All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (12/18)
अश्वत्थे त्रायमाणायामप्याचष्ट स्त्रियां पुनः ।मङ्गल्या स्याद्वचायां च मल्लिकापुष्पगन्धिनि ॥ १३२१ ॥
4.1321 · p. 163
अनुष्टुप्
कालागुरुविशेषे च गन्धभेदे च यः स्थितः ।मल्लिकाकुसुमे तस्मिन् रभसस्तु बहुक्तवान् ॥ १३२२ ॥
4.1322 · p. 163
अनुष्टुप्
रोचनाशम्यधःपुष्पीमसीशुक्लवचास्वपि ।इत्येवमथ विज्ञेया शब्दज्ञैर्मण्डली त्रयी ॥ १३२३ ॥
4.1323 · p. 163
अनुष्टुप्
बिम्बे चाप्युपसूर्ये च कुष्ठरोगान्तरेऽपि च ।समूहमात्रे ग्रामौघे देशे द्वादशराजके ॥ १३२४ ॥
4.1324 · p. 163
अनुष्टुप्
युग्मे च शुनि तु द्वे स्यान्मण्डपोऽस्त्री जनाश्रये ।मण्डस्य तु पिबे त्रि स्यादथ स्यान्नपि मण्डनन् ॥ १३२५ ॥
4.1325 · p. 163
अनुष्टुप्
विद्यादाभरणे भूषिक्रियायां तु न ना स्मृता ।मण्डना रभसस्तु त्रिः शब्दज्ञोऽलङ्करिष्णुनि ॥ १३२६ ॥
4.1326 · p. 163
अनुष्टुप्
मत्सरा तु स्त्रियामाह मक्षिकायां पुमान् पुनः ।भवेत् परशुभद्वेषे लोभे कोपेऽजयोऽपठीत् ॥ १३२७ ॥
4.1327 · p. 163
अनुष्टुप्
यागसाधनसोमाख्यद्रव्ये च कृपणे पुनः ।भेद्यवत् परसम्पत्तेरसोढर्यजयः पुनः ॥ १३२८ ॥
4.1328 · p. 163
अनुष्टुप्
निष्क्रयेऽप्याह मदनः पुनः पुंसि मनोभवे ।पिण्डीतकतरौ स्याच्च धुर्धूरे वनकोद्रवे ॥ १३२९ ॥
4.1329 · p. 163
अनुष्टुप्
वृक्षे कुरवकाभिख्ये मधूच्छिष्टवसन्तयोः ।कस्तूरिकामृगस्याण्डे पुनः मी मदनी तथा ॥ १३३० ॥
4.1330 · p. 163
अनुष्टुप्
सुरायां च नपि त्वेतत् प्रसवेऽत्रोक्त--नाम् ।मदनं माद्यतेश्चार्थे मदना त्वपुमानसौ ॥ १३३१ ॥
4.1331 · p. 163
अनुष्टुप्metre not read in every line
धातोर्माद्यतेरर्थे मन्मथस्तु पुमानयम् ।रभसः कामचिन्तायामित्यध्यैष्ट महामतिः ॥ १३३२ ॥
4.1332 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 धा (syllables merged)
कन्दर्पे च कपित्थे च क्ली तु तत्प्रसवेऽथ नप् ।मधुकं मधुयष्ट्याख्यभेषजेऽथाजयोऽवदत् ॥ १३३३ ॥
4.1333 · p. 164
अनुष्टुप्
स्त्रियमेनाममुत्रार्थे जातिभेदे तु स द्वयोः ।मैत्रेयायोगवीजाते बन्दिन्यप्यथ सा स्त्रियाम् ॥ १३३४ ॥
4.1334 · p. 164
अनुष्टुप्
मधुका श्यामकङ्गौ स्यान्मधुपर्ण्यां च भाषिता ।रभसेन बहुज्ञेन मधुरस्तु पुमान् रसे ॥ १३३५ ॥
