All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · वनौषधिवर्गप्रकाशः (1/3)
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां शैलवर्गप्रकाशः ॥
अरण्यमटवी दावो दवो गहनकाननम् ।अटविर्झाटगुहिनवनं विपिनभीरुकम् ।अरण्यानी महारण्यं गृहारामास्तु निष्कुटाः ॥
3.4.1 · p. 57
अनुष्टुप्
भवेदाक्रीड उद्यानं राजसाधारणं वनम् ।अन्तःपुरोचितं यत्तु तद्भवेत् प्रमदावनम् ॥
3.4.3 · p. 57
अनुष्टुप्
ज्ञेयं तदेव प्रमदवनं लीलोचितन्तु यत् ।पंक्तिः श्रेणी च बिञ्जोली वीथ्यालि पालिरावलिः ॥
3.4.4 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
आली पाल्यावली श्रेणिः वीथिः स्याद्वीथिकापि च ।राजी राजिस्तथा रेखा लेखा निच्छिद्रपंक्तिषु ॥
3.4.5 · p. 57
अनुष्टुप्
पूर्वकं सान्तराले स्यादित्याह मधुमाधवः ॥
3.4.6 · p. 57
अथ वन्या वनव्यूहे वान्या च कथिता बुधैः ।कडम्बश्च कलम्बः स्यादङ्कूरोऽङ्कुर एव च ॥
3.4.7 · p. 57
अनुष्टुप्
वृक्षः शाखी द्रुमो गच्छः पलाशी विटपी तरुः ।महीरुहो विष्टरः स्याद् महीरुट् पादपः कुचिः ॥
3.4.8 · p. 57
अनुष्टुप्
स्थिरः कारस्करः सालः नगोऽगः स्यादनोकहः ।अगमो द्रुः कुचारुश्च स्यात् कुचोरुक्ष इत्यपि ॥
3.4.9 · p. 57
अनुष्टुप्
पुष्पात् फलयुते वृक्षे वानस्पत्य उदाहृतः ।पुष्पं विना फलयुतो निर्घटः स्याद्वनस्पतिः ॥
3.4.10 · p. 57
अनुष्टुप्
या भवेत् फलपाकान्ता सेयमोषधिरोषधी ।वृक्षे त्वनिष्फले वन्यः फलेग्रहिः फलग्रहिः ॥
3.4.11 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
अवकेश्यफलो बन्ध्यस्त्रयं निष्फलभूरुहे ।फलयुक्ते तु वृक्षे स्यात् फलवान् फलिनः फली ॥
3.4.12 · p. 57
अनुष्टुप्
फुल्ल उत्फुल्लसंफुल्लप्रफुल्लप्रस्फुटस्फुटाः ।व्याकोशविकचस्मेर-प्रकाशोन्मुद्रसंस्फुटाः ॥
3.4.13 · p. 57
अनुष्टुप्
स्फुटितस्मितविकाशविकस्वरमुखा अपि ।उक्ता विकसिते सद्भिः स्युरवन्ध्यादयस्त्रिषु ॥
3.4.14 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
अस्त्री स्थानुः ध्रुवः शङ्कुश्छिन्नशाखे महीरुहे ।क्षुपच्छापौ निगदितौ ह्रस्वशाखाशिके तरो ॥अविद्यमानशाखे तु बहुपत्रे महीरुहे ।अप्रकाण्डे झिण्टिकादौ स्तम्बगुल्मौ समीरितौ ॥
3.4.15 · p. 58
अनुष्टुप्
वल्लिर्वल्ली च व्रततिवेल्ली स्यात् प्रतति लता ।शाखादिरहितायान्तु गुडुच्यादौ प्रकाशिता ॥
3.4.16 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)
शाखापत्रसमायुक्तलतायां स्यात् प्रतानिनी ।उलपो गुल्मिनी वीरुद् वीरुधा विरुदित्यपि ॥
3.4.17 · p. 58
अनुष्टुप्
वृक्षादिदैर्घ्य उच्छ्राय उत्सेध उच्छ्रयोऽपि च ।स्कन्धः काण्डः प्रकाण्डोऽस्त्री मूलाच्छाखावधेस्तरोः ॥
