कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · शूद्राध्यायः (1/2)

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे वैश्याध्यायः

शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्योऽप्येकजातिः शूद्राः संकरजा अपि ॥ १ ॥
3.9.1 · p. 136
अनुष्टुप्
दासे भृत्यः परिस्कन्दः परजातः परैधितः ।नियोज्यचेटकप्रेष्यभुजिष्यपरिचारकाः ॥ २ ॥
3.9.2 · p. 136
अनुष्टुप्
लाडीककिंकरप्रेंखपालूकपरिकर्मिणः ।संचारिते धीकरश्च गोप्याः स्युर्दाससूनवः ॥ ३ ॥
3.9.3 · p. 136
अनुष्टुप्
बन्धके स्थित आयत्तो भक्तायैव स्थितः कृतः ।स्वस्कन्दो भिन्नकुंभश्च भुजिष्यो दासमोचितः ॥ ४ ॥
3.9.4 · p. 136
अनुष्टुप्
भृतके भृतिभुक्कर्मकरो वैतनिकस्त्रिषु ।भरण्यं भरणं भर्म वेतनं निष्क्रयो भृतिः ॥ ५ ॥
3.9.5 · p. 136
अनुष्टुप्
कर्मण्या तुलिका भृत्या भारवाहस्तु भारिकः ।वार्त्ताहरो वैवधिको भारयष्टिर्विहंगिका ॥ ६ ॥
3.9.6 · p. 136
अनुष्टुप्
शिक्यं तल्लंबि काचश्च पाथेयं शंबलोऽस्त्रियाम् ।कारवः शिल्पिनः सर्वे कुलिकास्ते कुलोत्तमाः ॥ ७ ॥
3.9.7 · p. 136
अनुष्टुप्
कला शिल्पं च कर्माथ तंतुवायः कुविन्दकः ।वाणिर्व्यूतिश्च वानं स्याद्वेमा ना वानदण्डकः ॥ ८ ॥
3.9.8 · p. 136
अनुष्टुप्
तर्कुः कर्तनभाण्डे ना त्रसरः सूत्रवेष्टनः ।धराः कार्पासतूलाः स्युस्तूलमस्त्री पिचुः पुमान् ॥ ९ ॥
3.9.9 · p. 136
अनुष्टुप्
पिंजनं स्याद्विहननं धराणां प्रविसारणम् ।कल्पनं कर्तनं तुल्ये त्रिवृतं तु त्रिवृत्त्रिषु ॥ १० ॥
3.9.10 · p. 136
अनुष्टुप्
आवर्तनं तु वलनं सूत्राणि नरि तन्तवः ।सौचिकस्तुन्नवायः स्यात्सूचिः सूचा च सीवनी ॥ ११ ॥
3.9.11 · p. 136
अनुष्टुप्
सूचिसूत्रं पिप्पलकमोतं प्रोतमुभे त्रिषु ।सीवनं सेवनं स्यूती रंगाजीवस्तु चित्रकृत् ॥ १२ ॥
3.9.12 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
लेखनी तूलिका कूर्ची पुस्तं लेप्यादिकर्मणि ।या तु लेप्यमयी नारी सा स्यादंजलिकारिका ॥ १३ ॥
3.9.13 · p. 137
अनुष्टुप्
पांचालिका तु वस्त्रादिपुत्रिका सालभञ्जिका ।पलगण्डो लेपकारः कल्पाणिः समलेपनी ॥ १४ ॥
3.9.14 · p. 137
अनुष्टुप्
संवाहकोंऽगमर्दी स्याच्छस्त्रमार्जोऽसिधावकः ।मणिकारो वैघटिकः शौल्बिकस्ताम्रकुट्टकः ॥ १५ ॥
3.9.15 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
नाडिन्धमः स्वर्णकारः कलादो मौष्टिकः समाः ।कर्मारः स्यादयस्कारो व्योकारो लोहकारकः ॥ १६ ॥
3.9.16 · p. 137
अनुष्टुप्
