विमर्ष
vimarṣaपुं · masc.In 2 kośas: 1 synonym verse, 1 as a meaning of another word.
धर्मचर्च्चा पुंस्युपाधिर्वितर्क्कः पुनरुन्नयः ।विद्या ज्ञानं मतं मोक्षे विज्ञानं शिल्पशास्त्रयोः ॥मतस्य साधनं मत्यं भेद्यलिङ्गमुदीरयेत् ।परामर्षो विमर्षः स्याद्विचारोऽपि विचारणम् ॥संख्यानं च स्त्रियो गुञ्जा-चर्च्चा-संख्या-विचारणाः ।उत्प्रेक्षा स्त्री पुमानूहस्तर्क्कोऽध्याहार ऊहनम् ॥संवेदानुभवौ तस्मिन्नुपलम्भश्च भेदना ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
विमर्ष as a meaning in nānārtha verses
- शब्दरत्नावली किमुकिमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50