श्यामल
śyāmalaवि · adj.In 16 kośas: 18 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
असितं शिति कृष्णं च कालं नीलं च मेचकम् ।श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
अनुष्टुप्
genderविadj.
चलपत्रः पिप्पले स्याच्छ्रीवृक्षः श्यामलोऽपि च ।सप्तपर्णे विशालत्वक् शारदः शर्वरीमुखः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः ।मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
उद्दालकः श्यामलः स्यात्कलिङ्गः शङ्खिनीफलः ।रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
पितृप्रियो भृङ्गराजोऽङ्गारकः केशवर्द्धनः ।अन्यो नीलो नीलपुष्पः श्यामलश्चाथ लोमशः ॥ ५०७ ॥
अनुष्टुप्
genderपुंmasc.
हरिणः पाण्डुरः पाण्डुः पाण्डरश्चाथ धूसरः ।ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपि च ॥ १६२ ॥
अनुष्टुप्
genderविadj.
पालाशो हरित-हरित्-पलाश-पीत-नीलाः स्युः स च हरितालसंनिभोऽपि ।श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाःनीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
genderविadj.
मङ्गल्यः केशवावासः श्यामलो द्विरदाशनः ।गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
तत्कौमोदक्यविकला तत्खड्गो मकराननः ।तस्य शार्ङ्गं गुणनिधिस्तद्दूताः श्यामलाः स्मृताः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
श्रीवृक्षः श्यामलोऽश्वत्थः प्लक्षश्चलदलोऽङ्गुलः ।उदुम्बरः प्राणिफलो मशकी हेमदुग्धकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।कालः श्यामः सितिः कृष्णः श्यामलो मेचकोऽसितः ॥ ८२ ॥
अनुष्टुप्
genderविadj.
कृष्णः कालस्तथा नीलः श्यामश्च श्यामलोऽसितः ।शितिश्च मेचको रामो नव नामानि सन्ति वै ॥ २५३७ ॥
अनुष्टुप्
genderपुंmasc.
य ईषद्धवलो वर्णः कीर्तितः स च धूसरः ।कृष्णो नीलः शितिः कालः श्यामल-श्याम-मेचकाः ॥
अनुष्टुप्
genderपुंmasc.
पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ ।श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥ १८ ॥
metre not recognised
genderविadj.
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
गीतिः
genderविadj.
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
अनुष्टुप्
genderविadj.
देवलो नारदे देवधनभोक्तरि धार्मिके ।शिलान्तरे ना कृकलासकेऽपिस्याद्धेमलः काञ्चनकारके च ।स्याच्छ्यामलोऽच्छेऽप्यसिते परस्मिन्स्यात्कोमलं वारिणि वा मृदौ च ॥ ३२ ॥
अनुष्टुप्two metres in one verse
doubtful
श्यामलोऽश्वत्थवृक्षे ना कार्ष्ण्ये च त्रि तु तद्वति ।श्यामिका मृगभेदे स्त्री श्यामला षोडशाङ्गुला ॥ १८१३ ॥
अनुष्टुप्
श्यामल as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मेचकमुञ्जे च त्रि तु मृदुलत्वचि मेचकवाक् तु ना । कृष्णश्यामलयोर्ज्ञेयो गुणमात्रे त्रिषु त्वयम् ॥ १४४५ ॥ Nānārthārṇavasaṃkṣepa 4.1445