कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · धीवर्गः (1/2)

[34a] ॥ इति कालवर्गः ।

बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
1.5.1 · p. 52
मन्दाक्रान्ता
कुशाग्रीयातितीक्ष्णा सा मेधा स्याद्धारणावती ।तत्त्वाभ्यासभवा पण्डा प्रतिभा स्फूर्त्तिशालिनी ॥ २ ॥
1.5.2 · p. 53
अनुष्टुप्
धर्मचर्च्चा पुंस्युपाधिर्वितर्क्कः पुनरुन्नयः ।विद्या ज्ञानं मतं मोक्षे विज्ञानं शिल्पशास्त्रयोः ॥मतस्य साधनं मत्यं भेद्यलिङ्गमुदीरयेत् ।परामर्षो विमर्षः स्याद्विचारोऽपि विचारणम् ॥संख्यानं च स्त्रियो गुञ्जा-चर्च्चा-संख्या-विचारणाः ।उत्प्रेक्षा स्त्री पुमानूहस्तर्क्कोऽध्याहार ऊहनम् ॥संवेदानुभवौ तस्मिन्नुपलम्भश्च भेदना ॥ ४ ॥
1.5.4 · p. 53
अनुष्टुप्
उपज्ञा ज्ञानमाद्यं स्याद्वासना-भावने स्त्रियौ ।अनुभूताविस्मृतिः स्यात्संस्कारो नाथ निर्णयः ॥ ५ ॥
1.5.5 · p. 53
अनुष्टुप्
निश्चयो नरि निर्द्धारो नीकाशः संप्रधारणा ।ना[34b]द्ये समर्थनाऽथ स्यात्परभागो गुणावधिः ॥ ६ ॥
1.5.6 · p. 53
अनुष्टुप्metre not read in every line
विचिकित्सा द्वापरोऽस्त्री रेक-संदेह-संशयाः ।विकल्पो विशयः शङ्का वितर्क्को युतकं नयुक् ॥ ७ ॥
1.5.7 · p. 53
अनुष्टुप्
संशयालुः सांशयिकस्तथा संशयितान्यवत् ।विवेचनं विवेकोऽथ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ८ ॥
1.5.8 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सां (wrong syllable)
मिथ्यादृष्टिर्नास्तिकताऽथाऽविद्याऽहंमतिः स्त्रियाम् ।अज्ञानं चाथ ममता ममबुद्धिः सुतादिषु ॥ ९ ॥
1.5.9 · p. 53
अनुष्टुप्
वितण्डा पक्षहीना धीर्व्यापादो द्रोहचिन्तनम् ।विमतिः प्रतिकूला धीरनुकूला तु सम्मतिः ॥विमतित्वं तु वैमत्यं वैमतं च नपुंसके ।स्त्रियां विमतिता भावे पुमान्विमतिमा मतः ॥एवं पञ्चैव रूपाणि सम्मतेर्भाव ईरयेत् ।अङ्गीकारः संश्रवः स्यादस्तुंकारः प्रतिश्रवः ॥ १० ॥
1.5.10 · p. 54
अनुष्टुप्
आश्रवश्चाभ्युपगमोऽभ्युपायो नियमोऽपि सः ।संगरो ना प्रतिज्ञाऽऽगूः संवित्संधा-तुरः (गुवः?) स्त्रियः ॥ ११ ॥
1.5.11 · p. 54
अनुष्टुप्
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
1.5.11 · p. 54
स्रग्धराmetre not read in every line
दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ ।बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥
1.5.14 · p. 54
अनुष्टुप्
