कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मार्गर

mārgaraपुं · masc.

In 3 kośas: 3 synonym verses, 3 as a nānārtha head word.

वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.32 · p. 74
आयोगवी तु कैवर्तं निषादान्मार्गरश्च सः ।एते निषादपुत्राः स्युर्नानायोषित्समुद्भवाः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.100 · p. 80
नौवाहो मार्गरो नद्यां नाविकस्त्वब्धिनौगमः ।शैखोऽभिचारं कुर्वीत कार्मणं भृज्जकण्ठकः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.42 · p. 139
कैवर्तो धीवरो दाशो नौजीवी जालिमार्गरौ ।मत्स्यधानी कुवेणी स्याद्बलिशं मत्स्यवेधनम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1399 · p. 169
मार्गरस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ।आयोगव्या निषादात् स्यात् कैवर्तेऽप्यथ भेद्यवत् ॥ १३९९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1400 · p. 169
मार्गस्य दातरि त्रिस्तु मार्गणो याचकेऽथ ना ।बाणे च स्त्रीनपोर्याच्ञाद्वेषयोर्मार्गणाथ ना ॥ १४०० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.98 · p. 273
वल्लरः पुंसि गहननवक्षेत्रोत्सवेषु च ।मार्गरो दक्षिणावर्त्तशङ्खकृष्णलवीजयोः ॥
अनुष्टुप्
doubtful