4.1335 · p. 164
अनुष्टुप्
स्वादुसंज्ञे तद्वति तु त्रिषु स्याच्छोभने प्रिये ।स्त्रियां तु मधुरासंज्ञपुर्यामित्याह यादवः ॥ १३३६ ॥
4.1336 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
दूर्वायां मधुयष्ट्यां च मिश्रेयाशतपुष्पयोः ।मधुकुक्कुटिकासंज्ञमातुलुङ्गान्तरे तथा ॥ १३३७ ॥
4.1337 · p. 164
अनुष्टुप्
मेदायां चेति रभसः क्लीबं तु गरलेऽभ्यधात् ।अना तु काञ्जिकेऽथ स्यात् त्रयोदश्यां तिथौ स्त्रियाम् ॥ १३३८ ॥
4.1338 · p. 164
अनुष्टुप्
महोग्रा भेद्यवत् तु स्यादत्युग्रेऽथ नृशण्डयोः ।मलयः शैलभेदे स्याद् देशेऽप्यवयचे गिरे ॥ १३३९ ॥
4.1339 · p. 164
अनुष्टुप्
आरामे चाप्यर्थ ज्ञेयं मञ्जुलं त्रिषु सुन्दरे ।द्वयोस्तु पक्षिभेदे स्याज्जलरङ्काह्वयेऽप्यथ ॥ १३४० ॥
4.1340 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्य (wrong syllable)
जलाञ्जले निकुञ्जे च नपुंसकमुपादिशत् ।मध्यमस्तु नृशण्डः स्याच्छरीरावयवान्तरे ॥ १३४१ ॥
4.1341 · p. 164
अनुष्टुप्
अवलग्नाह्वये ना तु मध्यदेशेश्वरे नृपे ।सप्तानां च स्वराणां स्यात् षड्जादीनां कचित् स्वरे ॥ १३४२ ॥
4.1342 · p. 164
अनुष्टुप्
त्रि तु मध्यभवे स्त्री तु मध्यमा मध्यमाङ्गुलौ ।स्त्रियां च दृष्टरजसि रभसस्त्वाह शब्दवित् ॥ १३४३ ॥
4.1343 · p. 164
अनुष्टुप्
कर्णिकायां च तस्याश्च बह्वर्थत्वं निरुप्यताम् ।मर्कटस्तु कपौ द्वे स्याल्लूतायां च स नपस्त्रियोः ॥ १३४४ ॥
4.1344 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कवाटबन्धनार्थायाः सूचेर्विष्कम्भयन्त्रके ।मर्कटं मर्कटी चेति स्त्रियां त्वेव हि मर्कटी ॥ १३४५ ॥
4.1345 · p. 165
अनुष्टुप्
आत्मगुप्ताख्यवल्ल्यां च करञ्जाख्यस्य शाखिनः ।भेदेष्वेकत्र भेदे च मुद्गभेदे तु पुंस्ययम् ॥ १३४६ ॥
4.1346 · p. 165
अनुष्टुप्
वन्यसंज्ञे तुरुष्काख्यनिर्यासे चाथ मन्थरम् ।मन्दे वक्रे पृथौ च त्रि सूचके मन्दगामिनि ॥ १३४७ ॥
4.1347 · p. 165
अनुष्टुप्
ना तु बाधे बले कोपे मन्थदण्डेऽप्यथो नपि ।कुसुम्भ्यां मन्थरा तु स्त्री कैकेय्याश्चेटिकान्तरे ॥ १३४८ ॥
4.1348 · p. 165
अनुष्टुप्
मन्दिरं तु पुरे गेहे क्लीबमब्धौ तु पुंस्ययम् ।मथितं तु क्लीबलिङ्गं निर्जले गोरसे कृते ॥ १३४९ ॥