शांखिकः स्यात्कांबविको भस्रा चर्मप्रसेविका ।सन्दंशः स्यात्कंकमुखः काणा मूका वुषा स्मृता ॥ १७ ॥
3.9.17 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कां (wrong syllable)
विध्यते येन मण्यादिराविधोऽसौ निघोऽपि च ।आस्फोटनी वेधनिका भ्रमः कुन्दश्च यन्त्रकम् ॥ १८ ॥
3.9.18 · p. 137
अनुष्टुप्
नाराची स्यादेषणिका शाणस्तु निकषः कषः ।रोषाणस्तु घृषिर्वृष्वो हेमादिनिकषाश्मनि ॥ १९ ॥
3.9.19 · p. 137
अनुष्टुप्
यत्र निक्षिप्य कूटेन हन्यते सा निघानका ।प्रतिच्छाया प्रतिकृतिः प्रतिमा प्रतियातना ॥ २० ॥
3.9.20 · p. 137
अनुष्टुप्
प्रतिच्छन्दः प्रतिनिधिर्बेरं च प्रतिरूपकम् ।प्रतिबिंबोपमाने च सादृश्ये सन्निभं निभम् ॥ २१ ॥
3.9.21 · p. 137
अनुष्टुप्
हरिणी हेमप्रतिमा सूर्मिः स्थूणान्यलोहजा ।कूटोऽश्मकुट्टकोऽथ स्याट्टङ्कः पाषाणदारकः ॥ २२ ॥
3.9.22 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
कायस्थः स्याल्लिपिकरः करणोऽक्षरजीवनः ।लेखकोक्षरचुंचुश्च लिबिर्लेखाक्षरस्य या ॥ २३ ॥
3.9.23 · p. 137
अनुष्टुप्
लिपिस्त्वालेख्यलेखास्याद्रेखा तु स्यादकृत्रिमा ।वर्णांतरस्य सर्पादौ लाजिर्लेखा तु कृत्रिमा ॥ २४ ॥
3.9.24 · p. 138
अनुष्टुप्
मेलामन्दो मषिघटी मेलांबु मलिनांबु च ।मेला(मणिर्न षण् तस्या लेखन्या) कणिकोद्धृता ॥ २५ ॥
3.9.25 · p. 138
अनुष्टुप्
चण्डिलः क्षुरमर्दी स्यान्नापितोऽन्तावसाय्यपि ।क्षुरोऽस्य वपनं शस्त्रं कर्त्त्रिका कर्त्तनी कृवी ॥ २६ ॥
3.9.26 · p. 138
अनुष्टुप्
कुंभकारः कुलालोऽस्य पचनं पाकमण्डलम् ।धूसरश्चाक्रिकस्तैली पिण्याको ना खलिः स्त्रियाम् ॥ २७ ॥
3.9.27 · p. 138
अनुष्टुप्
आभीरस्तु महाशूद्रो गोपो गोसंख्यगोदुहौ ।गोपालो वल्लवश्चाथ वत्सीयस्त्रिषु तद्धिते ॥ २८ ॥
3.9.28 · p. 138
अनुष्टुप्
जाबालः स्यादजाजीवः कोणोऽक्ली लगुडो नरि ।सन्दानं दामनी दामा न ना दाम पशोस्तु या ॥ २९ ॥
3.9.29 · p. 138
अनुष्टुप्
रज्जुःसा बन्धनी तन्त्री त्वल्पा पाशस्तु कर्णिका ।गुणो वराटो रज्जुः स्त्री न ना शुल्बा वटी त्रयी ॥ ३० ॥
3.9.30 · p. 138
अनुष्टुप्
ग्रन्थिर्बन्धो व्रजो गोष्ठो गौष्ठीनं तु पुरा व्रजः ।मन्थस्तु मन्था मन्थानो वैशाखः खजकोऽपि च ॥ ३१ ॥
3.9.31 · p. 138
अनुष्टुप्
कुठारो मन्थविष्कंभो मन्थपात्रं तु गर्गरी ।घोष आभीरपल्ली स्यात्पक्कणोऽस्त्र्यंत्यजालयः ॥ ३२ ॥
3.9.32 · p. 138
अनुष्टुप्
मालाकारो माल्यजीवी मालिकः प्रातिहारिकः ।ऊर्णा स्नावः कदल्यादेः करण्डी तु पुटी त्रयी ॥ ३३ ॥
3.9.33 · p. 138
अनुष्टुप्