भावे विशारदत्वं स्याद्वैशारद्यं नपुंसके ।स्याद्विशारदिमा पुंसि स्याद्विशारदता स्त्रियाम् ॥त्रिषु पण्डितमानी स्यात्पण्डितंमन्य इत्यपि ।अन्तर्वाणिः शास्त्रवित्स न्यायवेत्ता तु तार्क्किकः ॥आन्वीक्षिकाऽक्षपादौ च भवेन्नैयायिकोऽपि सः ॥ १५ ॥
1.5.15 · p. 54
अनुष्टुप्
वैशेषिकः स्यादौलूक्यः कापिले सांख्यतात्त्विकौ ।यौगः पातञ्जलोऽथ स्याद्भाट्टो मीमांसकोऽपि च ॥ १६ ॥
1.5.16 · p. 54
अनुष्टुप्
वेदान्ती ब्रह्मवादी स्यात्पाणिनीयस्तु शाब्दिकः ।(अ?)ब्दकस्त्रैमुनश्चायं स्याद्वैयाकरणस्तथा ॥ १७ ॥
1.5.17 · p. 1205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैयाकरणरू[35b]पः स्यात्प्रशस्तः शाब्दिको हि यः ।पाणिनीयखसूचिस्तु यः पृष्टोऽप्रभुरुत्तरे ॥भवेच्छाब्दिकपाशोऽसौ निन्द्यः शाब्दिककश्च सः ।वार्त्तिको वृत्तिवित्प्रोक्त न्यासिको न्यासवित्तथा ॥पौराणिकः पुराणज्ञस्तद्वत्स्यादैतिहासिकः ॥ १८ ॥
1.5.18 · p. 1205
अनुष्टुप्metre not read in every line
एवं वासवदत्ताविद्भवेद्वासवदत्तिकः ।यावक्रीतिक एवं स्यान्माहावार्त्तिक इत्यपि ॥ १९ ॥
1.5.19 · p. 1205
अनुष्टुप्
तार्क्किकाद्यास्तदध्येतर्यपि धीमन्मुखास्त्रिषु ॥ २० ॥
1.5.20 · p. 1205
अष्टका पाणिनीयैव जानीयात्स्त्रीविशेषणे ।मेधायै हितमर्हं च मेध्यं त्रिषु समुन्नयेत् ॥ २१ ॥
1.5.21 · p. 1205
अनुष्टुप्
भावे पाण्डित्यमन्त्ये स्यात्तस्मिन्पण्डितिमा पुमान् ।मैधावकं तु मेधाविभावे प्रोक्तं नपुंसके ॥ २२ ॥
1.5.22 · p. 1205
अनुष्टुप्
कविः सरससंदर्भकरो वाणीप्रजापतिः ।परच्छायापहारी स भवेद्वर्णविलोडकः ॥ २३ ॥
1.5.23 · p. 1205
अनुष्टुप्
इन्द्रियमक्षं करणं विषयि स्रोतो हृषीक-देवे खम् ।स्युर्गोचरास्तु विषयास्तथेन्द्रियार्था अमी तु रूपाद्याः ॥ २३ ॥
1.5.23 · p. 1205
गीतिः
ऐन्द्रियकं वैषयिकं त्रि[36a]तये प्रत्यक्षमध्यक्षम् ।साक्षादव्ययमस्मिन्नतीन्द्रियं स्यात्परोक्षं च ॥ २४ ॥
1.5.24 · p. 1205
metre not recognised
चित्तं नेत्रं रसना श्रोत्रं त्वग्गन्धज्ञाधीन्द्रियं चैतत् ।पाणिः पादः पायुरुपस्थो वागिति कर्मेन्द्रियगण उक्तः ॥ २५ ॥
1.5.25 · p. 1205
metre not recognised
रूपे चाक्षुषमब्ज इत्यनुभवेर्वर्योपि(?) वर्णो स्त्रियांश्वेतादित्रिषु तद्युतेष्वथ सितः शुक्लोऽवदातः शुचिः ।श्येनः शुभ्र-वलक्ष-शुद्ध-धवलाः श्वेतश्च गौरोऽर्जुनःस्यादस्मिन्खरु-पाण्डरौ च विशदः शौक्लं तु भावेऽन्तिमे ॥ २६ ॥
1.5.26 · p. 56
शार्दूलविक्रीडितम्