4.1349 · p. 165
अनुष्टुप्
त्रिस्तु मन्थतिमथ्नातिकर्मभूतेषु वस्तुषु ।मन्दारस्तु पुमान् देववृक्षभेदेऽर्कनाम्नि च ॥ १३५० ॥
4.1350 · p. 165
अनुष्टुप्
गुल्मे स्यात् पारिभद्राख्यवृक्षतद्भेदयोरपि ।तेषां तु प्रसवे क्लीबमरविन्देऽप्यथ द्वयोः ॥ १३५१ ॥
4.1351 · p. 165
अनुष्टुप्
मदारो हस्तिनि त्रि स्यादलसेऽथ नृलिङ्गकः ।एकाहक्रतुभेदे स्यान्मरायोः मूत एव च ॥ १३५२ ॥
4.1352 · p. 165
अनुष्टुप्
कुसूलेऽमरदत्तेन कथितस्तत्स्य ने-तम् ।मूलमस्माभिरर्थे नप् साम्नो स्यादुभयोरपि ॥ १३५३ ॥
4.1353 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अग्नि नरो दीधितिभिरित्यस्यामृचि गीतयोः ।महार्घस्त्रिर्महामूल्ये द्वे तु लावकपक्षिणि ॥ १३५४ ॥
4.1354 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ग्नि (wrong syllable)
मरालस्तु द्वयोर्हंसे मिश्रवर्णे पुनः पुमान् ।स चाल्पपीतरक्ते स्याद् भेद्यलिङ्गं तु तद्वति ॥ १३५५ ॥
4.1355 · p. 165
अनुष्टुप्
मन्त्रज्ञस्तु पुमांश्चारे त्रिस्तु मन्त्रविदि स्मृतः ।मक्कणस्तु पुमान् कालेऽप्यजातरदहस्तिनि ॥ १३५६ ॥
4.1356 · p. 166
अनुष्टुप्
निःश्मश्रुपुरुषेऽप्याह रभसः शब्दवित्तमः ।ह्रस्वाङ्गे च गजे द्वे तु शय्याकीटेऽथ नप्यदः ॥ १३५७ ॥
4.1357 · p. 166
अनुष्टुप्
जङ्घात्राणार्थयन्त्रे स्याद् योधानां मर्दनी पुनः ।योधानां पादरक्षार्थयन्त्रे स्त्री क्ली तु मर्दनम् ॥ १३५८ ॥
4.1358 · p. 166
अनुष्टुप्
मृद्नात्यर्थे स्त्रियां तु स्यात् क्षुमाधान्ये मसृण्यथ ।अकर्कशे (च?त्रि) मसृणं स्निग्धे च मकरस्तु ना ॥ १३५९ ॥
4.1359 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निधिभेदे च राशौ च दशमे स्याद्द्वयोः पुनः ।झषसंज्ञे जलचरे मलिनं तु मलीमसे ॥ १३६० ॥
4.1360 · p. 166
अनुष्टुप्
त्रि स्त्री पुनरुदक्यायां मलिना मलदस्तु ना ।माषधान्ये भूम्नि चासौ स्थौराख्ये नीवृदन्तरे ॥ १३६१ ॥
4.1361 · p. 166
अनुष्टुप्
भेद्यलिङ्गं तु विज्ञेयं मलस्य स्यात् प्रदातरि ।मशकस्त्वृषिभेदे ना द्वयोस्तु क्षुद्रपक्षिणि ॥ १३६२ ॥
4.1362 · p. 166
अनुष्टुप्
मलिम्लुचसमाख्ये च मरुजा स्त्री मृगान्तरे ।यथोक्तं मरुजा तूच्चमृदुपाण्डररोमिका ॥ १३६३ ॥
4.1363 · p. 166
अनुष्टुप्