3.4.18 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
शाखायास्तु लताशाखे शीकडाख्ये शिफाजटे ।अथ शाखा स्कन्धशाखा मुख्यशाखा [च] भूरुहा ॥
3.4.19 · p. 58
अनुष्टुप्
अग्रशिरः शिरश्चेति शिखरं पुंनपुंसकम् ।मूलं स्कन्धः त्वङ्घ्रिरङ्घि ब्रध्नः स्याद्वुध्न इत्यपि ॥
3.4.20 · p. 58
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
सारो मज्जा च मज्जा स्त्री वृक्षादेः सारभागके ।त्वक् स्त्री त्वचा त्वचं चोचं वल्कं वल्कलचोलकम् ॥
3.4.21 · p. 58
अनुष्टुप्
शल्कं स्यात् च्छल्लकं च्छल्लि शूल्ली चोचकमित्यपि ।काष्ठं दारु समित् स्त्री स्यात् एधः एधः समिन्धनम् ॥
3.4.22 · p. 58
अनुष्टुप्
इध्ममिन्धनमेतस्मिन् किलिञ्जमपि सूक्ष्मके ।निर्गूटो निष्कुहोपि स्यात् कोटरं कोटरोऽपि च ॥
3.4.23 · p. 58
अनुष्टुप्
मञ्जरिर्वल्लरिर्मञ्जिः स्त्रियो वल्लरमञ्जरम् ।पत्रसूचिर्द्रुमनखो बङ्किलः कण्टकोऽपि च ॥
3.4.24 · p. 58
अनुष्टुप्
पत्रं पात्रं दलं पर्णं पलाशञ्च च्छदः पुमान् ।च्छादनं च्छदनं बर्हं बर्हणञ्चापि पत्रकम् ॥
3.4.25 · p. 58
अनुष्टुप्
पल्लवोऽस्त्री प्रवालं स्यात् हलं(?) किसलमित्यपि ।किशलं स्यात् किसलयं भवेत् किशलयं तथा ॥
3.4.26 · p. 58
अनुष्टुप्
अथ शस्यञ्च सस्यञ्च वृक्षादीनां फले द्वयम् ।तथा वोंट इति ख्याते वृन्तं प्रसवबन्धनम् ॥
3.4.28 · p. 59
अनुष्टुप्
अम आमस्त्वपक्वेऽस्मिन् शलाटुः स्यात् फले त्रिषु ।अथ वानञ्च फले शुष्के त्रिषु द्वयम् ॥
3.4.29 · p. 59
अनुष्टुप्metre not read in every line
जालिका कोषिका जालं जालकं क्षारकोऽपि च ।कलिः कली च कलिका कोरकोऽङ्कुरितोन्मुखम् ॥
3.4.30 · p. 59
अनुष्टुप्
स्तवको गुच्छको गुत्सो गुच्छकं गुच्छ इत्यपि ।गुलुच्छः गुञ्जसख्येप(?) गुलुञ्च्छश्च गुलुञ्च्छकः ॥
3.4.31 · p. 59
अनुष्टुप्
पुष्पं प्रसूनं सूनञ्च प्रसवः कुसुमं सुमम् ।स्त्रियः सुमनसश्चापि सुमनश्च नपुंसकम् ॥
3.4.33 · p. 59
अनुष्टुप्
पुष्परसो मरन्दः स्यान्मकरन्दो मरन्दकः ।पुष्परेणुः परागश्च सुमनो रज इत्यपि ॥
3.4.34 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
क्लीबन्तु प्रसवे सर्वं हरितक्यादयः स्त्रियाम् ।आश्वत्थं वैनवं प्लाक्षं नैयग्रोधं तथैङ्गुदम् ॥
3.4.35 · p. 59
अनुष्टुप्
वार्हतञ्च फलेऽश्वत्थप्रभृतीनां महीरुहाम् ।जम्बूफले तु जम्बूः स्त्री जम्बुजाम्बरमित्यपि ॥
3.4.36 · p. 59
अनुष्टुप्
जातिप्रभृतयः पुष्फे स्वलिङ्गा ब्रीहयः फले ।अथ पुष्पे फले मूले विदार्थाद्याः स्वलिङ्गकाः ॥
3.4.37 · p. 59
अनुष्टुप्
पाटलं पाटला चेति पाटला कुसुमादिके ।बोधिः बोधिद्रुमोऽश्वत्थः पिप्वलः केशवालयः ॥
3.4.38 · p. 59
अनुष्टुप्