शुक्लत्वमपि तत्र स्त्री शुक्लता शुक्लिमा पुमान् ।वर्णार्थेभ्यो विजानीयादेवंरूपं चतुष्टयम् ।सम्मता हरिण-पाण्डु-पाण्डुराःकेतकीकुसुमधूलिवर्णके ।धूसरो बकुलपुष्पसंनिभःस्यात्कपोतसदृशः कपोतकः ॥ २७ ॥
1.5.27 · p. 56
अनुष्टुप्two metres in one verse
पीत-पीतल-सितानुरञ्जनागौर एष कलरूक्य(?) ईरितः ।पिञ्जरो भवति पीतलोहितःसम्मतः स च कुसुम्भसंनिभः ॥ २९ ॥
1.5.29 · p. 56
रथोद्धता
पालाशो हरित-हरित्-पलाश-पीत-नीलाः स्युः स च हरितालसंनिभोऽपि ।श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाःनीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥
1.5.30 · p. 56
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
मयूरकण्ठसंनिभं वदन्ति मेचकं परेस कृष्णनीलवर्णवानुमाप्रसूनसंनिभः ॥ ३१ ॥
1.5.31 · p. 56
पञ्चचामरम्
लोहितो रोहितो रक्तो माञ्जिष्ठोऽसौ तु पाटलः ।श्वेतसंवलितो रक्तः शोणः कोकनदोपमः ॥ ३२ ॥
1.5.32 · p. 56
अनुष्टुप्
लोहितीयल्लोहितायमानश्च्व्यर्थे विशेष्यवत् ।लोहिनीयंल्लोहिनीयमानः स्याल्लोहिनीपदात् ॥ ३३ ॥
1.5.33 · p. 57
अनुष्टुप्
अरुणो बालसंध्याभो भवेदसितलोहितः ।श्यावस्तु कृष्णपीतः स्यात्कपिशोऽपि निगद्यते ॥ ३३ ॥
1.5.33 · p. 57
अनुष्टुप्
धूमल-धूम्रौ श्यामलके तृणवह्निरुचिर्भवति कडारः ।कपिवर्णसमो लोहितपीतः कपिलो गोभूषणनामायम् ॥ ३४ ॥
1.5.34 · p. 57
metre not recognised
हरित्पीतरक्तैर्युतः स्यात्पिशङ्गोभवेदेष गोरोचनातुल्यवर्णः ।कदुः कद्रु-बभ्रू हरिः पिङ्गलः स्यात्प्रदीपार्च्चिषा तुल्यवर्णश्च पिङ्गः ॥ ३५ ॥
1.5.35 · p. 57
भुजङ्गप्रयातम्
कडारः कपिलः पिङ्गः पिशङ्ग-कदु-कद्रवः ।बभ्रुर्हरिः[31] पिङ्गलश्च तुल्यार्था इति केचन ॥ ३६ ॥
1.5.36 · p. 57
अनुष्टुप्
चित्रल एतः शबलः कर्बुर-किर्मीर-कल्माषाः ।स्यात्सारङ्गश्चित्रः शार-करम्बौ तथा कबरः ॥ ३९ ॥
1.5.39 · p. 57
metre not recognised
श्येता श्येनी हरिणी हरिताकपिला तुलिता भवति पिशङ्गी ।एता त्वेनी शबली चित्रासा कल्माषी किल सारङ्गी ॥ ४० ॥
1.5.40 · p. 57
metre not recognised
काली स्यादसिताऽन्या तु कालानील्यौषधौ गवि ।ध्वंसवल्लोहितगुणयुक्ते लोहितको रुषा ॥ ४१ ॥
1.5.41 · p. 57
अनुष्टुप्
स्त्रियां लोहितका लोहिनिका चण्डी मुखच्छविः ।तथा लोहिनिका लोहितका शाटी हि लाक्षिकी ॥ ४२ ॥
1.5.42 · p. 57
अनुष्टुप्
अनित्यकालिमोपेते कालकं चितयाननम् (?) ।नील्यादिकालरक्तः स्यात्पटादिः कालकस्त्रिषु ॥ ४३ ॥
1.5.43 · p. 57
अनुष्टुप्
त्रिषु स्युस्तेन रक्तार्थे काषायी लाक्षिकी तथा ।स्याच्छाकली शाकलिकी नीली रौचनिकी भवेत् ॥ ४४ ॥