रोमराजिमती मध्ये द्वादशाङ्गुलसम्मिता ।इत्यस्या लक्षणं भेद्यलिङ्गं तु मरुसम्भवे ॥ १३६४ ॥
4.1364 · p. 166
अनुष्टुप्
मल्लिको नृस्त्रियोर्दीपाधारपात्रे स्त्रियां पुनः ।मल्लिका पुष्पवल्ल्यां स्याद् यस्या आख्यापि भूपदी ॥ १३६५ ॥
4.1365 · p. 166
अनुष्टुप्
मर्मरस्तु पुमान् वस्त्रपर्णानां स्वनिते तथा ।मर्मरा भक्षभेदे स्त्री मौडीसंज्ञेऽथ मस्तकः ॥ १३६६ ॥
4.1366 · p. 166
अनुष्टुप्
अस्त्री शिरसि विद्वांसः पुनरन्ये प्रचक्षते ।शिरसः पूर्वभागस्य मध्य इत्यथ विद्विषि ॥ १३६७ ॥
4.1367 · p. 167
अनुष्टुप्
मलीको ना नपि त्वेतदञ्जने सम्प्रचक्षते ।मलूको द्वे पक्षिमात्रे सरोजशकुनौ पुनः ॥ १३६८ ॥
4.1368 · p. 167
अनुष्टुप्
शाकटायन आहैनं मण्डूकस्तु द्वयोरयम् ।भेकेऽपि पिकभेदे च मण्डूकी तु स्त्रियामियम् ॥ १३६९ ॥
4.1369 · p. 167
अनुष्टुप्
गजस्यापरपादस्य कृतस्य दशधा तथा ।उपरिष्टात् समारभ्य तुर्यभागे तथैव च ॥ १३७० ॥
4.1370 · p. 167
अनुष्टुप्
मण्डूकपर्ण्यामप्याह रभसः शब्दवित्तमः ।लाङ्गलावयवस्यापि भेदेऽथो राजरक्षिभिः ॥ १३७१ ॥
4.1371 · p. 167
अनुष्टुप्
कृते पुरस्य दुर्गस्य बहिर्भूमौ नृलिङ्गकः ।यन्त्रभेदे मयूखस्तु नृस्त्रियोः किरणेऽथ ना ॥ १३७२ ॥
4.1372 · p. 167
अनुष्टुप्
ज्वालादीप्त्योः रथस्याक्षे शङ्कौ चाथ द्वयोरयम् ।मयूरो बर्हिणे ना तु स्यादपामार्गसंज्ञके ॥ १३७३ ॥
4.1373 · p. 167
अनुष्टुप्
स्तम्बे च तुलसीभेदे चाल्पपत्रसुगन्धिके ।तं मयूरशिखासंज्ञभेषजे रभसोऽपठीत् ॥ १३७४ ॥
4.1374 · p. 167
अनुष्टुप्
क्ली तु तुत्थाञ्जनेऽथो ना धान्ये मङ्गलसंज्ञके ।केषाञ्चित् स्यान्मयूरोऽयं तथा चर्मासनान्तरे ॥ १३७५ ॥
4.1375 · p. 167
अनुष्टुप्
व्रीहिकङ्काख्यधान्ये तु मसूरी स्त्री तथा भवेत् ।मारिसंज्ञे रोगभेदे वेश्यायां रभसोऽपठीत् ॥ १३७६ ॥
4.1376 · p. 167
अनुष्टुप्
अथ ना मसुरो धान्यभेदे चर्मासनेऽपि च ।रभसस्त्वाह वेश्यायां स्त्रियां व्रीह्यन्तरेऽपि च ॥ १३७७ ॥
4.1377 · p. 167
अनुष्टुप्
अथो नपुंसकं विद्यान्मधूलं शब्दकोविदः ।सारघादिमधौ ना तु मधूके गिरिसम्भवे ॥ १३७८ ॥
4.1378 · p. 167
अनुष्टुप्
रसे च मधुराभिख्ये भेद्यलिङ्गं तु तद्वति ।मठरस्त्वृषिभेदे ना भेद्यवत् त्वलसे पुनः ॥ १३७९ ॥
4.1379 · p. 168
अनुष्टुप्
