वदर
vadaraपुं · masc.In 2 kośas: 4 synonym verses.
उद्दालकः श्यामलः स्यात्कलिङ्गः शङ्खिनीफलः ।रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
भद्रा स्यात् सर्वतो भद्रा काश्मरी कश्मरीति च ।अथ द्वयोस्तु कर्कन्धुः कर्कन्धूर्वदरोऽपि च ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कुवलं फेणिलं कोलं सौविरं वदरं तथा ।स्यात् पिञ्छलं स्वादुफलं फेणिलं वदरीफले ॥
अनुष्टुप्
genderक्लीneut.
अथ घोन्टा गोपघोन्टा वदरो वदरञ्च तत् ।वदरीसदृशे सूक्ष्मफले वृक्षे चतुष्टयम् ॥
अनुष्टुप्
genderपुंक्लीm. n.