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ३४ ॥
3.9.34 · p. 138
अनुष्टुप्
स उद्घनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते ।व्रश्चनः पत्रपरशुः परशुस्तु परश्वधः ॥ ३५ ॥
3.9.35 · p. 138
अनुष्टुप्
स्वधितिर्ना कुठारोऽक्ली वासी स्याद्दारुतक्षणी ।क्रकचोऽस्त्री करपत्रं स्वधितिः कर्त्तनः समौ ॥ ३६ ॥
3.9.36 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
जीवान्तको मांसिकश्च कौटिको मांसविक्रयी ।सूनातटिर्वधस्थानं कृपाणीली च कर्तरी ॥ ३७ ॥
3.9.37 · p. 139
अनुष्टुप्
मृगयुर्लुब्धको व्याधो द्वौ वागुरिकजालिकौ ।आच्छोटनं खेटनञ्च मृगव्यं मृगयापि च ॥ ३८ ॥
3.9.38 · p. 139
अनुष्टुप्
आखेटश्च वराधिश्च वागुरा मृगबन्धिनी ।श्वा विश्वकद्रुर्मृगयादक्षोऽलर्कस्तु योगितः ॥ ३९ ॥
3.9.39 · p. 139
अनुष्टुप्
दक्षिणेर्मा तु स मृगो यो लुब्धैर्दक्षिणे हतः ।वैतंसिकः शाकुनिक उन्माथः कूटयन्त्रकम् ॥ ४० ॥
3.9.40 · p. 139
अनुष्टुप्
शल्यमस्त्री शलाका स्याद्वितंसः पक्षिबन्धनम् ।पक्षिणा येन गृह्यंते पक्षिणोऽन्ये स दीपकः ॥ ४१ ॥
3.9.41 · p. 139
अनुष्टुप्
कैवर्तो धीवरो दाशो नौजीवी जालिमार्गरौ ।मत्स्यधानी कुवेणी स्याद्बलिशं मत्स्यवेधनम् ॥ ४२ ॥
3.9.42 · p. 139
अनुष्टुप्
जालमानाय उद्दालस्तून्नतो मुकुलाकृतिः ।पादूकृच्चर्मकारः स्यादारा चर्मप्रभेदिनी ॥ ४३ ॥
3.9.43 · p. 139
अनुष्टुप्
वर्द्ध्री नद्ध्री वरत्रा च शौण्डिकस्त्वासुतीवलः ।कल्यापालो ध्वजी चाथ मद्यं स्यात्कापिशायनम् ॥ ४४ ॥
3.9.44 · p. 139
अनुष्टुप्
मदना मोहकलिका मदिष्ठा काचमालिका ।कादंबरी वारुणी च मधूलैस्तु मधूलिका ॥ ४६ ॥
3.9.46 · p. 139
अनुष्टुप्
पक्वैस्त्विक्षुरसैरस्त्री शीधुः पंकरसः शिवः ।शीतपंको रूक्षणीयोऽप्यपक्वैरसिकासवौ ॥ ४७ ॥
3.9.47 · p. 139
अनुष्टुप्
मधुमद्ये तु माध्वीकं कामिकान्तं मदोत्कटम् ।विक्रान्तं कपिशं हृद्यं मुखवासः सुखोदयः ॥ ४८ ॥
3.9.48 · p. 140
अनुष्टुप्
मध्वासवोऽसितः सेव्यः शार्करो माधवोऽस्त्रियाम् ।मैरेयमासवो धात्रीधातकीगुडवारिभिः ॥ ४९ ॥
3.9.49 · p. 140
अनुष्टुप्
काकोली पैष्टिकी श्वेताप्यापानं पानगोष्ठिका ।नग्नहूर्ना मद्यबीजं किण्वमप्यथ मेदकः ॥ ५० ॥
3.9.50 · p. 140
अनुष्टुप्
जगलोऽथ सनिः सारो मर्कसो मासरोऽपि च ।आसूतिर्मद्यसन्धानमासवोऽभिषवोऽपि च ॥ ५१ ॥
3.9.51 · p. 140
अनुष्टुप्
कारोत्तरः सुरामण्ड आसवोऽप्यथ भक्षणम् ।उपदंशोऽपदंशश्च मधुवारा मधुक्रमाः ॥ ५२ ॥
3.9.52 · p. 140
अनुष्टुप्