मठरं तु द्रवीभूते दध्न्यतीव नपुंसकम् ।त्रि तु कण्ठगतप्राणे कृमिजात्यन्तरे द्वयोः ॥ १३८० ॥
4.1380 · p. 168
अनुष्टुप्
ना त्वग्नौ मरतो जन्तौ द्वे मन्दाक्ष पुनर्नपि ।लज्जायां मन्ददृष्टो तु त्रिषु ----- च ॥ १३८१ ॥
4.1381 · p. 168
अनुष्टुप्metre not read in every line
मत्स्याक्षी तु स्त्रियां ब्राणी---तृणान्तरे ।मत्स्याक्षस्तु पुमाञ्छाकस्तम्बे पत्तूरसंज्ञके ॥ १३८२ ॥
4.1382 · p. 168
अनुष्टुप्metre not read in every line
पुंस्त्रियोस्तु मरीचिः स्याद् गभस्तिमृगतृष्णयोः ।अष्टके त्रसरेणूनां लिक्षाख्यपरिमाणके ॥ १३८३ ॥
4.1383 · p. 168
अनुष्टुप्
सप्तानामृषिभेदानामयमन्यतमे पुमान् ।मधुवाक् तु द्वयोर्ज्ञेयः कोकिले भेद्यवत् पुनः ॥ १३८४ ॥
4.1384 · p. 168
अनुष्टुप्
मधुरा यस्य वाक् तत्र मत्स्यराट् तु द्वयोरयम् ।मकराख्ये जलचरे मत्स्यानां त्वधिपे पुमान् ॥ १३८५ ॥
4.1385 · p. 168
अनुष्टुप्
मण्डली तु द्वयोः सर्पजातिभेदेषु केषुचित् ।षड्विंशतौ मण्डलवदर्थे तु त्रिष्वथ स्त्रियाम् ॥ १३८६ ॥
4.1386 · p. 168
अनुष्टुप्
आवलौ मालिकाप्याढ्यजनानां मन्दिरान्तरे ।सप्तलासंज्ञके पुष्पवल्लिभेदेऽप्यसौ स्मृता ॥ १३८७ ॥
4.1387 · p. 168
अनुष्टुप्
भूयोऽपि रभसेनोक्ता चतुर्ष्वर्थेषु मालिका ।ग्रैवेयके पुष्पमाल्ये पुत्रिकाहस्तिमल्लयोः ॥ १३८८ ॥
4.1388 · p. 168
अनुष्टुप्
आकारान्ताथ सर्वासु पुष्पवल्लीषु मालकी ।ईकारान्ताथ न स्त्री स्यान्मालकं खेटकाह्वये ॥ १३८९ ॥
4.1389 · p. 168
अनुष्टुप्
वनदुर्गनिवासे स्याद् भेद्यलिङ्गं तु धारके ।मागधी तु स्त्रियां यूथीपिप्पल्योः स्याद्द्वयोः पुनः ॥ १३९० ॥
4.1390 · p. 169
अनुष्टुप्
मर्त्यजात्यन्तरे वैश्याज्जाते ब्राह्मणयोषिति ।वैश्यात् क्षत्रियकन्यायां जाते च स्याच्च वन्दिनि ॥ १३९१ ॥
4.1391 · p. 169
अनुष्टुप्
मगधानां तु ना राज्ञि जीरकेऽप्यथ माधवः ।विष्णौ वैशाखमासे च वसन्ते चाजयो नरि ॥ १३९२ ॥
4.1392 · p. 169
अनुष्टुप्
मध्वासवसमाख्ये तु मद्यभेदे नृशण्डयोः ।स्त्रियां तु माधवी पुष्पवल्लिजात्यन्तरे भवेत् ॥ १३९३ ॥
4.1393 · p. 169
अनुष्टुप्
अतिमुक्तकसंज्ञे स्यात् सुरायां च तथा विदुः ।कोशातक्याः प्रभेदे च भवेद्दीर्घफलाह्वये ॥ १३९४ ॥
4.1394 · p. 169
अनुष्टुप्