वदरङ्गश्चलदलश्चैत्रद्रुः कुञ्जराशनः ।यक्षोडुम्बुरकं नाम अश्वत्थसम्भवे फले ।कपित्थः स्यात् पुष्पफलो ग्राही दधिफलोऽपि च ॥
3.4.39 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्थ (wrong syllable)
दधित्थो मन्मथो दन्तशठोऽपि स्यात् कपित्थकः ।हेमदुग्धी यज्ञफलो यज्ञाङ्गो हेमदुग्धकः ॥
3.4.40 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
उडुम्बरो जतुफलो यज्ञोदुम्बर इत्यपि ।काञ्चनालः कोविदारः कुद्दालो युगपत्रकः ॥
3.4.41 · p. 60
अनुष्टुप्
विदलः स्याच्चमरिको रक्तकाञ्चन ईरितः ।सप्तपर्णः शारदः स्यात् शारदी विषमच्छदः ॥
3.4.42 · p. 60
अनुष्टुप्
देववृक्षो विशालत्वक् दानगन्धिः शिरोरुजा ।ग्रहनाशश्छातिपणी गृहाशीर्ग्रहनाशनः ॥
3.4.43 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्छा (wrong syllable)
आरग्वधो व्याधिघातः कृतमालः सुवर्णकः ।आरग्वधो(?) राजवृक्षः स्याद्रेवतश्चतुरङ्गलः ॥
3.4.44 · p. 60
metre not recognisednearly अनुष्टुप्
सुवर्णोऽपि च शम्याक आरेवतः शलालुकः ।जम्भीर जम्भ जम्भीर जम्भलादन्तहर्षणः ॥
3.4.45 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
गम्भीरः स्याद्दन्तशठो जम्विरो दन्तकर्षणः ।कुचिला इति विख्याते कतकोऽम्वुप्रसादनम् ॥
3.4.46 · p. 60
अनुष्टुप्
वरुणस्तिक्तशाकः स्यादश्मरीघ्नः कुमारकः ।वरणः सेतुकः सेतु वराणः शिखिमण्डनः ॥
3.4.47 · p. 60
अनुष्टुप्
स्यात् पाण्डुनागः पुरुषस्तुङ्गस्तुङ्गक इत्यपि ॥
3.4.49 · p. 60
मन्दारोऽपि च मन्दारुर्मन्दरः पारिजातकः ।पारिजातो निम्बतरुः पारिभद्रश्च मन्दटः ॥
3.4.50 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
तिनिशः स्यन्दनो नेमिश्चित्रकृत् चातिमुक्तकः ।स्यात् स्यन्दनक्रमो नेमी रथद्रुश्च तिनाशकः ॥
3.4.51 · p. 60
अनुष्टुप्
मधूको मधुकोऽपि स्यात् मधुपुष्पो मधुद्रुमः ।वानप्रस्थो मधुष्ठीलो गुडपुष्पो मधुस्तथा ॥
3.4.53 · p. 60
अनुष्टुप्
स्यान्मधूके तु जलजे गिरिजेऽपि मधूलकः ।पीलुर्गुट्टफलः स्रंसी पीलूः पीलुकोऽपि च ॥
3.4.54 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आखोटः कर्परालः स्यादास्फोटोऽक्षोड इत्यपि ।कन्दरालः कन्धरालः पीलौ पर्वतसम्भवे ॥
3.4.55 · p. 61
अनुष्टुप्
वेतसः शीत-वानीर-वञ्जुला विदुलो रथः ।अभ्रपुष्पो गन्धपुष्पो रथाभ्रो वेतसीत्यपि ॥परिव्याधश्च विदुलो नादेयी जलवेतसे ।शोभाञ्जनः शिग्रूतीक्ष्नौ गन्धगन्धकमोचकाः ॥
3.4.57 · p. 61
अनुष्टुप्
काक्षीवकः स्यादक्षीवः आक्षीवश्च श्रुभाञ्जनः ।सौभाञ्जनः स्यात् स्त्रीचित्तहारी द्रविणनाशनः ॥
3.4.58 · p. 61
अनुष्टुप्
रक्तशोभाञ्जने तुल्यौ मधुशिग्रूमधुद्रवौ ।अरिष्टः फेनिलो रिष्टोऽरिष्टको रिष्टकोऽपि च ॥
3.4.59 · p. 61
