशशतिक उदीर्यते सद्भिः ॥ ६७ ॥
2.67 · p. 118
गीतिःmetre not read in every line
पान्थोऽध्वगोऽत्कः पथिकोऽध्वनीनो-ऽध्वन्यः प्रवासागमथश्च गन्तुः ।स्याद्दैशिकोऽयं पथि[6b]लोऽपि गातुर्गोतुश्च पान्था पथिकी तथा स्त्री ॥ ६८ ॥
2.68 · p. 119
इन्द्रवज्राmetre not read in every line
दूरेत्य आगतो दूरादौत्तराहस्तथोत्तरात् ।हारिः स्त्रियां पान्थराजिः पाथेयं शम्बलोऽस्त्रियाम् ॥ ६९ ॥
2.69 · p. 119
अनुष्टुप्
त्रिषु सर्वपथव्यापी भवेत्सर्वपथीनकः ।पथिकः स्यात्पथिबुद्धिः पथिका योषिदीदृशी ॥ ७० ॥
2.70 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थि (wrong syllable)
पन्थकः पथि जातो यः पथिका तादृगङ्गना ।अत्यन्तीनोऽत्यन्तगामी मन्दगामी तु मन्थरः ॥ ७१ ॥
2.71 · p. 119
अनुष्टुप्
जाङ्घिको जवनो जङ्घाकरिको धावको जवी ।जङ्घालस्त्वरितो वेगी तरस्वी जव इत्यपि ॥ ७२ ॥
2.72 · p. 119
अनुष्टुप्
स्यात्संदेशहरो दूतो दूत्यं तद्भाव-कर्मणोः ।दूतः स्रौघ्नः स्रुघ्नगामी पन्था वा यदि तादृशः ॥ ७३ ॥
2.73 · p. 119
अनुष्टुप्