जयन्त्यामिति च प्रोक्तं केनचित् तन्निरूप्यताम् ।रभसः शतपुष्प्यां च ब्रवीति मधुशर्कराम् ॥ १३९५ ॥
4.1395 · p. 169
अनुष्टुप्
अर्थत्वेनास्य राज्ञस्तु मधोः पुत्रादिषु त्रिषु ।मार्ताण्डो रभसेनोक्तः खगे दंष्ट्रिणि च द्वयोः ॥ १३९६ ॥
4.1396 · p. 169
अनुष्टुप्
रवौ तु पुंसि मार्तण्डमार्ताण्डौ यादवोदितौ ।माकन्दस्तु पुमानाम्रे स्त्री स्यादामलकीतरौ ॥ १३९७ ॥
4.1397 · p. 169
अनुष्टुप्
माणिक्यं तु भवेद्रत्नवरे क्लीबं स्त्रियां पुनः ।गृहगोधासमाख्ये स्यान्माणिक्यां जन्तुभेदके ॥ १३९८ ॥
4.1398 · p. 169
अनुष्टुप्
मार्गरस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ।आयोगव्या निषादात् स्यात् कैवर्तेऽप्यथ भेद्यवत् ॥ १३९९ ॥
4.1399 · p. 169
अनुष्टुप्
मार्गस्य दातरि त्रिस्तु मार्गणो याचकेऽथ ना ।बाणे च स्त्रीनपोर्याच्ञाद्वेषयोर्मार्गणाथ ना ॥ १४०० ॥
4.1400 · p. 169
अनुष्टुप्
मार्जनः स्नेहसंज्ञे स्याद् गुणे स्त्रीशण्डयोः पुनः ।मार्जनं मार्जना चेति मार्ष्टौ विद्वद्भिरीरितम् ॥ १४०१ ॥
4.1401 · p. 169
अनुष्टुप्
मारिषस्तु पुमानार्ये नाट्योक्तिविषये तथा ।जीवशाक इति ख्याते शाकभेदेऽपि सा पुनः ॥ १४०२ ॥
4.1402 · p. 170
अनुष्टुप्
दक्षमातरि विज्ञेया स्त्रीलिङ्गा मारिषा बुधै ।मार्जिता तु रसालायां स्त्री तस्या लक्षणं विदुः ॥ १४०३ ॥
4.1403 · p. 170
अनुष्टुप्
अपक्वतक्रं सव्योषचतुर्जातगुडार्द्रकम् ।सजीरकं रसाला स्यादित्येवं त्रि तु शोधिते ॥ १४०४ ॥
4.1404 · p. 170
अनुष्टुप्
मार्जारस्तु बिडाले द्वे पुमांस्त्विङ्गुदपादपे ।अगस्त्यवृक्षे च स्त्री तु मार्जारी स्यान्मृगान्तरे ॥ १४०५ ॥
4.1405 · p. 170
अनुष्टुप्
काद्रङ्गसंज्ञे त चाहुर्मृगज्ञाश्चमराकृतिम् ।कस्तूरिकामृगस्यापि स्यादण्डे द्वे तु हस्तिनि ॥ १४०६ ॥
4.1406 · p. 170
अनुष्टुप्
मातङ्गः स्याच्च चण्डाले मारुतस्तु पुमानयम् ।वायौ च भीमसेने च हनूमति च नप् पुनः ॥ १४०७ ॥
4.1407 · p. 170
अनुष्टुप्
पुरा भिन्दुर्युवेत्यस्यामृचि गीते हि सामनि ।त्रिर्मरुद्योगिनि स्यात् तु धुर्धूरे मातुलः पुमान् ॥ १४०८ ॥
4.1408 · p. 170
अनुष्टुप्
मदनाख्यद्रुमे चाथ रभसः शब्दवित्तमः ।मातुर्भ्रातरि च स्त्री तु भार्यायां तस्य मातुली ॥ १४०९ ॥
4.1409 · p. 170
अनुष्टुप्
