कर्कन्धु
karkandhuस्त्री · fem.In 10 kośas: 11 synonym verses.
कर्कन्धुः कुवली कोलिर्बदर्यथ हलिप्रियः ।नीपः कदम्बः सालस्तु सर्जोरिष्टस्तु फेनिलः ॥ ११३८ ॥
अनुष्टुप्
genderपुंmasc.
करवीरो हयमारो मालूरः श्रीफलो भवेद्विल्वः ।करुणो जम्बीरः स्याद्बदरी कुवली च कर्कन्धुः ॥ १९४ ॥
आर्या
genderस्त्रीfem.
गम्भारी अपि कम्भारी काश्वर्यां काश्मरी भवेत् ।कर्कन्धुरपि कर्कन्धूर्बदरी बदरो भवेत् ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याद्द्वयोर्बदरी कोला कर्कन्धूरपि च स्त्रियाम् ।कर्कन्धुश्चापि कर्कान्धूर्न क्लीबे कुवली त्रिषु ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
मेधिर्गवेधुः कर्कन्धुस्तद्वज्जम्ब्वां सुदर्शनः ।रत्नरत्नी मुनिर्योनिर्हनुः पृश्न्यशनिर्मनुः ॥ २६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कुशिंशपा भस्मगर्भा कपिला भस्मपिङ्गला ।बदर्यां कुवली कोलिः कर्कन्धुः फलितच्छदा ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
करवीरो हयमारो बदर्यां कुवली स्मृता ।कर्कन्धुः कोलिरप्यत्र वेतसो वञ्जुलो रथः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
genderस्त्रीfem.
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
कोला कोली तथा कोलिः कुवली बदरी किल ।कर्कन्धुश्चापि कर्कन्धूश्चेति नामानि सन्ति वै ॥ २००४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
भद्रा स्यात् सर्वतो भद्रा काश्मरी कश्मरीति च ।अथ द्वयोस्तु कर्कन्धुः कर्कन्धूर्वदरोऽपि च ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
रथाभ्रपुष्पोऽभ्रपुष्पः, कौलौ तु बदरी भवेत् ।बदरिस्तथा कर्कन्धुः कर्कन्धूः कर्कुन्धुवत् ॥ १५१ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 क (wrong syllable)
genderपुंmasc.