कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अक्ष

akṣaपुं · masc.

In 22 kośas: 65 synonym verses, 15 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.486 · p. 22
पाशकः प्रासकोऽक्षश्च देवनस्तत्पणो ग्लहः ॥ ४८६ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.520 · p. 31
मृगयाक्षः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ७३८ ॥दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.886 · p. 35
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.7 · p. 37
सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1383 · p. 52
हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.92
नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ।अभया त्वव्यथा पथ्या कायस्था पूतनामृता ॥ ५९ ॥हरीतकी हैमवती चेतकी श्रेयसी शिवा ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.73
सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.149
ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.74
पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ।
अनुष्टुप्
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.388 · p. 45
पोगण्डो विकलाङ्गः स्याल्लोहलोऽव्यक्तवाग्भवेत् ।कितवः स्याद्द्यूतकारो द्यूतमक्षवती भवेत् ।अक्षो दुरोदरं प्रोक्तं सभिको द्यूतकारकः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.429 · p. 49
प्राड्विवाकोऽक्षदृक् स्थेयो न्यायोऽक्ष इति कथ्यते ।अन्तःपुरेष्वधिकृतः स्मृतोऽन्तर्वंशिको नरः ॥ ४२९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.535 · p. 61
आधिस्तु मानसी पीडा वाञ्छितोऽर्थो मनोरथः ।खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.618 · p. 69
हरीतक्यभया पथ्या धात्री चामलकी शिवा ।कलिरक्षो विभीतः स्यात्त्रितयं त्रिफला स्मृता ॥ ६१८ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.23 · p. 2
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.521 · p. 190
नाक्षो हंसपदं वर्णं विडालपदमित्यपि ।उदुम्बरं षोडशी स्यात् कवलग्रहकः पुनः ॥ ५२१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.181 · p. 268
उद्दालकः श्यामलः स्यात्कलिङ्गः शङ्खिनीफलः ।रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.99 · p. 416
अक्षं च नियतं चाथ भूतानि तनवः पुनः ।घोरा विकारा भूतानि विशेषा विग्रहा अपि ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.157 · p. 434
हृषीकं त्वक्षं विषयस्रोतः करणमिन्द्रियम् ।खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.23 · p. 1205
इन्द्रियमक्षं करणं विषयि स्रोतो हृषीक-देवे खम् ।स्युर्गोचरास्तु विषयास्तथेन्द्रियार्था अमी तु रूपाद्याः ॥ २३ ॥
गीतिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.22 · p. 129
वसूकं वसुकं चाथ बिडं पाक्यं च कृत्रिमम् ।सौवर्चलं हृद्यगन्धं रुचकं चाक्षमित्यपि ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 156
बिभीतकस्त्रिषु पुमानक्षस्तुषफलः कलिः ।संवर्तकः पिशाचद्रुर्मधुजीवो विभेदकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 156
भूतावासश्च शाखोठो भवेत्कर्षफलोऽपि सः ।एतस्य फलमक्षोऽथ पथ्याधात्रीबिभीतकैः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 250
करो बलिर्भागधेयी द्वयोर्धर्मादितः पुनः ।शौचाशौचपरिज्ञानममात्यानां मतोपधा ॥मायोपेक्षेन्द्रजालानि क्षुद्रोपाया अमी त्रयः ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.77 · p. 261
व्याप्नुवन्वाहनं सर्वं सर्वपत्रीण उच्यते ।धूर्वी-धुरौ च यानाग्रमक्षो धूस्तु दृढा यदि ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 292
कोलद्वयं तु कर्षोऽस्त्री स्यादक्षः पाणिमानिका ।तिन्दुकं स्यात्पाणितलं किंचित्पाणिः पिचुश्च सः ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.69 · p. 301
दूरोदरं च न स्त्री स्यात्पाशक-प्रासकौ पुनः ।आकर्ष-देवनाक्षाश्च तत्पणस्तु ग्लहो नरि ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः ।विंशतिरानवतेः स्त्री नपुंसके तालुहृदयकुड्यानि ।पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.81 · p. 46
कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा ।बिभीतके भूतवासो वासन्तोऽक्षो वहेटकः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.156 · p. 27
षट्कं कामो मदो मानो मोहोऽमर्षो रुषापि च ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 130 · p. 65
खमिन्द्रियं हृषीकं च श्रो(स्रो)तोऽक्षं करणं विदुः ।पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.68 · p. 60
वयःस्थामलकी धात्रीफलं श्रीफलसंज्ञकम् ।हार्यः कलिद्रुमो भूतत्रासोऽक्षश्च बिभीतकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.275 · p. 86
इन्द्रियं करणं खं तु हृषीकं श्रोतसा सह ।अक्षं विषयिसंज्ञं च रूपाद्यर्थनिबन्धनम् ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.358 · p. 146
द्यूतं मांसं परस्त्री च सुराचौर्यपणाङ्गनाः ।पापर्धिरथ वा राज्ञां मृगयाक्षाः स्त्रियः पुनः ॥ ३५८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.463 · p. 85
सुवर्चलाख्याकरजे रुचकं चाक्षमित्यपि ।एतस्मिन्नेव नीरे(ले?) तु तिलकं तिलमालकम् ॥ ४६३ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.527 · p. 93
स्वर्णादावाद्यमाषः स्यादाद्यमाषक इत्यपि ।स्यात्षोडशाद्यमाषादिपरीमितेऽक्ष इष्यते ॥ ५२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मि (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.20 · p. 21
संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् ।हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.65 · p. 40
पाशका देवना अक्षाः सारयोऽष्टपदं फलम् ।स्तेनः पाटच्चरो दस्युश्चौरस्तस्करमोषकौ ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.373 · p. 106
पाशकः प्रासकोऽक्षः स्याद् द्यूतस्थानं हि देवनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1206 · p. 188
मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्याऽर्थदूषणे ।दण्डपारुस्यं चेत्येतद् धेयं व्यसनसप्तकम् ॥ १२०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्यं (wrong syllable)
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1484 · p. 236
षोडशः माषकाणां तु कर्षः स्यादऽक्ष एव वा ।चतुःकर्षाः पलं ज्ञेयं पुनः कर्षचतुष्टयम् ॥ १४८४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1600 · p. 257
सौवर्चलेऽक्षं दुर्गन्धं रुचकञ्च शूलनाशनम् ।प्रोक्तं तु तिलकं नाम निर्गन्धं कृष्णवर्णकम् ॥ १६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2035 · p. 337
कर्षफलो कलिद्रुमो बिभीतको बिभेदकः ।भूतावासस्तुषोऽक्षश्चेति नामानि तुषस्य वै ॥ २०३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2514 · p. 407
हृषीकं करणं स्रोतोऽक्षं खं विषयीन्द्रियम् ।बुद्धीन्द्रियं स्पर्शनादि धीन्द्रियमपि कथ्यते ॥ २५१४ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 न्द्रि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.112 · p. 65
अक्षः कलिद्रुमः कक्षो भूतवासस्तुषोऽपि च ।भूतवासः कर्षफलः कर्षो विभीतकस्त्रिषु ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.270 · p. 129
अनः क्लीबे तु शकटं शकटोऽक्षः पुमानपि ।शकटे वृषवाह्ये तु गन्त्री स्त्री गन्त्रिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.87 · p. 143
पाक्यं विडं विटं विट् च कृतके लवणे भवेत् ।सौवर्चलाक्षरुचके लवणे सौछले द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.169 · p. 149
पञ्चकृष्णलको माषः माषकोऽपि च कुत्रचित् ।माषाः षोडशकर्षोऽस्त्री तत्रैवाक्षः पुमानपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.77 · p. 158
द्यूतोऽस्त्री कैतवञ्चाक्षवती पण-दुरोदरौ ।पणोऽक्षेषु ग्लहः पुंसि अक्षदेवनपाशकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.172 · p. 232
अक्षभया हरीतकी त्रिलिङ्गा स्याद्वयःस्थया ।कायस्थैतत्फलत्रय्यां त्रिफली त्रिफला फलम् ॥ १७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.287 · p. 39
शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी ।इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.465 · p. 61
पारिभद्रस्तु निम्बद्रुर्मन्दारः पारिजातकः ।अक्षस्तुषः कर्षफलः कलिद्रुर्विभीतकः स्यात् त्रिषु भूतवासे ।मधुद्रुमः स्वादुफलो मधूकः स्वादुप्रसूनश्च गुडप्रसूनः ॥ ४६५ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.926 · p. 116
द्वित्रिरुदीरितमाम्रेडितमथ शोकेन भीत्यादेः ।काकुः स्त्री ध्वनिविकृतिर्व्यवहारोऽक्षो विवादश्च ॥ ९२६ ॥
उपगीतिः
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1277 · p. 156
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥ १२७७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1315 · p. 160
चक्रं रथाङ्गमस्य प्रान्ते नेमिः स्त्रियां प्रधिः पुंसि ।अक्षस्तु चक्रधारकदारुणि रथमध्य एव रथनीडः ॥ १३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1455 · p. 176
सौवर्चलं तु रुचकं दुर्गलं शूलनाशकम् ।तत्रैवाक्षं च तार्क्ष्यं च तिलकं तत्र मेचके ॥ १४५५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1496 · p. 181
ते तु गौरस्त्रयस्ते तु षड्यवस्तच्चतुष्टयम् ।गुञ्जा ताः पञ्च माषस्ते षोडशोऽक्षः स कर्षकः ॥ १४९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1569 · p. 189
ग्लहोऽक्षेषु पणोऽक्षाः स्युर्देवनाः पातना इति ।शारयोऽप्यथ शारीणां परिणायः समानयः ॥ १५६९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1570 · p. 189
अक्षस्तु द्यूतभेदे स्यात् सभिका द्यूतकारकाः ।अष्टापदं शारिफलं प्राणिद्यूतं समाह्वयः ॥ १५७० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.11 · p. 104
मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.131 · p. 114
कस्तंभि युगमध्येऽस्त्री स्यादक्षश्चक्रधारणम् ।अक्षकीले त्वणिर्न क्ली ध्रुवः कीलोऽप्यनिर्न षण् ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.15 · p. 124
न्यायोऽक्षो व्यवहारोऽथ संप्रश्नः संप्रधारणम् ।समर्थनं च संस्था तु मर्यादा धारणा स्थितिः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.125 · p. 133
सौवर्चलं तु रुचकं दुर्गन्धं शूलनाशकम् ।अक्षं तार्क्ष्यं रुचिष्यं च तिलकं त्वत्र कृष्णके ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.60 · p. 141
समाधिश्च समंगश्च परिवी रंजनं च तत् ।पणो ग्लहो देवनस्तु पाशकोऽक्षोऽथ शारयः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.49 · p. 190
तृतीये ध्वानका शाणभागे माषास्तु षोडश ।सुवर्णोऽक्षः पिचुः पाणिः कर्षोऽस्त्री क्रोडबिंदुके ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.428
द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२२ ॥ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.852 · p. 97
आचारे नयनादौ द्यूतविशेषे तथा रथावयवे ।अक्षं विभीतकेऽपि प्रयुञ्जते पञ्चसु प्राज्ञाः ॥ ८५२ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास क्षश्लोकः Dharaṇikośa 33.3.5 · p. 233
अक्षान्वदन्ति शकटव्यवहारकर्षा-न्सौवर्चलामxकपाशकहस्तिपक्षान् ।अक्षो रथावयववाक् च बिभीतके स्या-दक्षाणि पण्डितजना विदुरिन्द्रियाणि ॥
वसन्ततिलकाmetre not read in every lineLatin letters: x
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.46 · p. 372
अक्षस्तु कर्षे शकटे च चक्रेकलिद्रुमे च व्यवहारके च ।आत्माभिविज्ञे नरि पाशके चस्पादिन्द्रियेऽन्त्ये रुचके च तुत्थे ॥ ४६ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.17 · p. 44
अक्षः पुमानामलके द्यूतभेदे विभीतके ।आधारे व्यवहारे च शकटे च वराटके ॥ १७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.18 · p. 44
रथादिचक्रे कर्षाख्यमानद्यूतशलाकयोः ।चतुश्शताङ्गुले मानविशेषे (थ?च) रथादिनः ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.19 · p. 44
चक्रधारककाष्ठेऽथ क्ली सौवर्चल इन्द्रिये ।अजयस्त्वाह नित्येऽपि तत्र स्याद्भेद्यलिङ्गकम् ॥ १९ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.4 · p. 161