मातुलानी च भङ्गाख्यधान्ये स्यान्मातुलान्यसौ ।द्वयोस्तु मालुधानाख्यसर्पजात्यन्तरे स्मृतः ॥ १४१० ॥
4.1410 · p. 170
अनुष्टुप्
माहेन्द्री तु स्त्रियां ज्ञेया सप्तानामेकमातरि ।मातॄणां कदलीजातिभेदे च पृथुदीर्घकम् ॥ १४११ ॥
4.1411 · p. 170
अनुष्टुप्
तत्र यस्य फलं त्रिस्तु स्यान्महेन्द्रस्य योगिनि ।महेन्द्रदेवते चाथ माहूरः पुंसि पर्वते ॥ १४१२ ॥
4.1412 · p. 170
अनुष्टुप्
पूजके तु त्रिषु ज्ञेयो माहिरस्तु नृलिङ्गकः ।इन्द्रे क्लीबं तु शयने बाले च क्ली तु मानसम् ॥ १४१३ ॥
4.1413 · p. 170
अनुष्टुप्
चित्ते हैमवते चापि सरोभेदेऽपि यज्वनाम् ।प्रसिद्धे स्तोत्रभेदेऽपि यज्ञगे मनसः पुनः ॥ १४१४ ॥
4.1414 · p. 171
अनुष्टुप्
सम्बन्धिनि त्रिषु क्ली तु मासिकं पुंसि केचन ।मासि श्राद्धे त्रिषु पुनर्भासं भूतभृतादिषु ॥ १४१५ ॥
4.1415 · p. 171
अनुष्टुप्
मानवस्तु मनुष्ये द्वे मनुसम्बन्धिनि त्रिषु ।माणवस्तु पुमान् हारभेदे षोडशयष्टिके ॥ १४१६ ॥
4.1416 · p. 171
अनुष्टुप्
द्वे तु बाले कुपुरुषेऽप्यथ पुम्भूम्नि मालवाः ।अवन्त्याख्ये जनपदे तन्निवासजने द्वयोः ॥ १४१७ ॥
4.1417 · p. 171
अनुष्टुप्
सर्वैश्च वचनैर्योगी मर्त्यजात्यन्तरे तथा ।पुरातने तु मधुनि माधुकं क्ली त्रिषु त्वदः ॥ १४१८ ॥
4.1418 · p. 171
अनुष्टुप्
यत् स्यान्मधुकसम्बन्धि तस्मिन्नथ नृलिङ्गकः ।माधुरः षोडशेऽरत्नौ मूलादारभ्य यस्य हि ॥ १४१९ ॥
4.1419 · p. 171
अनुष्टुप्
अरत्नयः सप्तदश तस्य यूपस्य स त्रि तु ।सम्बन्धे मधुरेणाथ मालाकारे हि मालिकः ॥ १४२० ॥
4.1420 · p. 171
अनुष्टुप्
द्वे मालावति तु त्रि स्यान्माक्षिकं तु नपुंसकम् ।सारघे मधुनि स्याच्च शैलधात्वन्तरे तथा ॥ १४२१ ॥
4.1421 · p. 171
अनुष्टुप्
चक्रसंज्ञे मक्षिकायाः पुनः सम्बन्धिनि त्रिषु ।माषाशी तु तुरङ्गे द्वे माषस्य त्वाशके त्रिषु ॥ १४२२ ॥
4.1422 · p. 171
अनुष्टुप्
मिहिरस्तु पुमान् सूर्यवायुमेधेषु नब्जले ।मिथुनं तु क्लीबलिङ्गं स्त्रीपुंसयुगले तथा ॥ १४२३ ॥
4.1423 · p. 171
अनुष्टुप्
मधुर्सर्पिर्द्वये राशौ तृतीये स्याद्द्वयोर्गणे ।युग्माख्ये तद्वति पुनस्त्रिषु स्यान्मिथुनं पुनः ॥ १४२४ ॥
4.1424 · p. 171
अनुष्टुप्
दम्पत्योः पुंसि नब्लिङ्गं पुनः स्याच्च घृताञ्जने ।मिश्रकं यजमानस्य त्रि तु मिश्रयितर्यसौ ॥ १४२५ ॥