अनुष्टुप्
विल्वे मालूरशाण्डिल्यशौलूषाः श्रीफलोऽपि च ।महाकपित्थः प्राचीनपनसो गोहरीतकी ॥
3.4.60 · p. 61
अनुष्टुप्
पर्कटिः पर्कटीः प्लक्षः प्लाक्षोऽपि च जटिर्जटी ॥
3.4.61 · p. 61
वटन्यग्रोध-बहुपादवृक्षनाथयमप्रियाः ।अथ लोध्रस्तिरीटः स्यात् तिल्वमार्जनगालवाः ॥
3.4.62 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आम्रो वसन्तदूतः स्यान्माकन्दः षट्पदातिथिः ।मधुदूतो वसन्तद्रुवल्व(?)चूतपिकप्रियाः ॥
3.4.64 · p. 61
अनुष्टुप्
रसालः स्त्रीप्रियश्चेति गन्धबन्धुर्बलिप्रियः ।सहकारः सहारोऽपि रसाले त्वतिसौरभे ॥
3.4.65 · p. 61
अनुष्टुप्
महाकालश्च किम्पाक उर्वटो बलिभुक्प्रियः ।गुग्गुलु गुग्गुलोऽपि स्यात् कौशिकश्च वरः पुरः ॥
3.4.66 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लु (wrong syllable)
राजादनं धनुपटौ धनुष्पटपियालकौ ।गम्भारी भद्रपर्णी स्यात् श्रीपर्णी मधुपर्णिका ॥
3.4.70 · p. 62
अनुष्टुप्
भद्रा स्यात् सर्वतो भद्रा काश्मरी कश्मरीति च ।अथ द्वयोस्तु कर्कन्धुः कर्कन्धूर्वदरोऽपि च ॥
3.4.71 · p. 62
अनुष्टुप्
कोला कोली च कुवली वदरी कोलिरित्यपि ।स्वादुफला गृध्रनखी पिच्छिला कुवलोऽपि च ॥
3.4.72 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 दु (wrong syllable)
कुवलं फेणिलं कोलं सौविरं वदरं तथा ।स्यात् पिञ्छलं स्वादुफलं फेणिलं वदरीफले ॥
3.4.73 · p. 62
अनुष्टुप्
अथ घोन्टा गोपघोन्टा वदरो वदरञ्च तत् ।वदरीसदृशे सूक्ष्मफले वृक्षे चतुष्टयम् ॥
3.4.74 · p. 62
अनुष्टुप्
वृतिंकरः स्रूवावृक्षः ग्रन्थिलः स्वादुकण्टकः ।व्याघ्रपात् कण्टीकारी च वैकङ्कत-विकङ्कतौ ॥
3.4.75 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्टी (wrong syllable)
नागरङ्गस्तु नागङ्गो नार्यङ्गो नागरोऽपि च ।ऐरावतो नागरकस्तथा चक्राधिवास्थषि ॥
3.4.76 · p. 62
अनुष्टुप्
भूमिजाम इतिख्याते नादेयीभूमिजम्बुका ।केचिन्नागरङ्गपर्याये द्वयमेतत् प्रचक्षते ॥
3.4.77 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कर्मीकरो धर्मलः स्यात् पिच्छिलत्वक् सुगन्धकः ।पिशाचद्रुः पीतफलः शाखोटः कर्कटच्छदः ॥
3.4.78 · p. 62
अनुष्टुप्
कालस्कन्धः स्फुर्जकः स्यात् स्फुर्जुकः शितिसारकः ।कन्दुस्तिन्दुस्तिन्दुकश्च तिन्दुकिस्तिन्दुकीत्यपि ॥
3.4.79 · p. 62
अनुष्टुप्
पाटलिः पाटली घण्टा घण्टापाटलिरित्यपि ।घण्टाको झाटलो झाटो गोलीटमोक्षमूष्ककाः ।तिलकं क्षुरकं श्रीमान् त्रयं तिलकभूरुहे ॥
3.4.80 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
झावुकः पिचुलो झावुर्झावूरपि निगद्यते ।काफलः कट्फलः कुम्भी कैटर्यः परुषोऽपि च ॥
3.4.81 · p. 63
अनुष्टुप्