शुण्डापानं मदस्थानं सपीतिः सहपानकम् ।सरकं चषकं चास्त्री गल्वर्तोऽप्यनुकर्षणम् ॥ ५३ ॥
3.9.53 · p. 140
अनुष्टुप्
पानगोष्ठीषु यन्नृत्तं तत्र स्यादुच्चतालकम् ।प्लवचाण्डालचण्डालमातंगास्तु जनड्गमे ॥ ५४ ॥
3.9.54 · p. 140
अनुष्टुप्
विष्टिर्ना कारितं कर्म हठाद्येऽपि च तत्कृतः ।अथैकागारिकश्चोरः परिमोषी मलिम्लुचः ॥ ५५ ॥
3.9.55 · p. 140
अनुष्टुप्
प्रतिरोधी परास्कन्दी तस्करः प्रतिरोधकः ।स्तेनो रात्रिचरो दस्युर्मोषकः पारिपन्थिकः ॥ ५६ ॥
3.9.56 · p. 140
अनुष्टुप्
पश्यतो यो हरत्यर्थं स चोरः पश्यतोहरः ।पटच्चरः पटच्चोरो बन्दी स्त्री प्रग्रहो ग्रहः ॥ ५७ ॥
3.9.57 · p. 140
अनुष्टुप्
लोप्त्रं हृतोऽर्थश्चौर्यं तु स्तेयं स्तैन्यं च चौरिका ।धूर्तोऽक्षधूर्तः कितवो द्यूतकृत्कृष्णकोहलः ॥ ५८ ॥
3.9.58 · p. 140
अनुष्टुप्
चौरिकश्चाक्षजीवी च सभिका द्यूतकारकाः ।द्यूतोऽस्त्रियामक्षवती तद्भेदाः पञ्चिकादयः ॥ ५९ ॥
3.9.59 · p. 140
अनुष्टुप्
समाधिश्च समंगश्च परिवी रंजनं च तत् ।पणो ग्लहो देवनस्तु पाशकोऽक्षोऽथ शारयः ॥ ६० ॥
3.9.60 · p. 141
अनुष्टुप्
शाराः स्युः परिणायस्तु तेषां संचारणेऽभितः ।अक्षपाता अयास्ते तु चतुस्त्रिद्व्येकयोगिनः ॥ ६१ ॥
3.9.61 · p. 141
अनुष्टुप्
कृतं त्रेता द्वापरं च कलिश्चेति यथाक्रमम् ।जायाजीवस्तु शैलूषः शैलाली भरतो नटः ॥ ६२ ॥
3.9.62 · p. 141
अनुष्टुप्
रंगाजीवोनृतुर्नप्रो नण्डो रंगावतार्यपि ।सर्ववेशी कृशाश्वी च नर्तकस्त्वभ्रफुल्लकः ॥ ६३ ॥
3.9.63 · p. 141
अनुष्टुप्
यो यष्टिरज्जुखड्गेषु प्रनृत्यति स पूरकः ।केलकः प्रवकश्चासौ चारणास्तु कुशीलवाः ॥ ६४ ॥
3.9.64 · p. 141
अनुष्टुप्
नर्तको भूमिकां प्राप्तो देवानामर्धमानुपः ।रंगावतारी रुद्रस्य (कृष्णस्य) त्वर्धमानवः ॥ ६५ ॥
3.9.65 · p. 141
अनुष्टुप्metre not read in every line
समस्य स्याद्देवरथः शक्रस्य तु शचीबलः ।रावणस्य तु रंगोपमर्दी कंसस्य भूमिकाम् ॥ ६६ ॥
3.9.66 · p. 141
अनुष्टुप्
प्राप्तः फालगलालेपो यस्तु स्त्रीभूमिकां गतः ।स भ्रूकुंसो भ्रुकुंसश्च भ्रकुंसश्च भृकुंसवत् ॥ ६७ ॥
3.9.67 · p. 141
अनुष्टुप्
तत्तद्वेषो भूमिका स्यात्तद्धारी भूमिकागतः ।पात्राणि नाट्येऽधिकृताः सूत्रधारस्तु सूचकः ॥ ६८ ॥
3.9.68 · p. 141
अनुष्टुप्
नान्दी तु पाठको नान्द्याः पार्श्वस्थाः पारिपार्श्विकाः ।विदूषकः केलिकिलः प्रहासी प्रतिभोऽपि च ॥ ६९ ॥
3.9.69 · p. 141
अनुष्टुप्
वेश्याचार्यः पीठमर्दः षिद्गो वातसुतो विटः ।मार्दंगिको मौरजिको वीणावादास्तु वैणिकाः ॥ ७० ॥