4.1425 · p. 172
अनुष्टुप्
मिथुनी तु द्वयोः खञ्जरीटाख्ये पक्षिणि त्रि तु ।भवेन्मिथुनवत्येव मुसलस्तु नृशण्डयोः ॥ १४२६ ॥
4.1426 · p. 172
अनुष्टुप्
अवधातोपकरणदण्डे स्त्री तु मुसल्यसौ ।गृहगोधासमाख्ये स्याज्जन्तौ कुस्तुम्बुरुण्यपि ॥ १४२७ ॥
4.1427 · p. 172
अनुष्टुप्
तालमूलीसमाख्ये च स्तम्बेऽथ मुचिरः पुमान् ।सूर्ये मेघे च धर्मे च त्रि तु दातरि ना पुनः ॥ १४२८ ॥
4.1428 · p. 172
अनुष्टुप्
मुहिरः पूष्णि कन्दर्पे क्लीबं तु तमसि स्मृतम् ।मुखरस्तु त्रिषु ज्ञेयो दुर्मुखे स्त्री तु पक्षिणि ॥ १४२९ ॥
4.1429 · p. 172
अनुष्टुप्
मुखरा शारिकासंज्ञे मुण्डितं त्वभिधेयवत् ।उप्तकेशे स्त्रियां त्वेषा श्रमणीति हि विश्रुते ॥ १४३० ॥
4.1430 · p. 172
अनुष्टुप्
भैषज्यशाकस्तम्बेऽथ मुद्गरो द्रुहिणे नरि ।मल्लिकायां च रभसः पुनर्वेण्वादिभेदने ॥ १४३१ ॥
4.1431 · p. 172
अनुष्टुप्
क्लीबं तु मल्लिकाभेदे त्रिषु मुद्गस्य दातरि ।मुष्टिकस्तु पुमान् स्वर्णकारे स्यात् स्त्री तु मुष्टिका ॥ १४३२ ॥
4.1432 · p. 172
अनुष्टुप्
कारस्योपकरणभेदे ना तु मुसल्यसौ ।बलभद्रेऽश्वभेदे च यस्यैको द्यतिकः (?) ++ ॥ १४३३ ॥
4.1433 · p. 172
metre not recognised
त्रि स्यान्मुसलवत्यर्थे मूषिकस्तु द्वयोरयम् ।आखुजातौ यदा तु स्यात् स्त्रियां वृत्तिस्तदा भवेत् ॥ १४३४ ॥
4.1434 · p. 172
अनुष्टुप्
मूषिका निर्विषाणां च जातिभेदे जलौकसाम् ।अनिष्टगन्धे विज्ञेयो मूषिकैः सदृशाकृतौ ॥ १४३५ ॥
4.1435 · p. 172
अनुष्टुप्
क्लीबं तु मूर्छनं मोहेऽभिव्याप्तौ च स्त्रियां पुनः ।मूर्छना गीतिधर्मे स्यात् क्वचित् स्त्रीशण्डयोः पुनः ॥ १४३६ ॥
4.1436 · p. 173
अनुष्टुप्
मूर्छना मूर्छयत्यर्थे पुन्नपुंसकयोः पुनः ।मूलको बुस्तिकासंज्ञशाकस्तम्बे त्रिषु त्वयम् ॥ १४३७ ॥
4.1437 · p. 173
अनुष्टुप्
मूलनक्षत्रसंयुक्तकालजातेऽथ पुंस्ययम् ।वनस्पतौ स्यान्मूलेरो हर्षनन्दी त्वभाषत ॥ १४३८ ॥
4.1438 · p. 173
अनुष्टुप्
शब्दार्थवेदिनामग्र्य आपणीयवनस्पतौ ।क्ली तु पण्ये मृणाली तु बिसे लिङ्गत्रयी भवेत् ॥ १४३९ ॥
4.1439 · p. 173
अनुष्टुप्
शाकटायन आह स्म पद्माकुर इतीदृशम् ।पद्मकोरक इत्याह हर्षनन्द्यथ सज्जनः ॥ १४४० ॥
4.1440 · p. 173
अनुष्टुप्