श्रीपर्णिका कुमुदिका श्रीपर्णी कुमुदीत्यपि ॥
3.4.82 · p. 63
पट्टिलोध्रः पट्टिकाक्षः पट्टिलोध्रक इत्यपि ।ब्रह्मण्यो ब्रह्मदारु स्यात् क्रमुकस्तूलस्तूलकम् ॥
3.4.83 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 ल (wrong syllable)
त्रिषु भल्लातकी भल्ली वीरवृक्षोऽप्यरुष्करः ।अरुषेकाऽग्निमुखी चासौ हितो रक्षोघ्न इत्यपि ॥
3.4.85 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गर्दभाण्डो गन्धभाण्डः कपीतनसुपार्श्वकौ ।प्लक्षश्च कन्दरालश्च प्लाक्षश्च कन्दरालकः ॥
3.4.86 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
तिन्तिडी तिन्तिली चिञ्चा तिन्तिडिकाम्ब्लिकाम्लिका ।चुक्रुश्चुक्ता चुक्तिकाम्ला त्वम्ब्ला शुक्ता च शुक्तिका ॥
3.4.87 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 डि (wrong syllable)
चारित्र्यागुरुपत्रा च पिच्छिला यमदूतिका ।बन्धूकपुष्पप्रियकजीवकाः पीतशालकः ॥
3.4.88 · p. 63
अनुष्टुप्
पीतशालोऽर्जुनः सर्जः सर्जकोऽप्यशनोऽसनः ।सालः सार्जलता शङ्खः स्यात् काष्योप्यश्वकर्णकः ।शस्यशम्बर इत्येष सस्यसम्बर इत्यपि ॥
3.4.89 · p. 63
अनुष्टुप्
नदीसर्जो वीरतरुः कुकुभेन्द्रद्रुमार्जुनाः ।अध्यक्षस्तु फलाध्यक्षो राजादनवरादनम् ॥
3.4.90 · p. 63
अनुष्टुप्
क्षीरा च क्षीरिका क्षीरी क्षीरिवृक्षे निगद्यते ॥
3.4.91 · p. 63
इङ्गुदी तापसतरुर्जीवपुत्रकभूरुहे ।इङ्गुदी बृक्षभेदेऽपि क्वचित् केचित् प्रचक्षते ॥
3.4.92 · p. 64
अनुष्टुप्
भूर्जे मृदुच्छदश्चर्मी भुर्जपत्रमृदुत्वच्यौ ।स्थिरायुः पिच्छिला मोचा पूरणी शाल्मलिर्द्वयोः ॥
3.4.93 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्व (wrong syllable)
द्वारारोहा शाल्मलिनी शाल्मलोऽपि च कुत्रचित् ।पिच्छा तु शाल्मली वेष्टो निर्यासे शाल्मलीतरोः ॥
3.4.94 · p. 64
अनुष्टुप्
काशिमालाह्वये तरौ कूटशाल्मलिरोचनौ ।करञ्जकः स्यात् करजं करजो घृतपूर्णकः ॥
3.4.95 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त (wrong syllable)
चिरिविल्वो नक्तमालश्चिरविल्वः कुरञ्जकः ।पूतीकः पूतिकः पूतीकरज्ञः कलिकारकः ॥
3.4.96 · p. 64
अनुष्टुप्
अङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवन्नरी ।करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे ॥
3.4.98 · p. 64
अनुष्टुप्
अथ रोही रोहितको रौहितेयस्तु रोहितः ।रौहितकः प्लीहशत्रुः रौही दाडिमपुष्पकम् ॥
3.4.99 · p. 64
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable); pāda 3, syllable 3 त (wrong syllable)
खदिरो बालतनयः कुष्टकुद्दालपत्रकम् ।यूपद्रुमः कृष्णसारो गायत्री दन्तधावनः ।हरिमदोऽरिमेदो विट्खदिरेऽपि च ॥