3.9.70 · p. 141
अनुष्टुप्
वेणुध्माः स्युर्वैणविकाः पाणिवादास्तु पाणिघाः ।नृत्तं गीतं वाद्यमिति नाट्यं तौर्यत्रिकं त्रिकम् ॥ ७१ ॥
3.9.71 · p. 141
अनुष्टुप्
संगीतकं प्रेक्षणार्थे नाट्योक्ते नाट्यधर्मिका ।उत्तमोत्तमिकं श्लोकैः सैन्धवं प्राकृतोक्तिभिः ॥ ७२ ॥
3.9.72 · p. 141
अनुष्टुप्
ताण्डवोऽस्त्री नृत्तलास्यनटनाक्षजनर्तनम् ।नटितिर्नाटकी रासो नृत्तं बाह्यं स्वकल्पितम् ॥ ७३ ॥
3.9.73 · p. 142
अनुष्टुप्
रसभावांगहाराद्यैः शास्त्रोक्तैरूपकाश्रयम् ।नृत्तमाभ्यन्तरं नाम स्थायिभावात्मको रसः ॥ ७४ ॥
3.9.74 · p. 142
अनुष्टुप्
शृंगारहास्यबीभत्सवीराद्भुतभयानकाः ।रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ॥ ७५ ॥
3.9.75 · p. 142
अनुष्टुप्
स्थायिभावाः क्रमादेषां रतिर्हासो जुगुप्सनम् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ ७६ ॥
3.9.76 · p. 142
अनुष्टुप्
बीभत्समाने बीभत्सो विस्मेतर्यद्भुतो रसः ।भयानको रसो भीते हास्यो हसितरि स्थितः ॥ ७७ ॥
3.9.77 · p. 142
अनुष्टुप्
बीभत्सो विकृतश्चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं भयंकरम् ॥ ७८ ॥
3.9.78 · p. 142
अनुष्टुप्
भैरवं भीषणं घोरमाभीलं दारुणञ्च तत् ।करुणः सकृपो रौद्रस्तूग्रोऽमी विंशतिस्त्रिषु ॥ ७९ ॥
3.9.79 · p. 142
अनुष्टुप्
भावो मनोविकारः स्यादनुभावोऽस्य सूचकः ।विभावो हेतवस्तस्य भावस्य हृदि वर्त्स्यतः ॥ ८० ॥
3.9.80 · p. 142
अनुष्टुप्
स्थायिसंचारिभेदेन द्विधा भावो व्यवस्थितः ।स्वेदो घर्मो निदाघः स्यात् कालिका तु विवर्णता ॥ ८१ ॥
3.9.81 · p. 142
अनुष्टुप्
रोमोद्गमो रोमहर्षो रोमांचः कण्टकोऽपि च ।रोमांक उल्लसनकमप्युल्बणकमित्यपि ॥ ८२ ॥
3.9.82 · p. 142
अनुष्टुप्
स्मितं त्वदृष्टदशने हासो वक्रोष्ठिका न ना ।रुचिः स्त्री हसितं दृष्टदन्ते विहसितं श्रुते ॥ ८३ ॥
3.9.83 · p. 142
अनुष्टुप्
सोत्प्राशे त्वाच्छुरितकं तथोपहसितं भवेत् ।निकुंचितशिरोगात्रमट्टहासो महाहसे ॥ ८४ ॥
3.9.84 · p. 142
अनुष्टुप्
अतिहासस्त्वनुस्यूतोऽपहासोऽकारणात् कृते ।स्वरभेदस्तु कल्कत्वं स्वरकंपस्तु वेपथुः ॥ ८५ ॥
3.9.85 · p. 143
अनुष्टुप्
आकारगोपनायामपटीकाप्यवकटापि स्त्री ।न पुमानवहित्था स्यादक्ली गृहजालिकाप्यस्याम् ॥ ८६ ॥
3.9.86 · p. 143
metre not recognised
क्रन्दितं रुदितं क्रुष्टं लोतोऽश्रु नयनोदकम् ।अस्रु रोदनमास्त्रं च क्रीडा खेला च कूर्दनम् ॥ ८७ ॥
3.9.87 · p. 143
अनुष्टुप्