अक्षो विभीतके तुत्थे रावणाङ्गजकर्षयोः ।रथाङ्गे शकटे जीवे पाशके च वराटके ॥ ४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.5 · p. 161
अक्षमिन्द्रिय आकाशे तथा सौवर्चले स्मृतम् ।अलिर्भृङ्गे सुरायां चाभ्रं घने गगनेऽभ्रके ॥ ५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र षद्विः Śivakoṣa 26.1.516 · p. 47
अक्षं सौवर्चले तुत्थे ना रुद्राक्षे विभीतके ।ऋक्षस्तु भल्लके दीर्घवृन्ते च कृतवेधने ॥ ५१६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.2 · p. 291
अक्षो रुद्राक्षजातान्धव्यवहारेषु पाशके ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.3 · p. 291
सर्पे विभीतके तार्क्ष्ये चक्रे कर्षे भवेत्पुमान् ।क्लीबे खौवर्चले तुत्थे इन्द्रियेऽपि निगद्यते ॥उषा स्त्री बाणकन्यायां कामिगुग्गुलयोः पुमान् ।ऊषा च रात्रिशेषे स्यादुषाऽव्ययमपीष्यते ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1863 · p. 227
निवृत्तौ याचने मोक्षे विषयव्यवहारयोः ।वस्तुन्यथाक्ष आधारे व्यवहारे कलिद्रुमे ॥ १८६३ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1864 · p. 227
द्यूतमेदे ग्लहे कर्षे शकटेऽप्यक्षमिन्द्रिये ।अट्टः पक्वौदने घातेऽतिशये क्षौमवेश्मनि ॥ १८६४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.2 · p. 230
अक्षो रथांग आधारे व्यवहारे विभीतके ।शकटे पाशके कर्षे द्यूतभेदेऽक्षमिन्द्रिये ॥ २ ॥
अनुष्टुप्

अक्ष as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् दुन्दुबिस्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । Amarakośa 3.3.259
  • हलायुधकोशः (अभिधानरत्नमाला) आकर्षद्यूताक्षसारिफलकास्त्रयोऽप्याकर्षसंज्ञकाः । संसर्गाभिभवाक्रोशेष्वभिषङ्गः प्रकीर्त्तितः ॥ ८४५ ॥ Abhidhānaratnamālā (Halāyudha) 5.845
  • कोषकल्पतरु शलाकाशल्ये शलाका स्मरसारिकायां शरे तथाक्षे खेचर?पञ्जरे च । स्यान्नर्तकीभ्यामपि लासिकायां ना चारणे पोटगले नटे च ॥ २६ ॥ Koṣakalpataru 6.1.26
  • कोषकल्पतरु देवनअक्षेषु ना मेहनमन्तिमे स्या- च्छिश्ने च मूत्रेप्यथ तेमनं स्यात् । घृतादिकव्यञ्जनवाचि षण्ढे स्त्रीचुल्लिकायां स्तिमितेऽन्यवत्स्यात् ॥ ४६ ॥ Koṣakalpataru 6.21.46
  • नानार्थार्णवसंक्षेप स्वक्षस्वक्षस्तु त्रिषु यस्याक्षशब्दार्थः शोभनोऽक्षि वा । तत्र तत्रापि च स्त्र्यर्थे स्वक्षा पूर्वे परत्र तु ॥ १४५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1457
  • नानार्थार्णवसंक्षेप सप्तकसप्तकस्तु पुमान् सङ्घे सप्तानां क्ली तु सप्तकम् । मृगयाक्षादिषु स्त्री तु सप्तकी काञ्चिदामनि ॥ १८८४ ॥ Nānārthārṇavasaṃkṣepa 4.1884
  • परमानन्दीयनाममाला गुणरज्जौ ज्याभीमयोरक्षेऽप्रधानेऽपि निरीक्ष्यते । वप्रे जीवान्तरे गोधा प्रत्यञ्चाघातवारणे ॥ १५५ ॥ Paramānandīyanāmamālā 5.9.155
  • शिवकोष कुशिकअथ किंशुकः पलाशे नन्दीवृक्षे च पीततैलायाम् । योषिति कुशिकस्त्वक्षे रक्ते सर्जे च दीर्घपत्रे च ॥ २२ ॥ Śivakoṣa 1.3.22
  • शिवकोष अमृतअमृतं त्वक्षदुग्धाम्बुसुधाकाकोलसर्पिषि ॥ १८७ ॥ Śivakoṣa 12.2.187
  • शिवकोष वासन्तवासन्ती प्रहसन्यां माधव्यां बालपुष्पायाम् । कुम्भ्यामथ वासन्तः श्रीमदशोकाक्षमुद्गचूतेषु ॥ १९६ ॥ Śivakoṣa 12.2.196
  • शिवकोष शालबालोऽस्त्रियामाचमने यूथीबालैलयोः स्त्रियाम् । भल्ली भल्लातके भल्लोऽरलौ शालोक्षिपीलुके ॥ ४४६ ॥ Śivakoṣa 23.1.446
  • शिवकोष तुषकाक्षी तुवरिकागृष्ट्योः घोषः कोशातकीभिदि । घोषा मिस्यां च कर्कोट्यां तुषो धान्यत्वगक्षयोः ॥ ५१७ ॥ Śivakoṣa 26.1.517
  • शब्दरत्नावली देवनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
  • त्रिकाण्डशेष देवनक्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः । दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥ Trikāṇḍaśeṣa 3.3.242
  • वैजयन्ती इन्द्रियरेतसीन्द्रियमक्षे च दर्शनेऽक्षणि चेक्षणम् । उद्यानं संग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ ४ ॥ Vaijayantī 7.3.4
  • वैजयन्ती उदुंबरआडंबरोऽस्त्री संरंभे पटहे गजगर्जिते । उदुंबरो द्रुदेहल्योर्ना क्ली हेमाक्षताम्रयोः ॥ ४ ॥ Vaijayantī 8.5.4