3.4.100 · p. 64
अनुष्टुप्metre not read in every line
कदरः सोमवल्कः स्यात् खदिरे सोमवर्णके ।एरण्डोरुवूकौ व्याघ्रपुच्छो मण्डकडम्वकौ ॥
3.4.101 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वू (wrong syllable)
चञ्चुस्तु मण्ड-आमण्डः प्राचीनामलकोऽपि च ।उरुवुको हस्तिकर्णो वातारिवर्धमानकौ ॥
3.4.102 · p. 64
अनुष्टुप्metre not read in every line
पञ्चाङ्गुलश्चित्रकश्च चित्रो गन्धर्वहस्तकः ।शमीरोऽपि च शस्यार्कः द्वयं स्वल्पशमीतरौ ॥
3.4.103 · p. 64
अनुष्टुप्
शल्यः पिण्डीतकश्चापि शल्यकः करपाटकः ।देवदारु भद्रदारु पीतदारु च दारु च ॥
3.4.105 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable)
पूतिकाष्ठं द्रुकिलिमं सुराह्वः शक्रपादपः ।पूतिकं स्यादिन्द्रदारु पारिभद्रकभद्रकौ ॥
3.4.106 · p. 65
अनुष्टुप्
काचस्थाली कुवेराक्षी कृष्णवृन्ता फलेरुहा ।स्थापन्यमोघा मोघा च पाटला पाटलिर्द्वयोः ॥
3.4.107 · p. 65
अनुष्टुप्
स्यात् प्रियङ्गुः फली श्यामा गुन्द्रा गोबन्दनी लता ।विश्वक्सेना च करम्भा फलिनी महिलाह्वया ॥
3.4.108 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
प्रियकः स्याद्गन्धफला तथा गन्धफलीति च ।शोनको नटक-ट्वङ्ग-पत्रोर्णशोणढुण्डुकाः ॥
3.4.109 · p. 65
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable); pāda 4, syllable 3 र्ण (wrong syllable)
मण्डूकपर्णः श्योनाकः सुकनाकः कुटन्नटः ।ऋक्षो वटुर्दीर्घवृन्तो दीर्घवृन्तक इत्यपि ॥
3.4.110 · p. 65
अनुष्टुप्
त्रिषु च स्यादामलकी वयस्थाप्यमलामृताः ।कायस्था च तिष्यफला तिष्या रुद्रप्रिया च सा ॥
3.4.111 · p. 65
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
अक्षः कलिद्रुमः कक्षो भूतवासस्तुषोऽपि च ।भूतवासः कर्षफलः कर्षो विभीतकस्त्रिषु ॥
3.4.112 · p. 65
अनुष्टुप्metre not read in every line
हरीतकी शिवा पथ्या वयस्या पूतनाभयाः ।अव्यथा श्रेयसी शक्रपृष्ठा हैमवती सुधा ॥
3.4.113 · p. 65
अनुष्टुप्
कर्णिकारः परिव्याधः परीव्याधो द्रुमोत्पलः ।पद्मतुल्यपीतपुष्पे कर्णिकारे चतुष्टयम् ॥
3.4.115 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल्य (wrong syllable)
नकुचो लकुचोऽपि स्यान्निकुचो लिकुचो डहुः ।क्षुद्रोऽम्लपनसोऽपि स्यादम्लकश्च डहुश्च सः ॥
3.4.116 · p. 65
अनुष्टुप्
एतत् फलस्य सारो यस्तनृस्तं(?) परिकीर्तितम् ।इज्जलो हिज्जलोऽपि स्याद् भूदन्दो निचुलोऽम्बुजः ॥
3.4.118 · p. 65
अनुष्टुप्
मलपूर्मलयुफल्गुः फग्गुश्च जघनेफला ।काकोडुम्बुरिका चापि काकोडुम्बर एव च ॥
3.4.120 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 यु (wrong syllable)