न स्त्री केलिः परीहामः क्रीडा लीला च नर्म च ।जृंभणं तु त्रयी जृंभा मुखभेदस्तु जृंभिका ॥ ८८ ॥
3.9.88 · p. 143
अनुष्टुप्
एजनं वेपथुः कंपः प्रलयोऽस्पन्दनस्थितिः ।आटोपावेगसंरंभसंभ्रमास्तु त्वरा त्वरी ॥ ८९ ॥
3.9.89 · p. 143
अनुष्टुप्
असौम्येऽक्षण्यदृष्टिः स्यादवलोकस्त्वधः कृतः ।उन्मीलनं स्यादुन्मेषो निमिषस्तु निमीलनम् ॥ ९० ॥
3.9.90 · p. 143
अनुष्टुप्
स्फुरितं स्पन्दितमथ भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् ।भ्रकुटिर्भृकुटिः सारी काली तीरतरंगिका ॥ ९१ ॥
3.9.91 · p. 143
अनुष्टुप्
चतुरं त्वल्पा भ्रुकुटी रेचितं त्वेकया भ्रुवा ।चेष्टाः शृंगारजाः स्त्रीणां हावा लीलादयो दश ॥ ९२ ॥
3.9.92 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्पा (wrong syllable)
वल्लभानुकृतिर्लीला विलासः श्लिष्टविक्रिया ।विच्छित्तिर्वस्त्रमाल्यादेर्न्यासोऽनास्थोपशोभितः ॥ ९३ ॥
3.9.93 · p. 143
अनुष्टुप्
सकृत्सुश्लिष्टरुदितस्मितादि किलिकिंचितम् ।बिब्वोकोऽहंकृतेनैव प्राप्तेऽभीष्टेऽप्यनादरः ॥ ९४ ॥
3.9.94 · p. 143
अनुष्टुप्
विकृतं तूचितस्यापि लज्जादिभिरभाषणम् ।मोट्टायितं वल्लभस्य चिन्ता कुट्टमितं पुनः ॥ ९५ ॥
3.9.95 · p. 143
अनुष्टुप्
स्तनोष्ठादेर्दृढस्पर्शात् (दुःखवत्) सुखसंभ्रमः ।विभ्रमो दृग्विपर्यासो ललितं कोमलक्रमः ॥ ९६ ॥
3.9.96 · p. 143
अनुष्टुप्metre not read in every line
सत्त्वाद्भावस्ततो हावो लीला हावात्समुत्थिता ।अंगहारोंऽगविक्षेपो नानाकरणसंहतिः ॥ ९७ ॥
3.9.97 · p. 143
अनुष्टुप्
करणान्यंगचेष्टाः स्युर्हरणं करणं समे ।व्यंजकोऽभिनयो यस्तु सूच्योऽर्थोऽभिनयस्स च ॥ ९८ ॥
3.9.98 · p. 144
अनुष्टुप्
भूषणाद्यैर्गिरांगेन सत्त्वेनाभिनयाः कृताः ।त्रिषु क्रमात्स्युराहार्यवाचिकांगिकसात्त्विकाः ॥ ९९ ॥
3.9.99 · p. 144
अनुष्टुप्
नाटकं नाटिका भाणो वीथिः प्रहसनं डिमः ।ईहामृगः प्रकरणमंकः समवकारकः ॥ १०० ॥
3.9.100 · p. 144
अनुष्टुप्
व्यायोगश्चेति रूपाणि नाट्यस्यैता विकल्पनाः ।भारती सात्त्वती चैवं कैशिक्यारभटीति च ॥ १०१ ॥
3.9.101 · p. 144
अनुष्टुप्
चतस्रो वृत्तयो भाषाः संस्कृताद्या विकल्पिताः ।भारती संस्कृता वाणी शेषाश्चेष्टा इति क्वचित् ॥ १०२ ॥
3.9.102 · p. 144
अनुष्टुप्
अथ नाट्योक्तयो राजा देवो भट्टारकोऽपि च ।महाराजश्च राज्ञी तु स्वामिनी महिषी तु चेत् ॥ १०३ ॥
3.9.103 · p. 144
अनुष्टुप्
देवी स्याद्भट्टिनी त्वन्या गणिका पुनरज्जुका ।भट्टारिका राजमाता तत्पुत्री भर्तृदारिका ॥ १०४ ॥
3.9.104 · p. 144
अनुष्टुप्
तनयस्त्वस्य गोस्वामी (स्वामी) चाप्यथ राष्ट्रियः ।स्यालोऽस्य युवराजस्तु कुमारो भर्त्तृदारकः ॥ १०५ ॥
3.9.105 · p. 144
अनुष्टुप्metre not read in every line
पतिस्त्वार्य आर्यपुत्र आर्यौ मारिषमार्षकौ ।आबुकस्तु पितांबा तु माता ज्येष्ठा स्वसौप्तिका ॥ १०६ ॥
3.9.106 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्य (wrong syllable)
बला बुसा कनिष्ठा स्यादावुत्तो भगिनीपतिः ।बाला वासूर्भदन्ताः स्युः शाक्यक्षपणकादयः ॥ १०७ ॥
3.9.107 · p. 144
अनुष्टुप्
आर्यभ्राता क्षुल्लतातो देवरस्त्वार्यपुत्रकः ।हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १०८ ॥
3.9.108 · p. 144
अनुष्टुप्
अब्रह्मण्यमवद्यं स्यान्निष्ठा निर्वहणं समे ।गीतं गेयं च गानं च यत्तु तन्त्रीसमुद्भवम् ॥ १०९ ॥
3.9.109 · p. 144
अनुष्टुप्
तन्निर्गीतं बहिर्गीतं गान्धर्वं दिव्यमैश्वरम् ।सप्त स्वरास्त्रयो ग्रामा मूर्छना एकविंशतिः ॥ ११० ॥
3.9.110 · p. 145
अनुष्टुप्
तानान्येकोनपंचाशदित्येष स्वरविस्तरः ।स्थानान्युरः शिरः कण्ठः श्रावकः कण्ठजो गुणः ॥ १११ ॥
3.9.111 · p. 145
अनुष्टुप्
यो दूराच्छ्रावयत्यन्ये त्वन्वर्था मधुरादयः ।काकीत्याद्याः कण्ठदोषास्तत्र काकी नृलिंगकः ॥ ११२ ॥
3.9.112 · p. 145
अनुष्टुप्
अगंभीरः स्वरोऽथ स्यात्तंबिकी घ्राणनिर्गतिः ।सन्दष्टो भेदसम्मिश्रः कफिलो घर्घरः कफात् ॥ ११३ ॥
3.9.113 · p. 145
अनुष्टुप्
काकली तु कले सूक्ष्मे रागा गीतेर्विधाः पृथक ।वादित्रं वादनं वाद्यमातोद्यं तच्चतुर्विधम् ॥ ११४ ॥
3.9.114 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ततं वीणादिकं वाद्यं तालाद्यं विततं घनम् ।वंशादिकं नु सुषिरमानद्धं मुरजादिकम् ॥ ११५ ॥
3.9.115 · p. 145
अनुष्टुप्
घनं चाथाद्यवाद्ये द्वे विततं सहकीर्तने ।विपञ्ची वल्लकी वीणा घोषवत्यनुवादिनी ॥ ११६ ॥
3.9.116 · p. 145
अनुष्टुप्
स्यात्कण्ठकूणिका चाथ स्याच्चित्रा परिवादिनी ।तन्त्र्यश्चेत्सप्त ताश्चेत्स्युश्चतुर्दश चतुर्दशी ॥ ११७ ॥
3.9.117 · p. 145
अनुष्टुप्
एकादश्येकादश चेदेवं वीणा त्रयोदशी ।वीणा स्थाणोरनालंबी गणानां तु प्रभावती ॥ ११८ ॥
3.9.118 · p. 145
अनुष्टुप्
विश्वावसोस्तु बृहती तुंबुरोस्तु कलावती ।महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ ११९ ॥
3.9.119 · p. 145
अनुष्टुप्
कोलंबकस्तु कायोऽस्याः ककुभस्तु प्रसेवकः ।वीणावंशशलाका तु कणिका कूणिका च सा ॥ १२० ॥
3.9.120 · p. 145
अनुष्टुप्