1.5.44 · p. 58
अनुष्टुप्
स्यात्कार्द्दमी कार्द्दमिकी हारिद्री पीतका तथा ।स्यान्माहारजनीत्येवं जानीयात्स्त्रीविशेषणे ॥ ४५ ॥
1.5.45 · p. 58
अनुष्टुप्
न स्त्री रसः पुंसि तु रासनः[37b] स्या-दास्वादसंज्ञोऽथ मनाक्तथान्ते ।स्फुटोऽस्फुटश्चानुरसः प्रदिष्टःषोढा मतोऽसौ मधुरादिभेदात् ॥ ४६ ॥
1.5.46 · p. 58
उपजातिःmetre not read in every line
स्वादुर्गुल्यो मधुरो मधु(धू)ल-कोमलवद्रसज्येष्ठः ।अम्लोम्ब्लो दन्तशठोऽक्षिभ्रुवकोचीच(?)पाचनाह्वः स्यात् ॥ ४७ ॥
1.5.47 · p. 58
उद्गीतिःmetre not read in every line
लवणः स्यात्सर्वरसः * * पटुरथास्य मृट् (?) ।कटूषण-कटोलाश्च मुखभेदी तु तिक्तकः ।तीक्ष्णः क्षारश्च सकटु लवणात्मक उच्यते ।तुबरस्तूबरश्चास्त्री कषायस्तद्वति त्रिषु ॥ ४९ ॥
1.5.49 · p. 58
अनुष्टुप्metre not read in every line
स्वादुंकृत्येत्येतदर्थं स्वादुंकारमिहाव्ययम् ।स्वादुंकृत्वाव्ययं स्वादुंकृत्या ह्न्ये(प्ये?)कार्थ ईरितम् ॥ ५० ॥
1.5.50 · p. 58
अनुष्टुप्
स्वादिमा ना स्वादुता स्त्री स्वादुत्वं तु नपुंसके ।मधुरत्वं च माधुर्यं भावे मधुरिमा नरि ॥ ५१ ॥
1.5.51 · p. 58
अनुष्टुप्
अव्ययं लवणंकारं क्त्वार्थे तद्वत्समुन्नयेत् ।लवणस्यंस्त्रिषु भवेल्लवणे लालसायुते ॥ ५२ ॥
1.5.52 · p. 58
अनुष्टुप्
लालसा लवणस्य स्याल्लवणस्या स्त्रियामियम् ।स्त्रीविशेष्ये तु लवणी यवागूरिति निर्दिशेत् ॥ ५३ ॥
1.5.53 · p. 58
अनुष्टुप्
स्वाद्वी स्वादुः[38a] कटुः कट्वी पटुः पट्वीति संग्रहः ।लावण्यं पाटवं क्लीबे पटिमा स्यान्नृलिङ्गकः ॥ ५४ ॥
1.5.54 · p. 58
अनुष्टुप्metre not read in every line
ब्राह्मी भाषा ब्राह्मणी गौर्गिरा गीर्-वाणी वाचा वाक्सरस्वत्यपीडा ।भारत्युक्ता शारदा शब्ददेवीभेद्याधीनं वाङ्मयं तद्विकारे ॥ ५५ ॥
1.5.55 · p. 59
शालिनी
वाचोयुक्तिः स्त्रियां सम्यग्गिरां गुम्फनमीरितम् ।व्याहारो लपितं वचोऽपि वचनं स्यादीरितं भाषितंस्त्री तूक्तिर्गदिताथ साऽऽगम * * सिद्धान्तराद्धान्तकौ ।शब्दस्तु श्रुतिशास्त्रसाधुरितरो म्लेच्छोऽपशब्दो भवेत्सोऽपभ्रंश उदीर्यतेऽयमभिधावृत्त्यार्थसूर्वाचकः ॥ ५६ ॥
1.5.56 · p. 59
अनुष्टुप्two metres in one verse
लाक्षणिको लक्षणया गमकोऽर्थः स्यादथ के * प्यार्याः ।आहुर्व्यञ्जकसंज्ञं व्यञ्जनया कथकमर्थस्य ॥ ५७ ॥
1.5.57 · p. 59
उपगीतिःmetre not read in every line
शब्दव्यापृतिरुक्ता वृत्तिः * * थ विग्रहः ।वृत्त्यर्थबोधकं वाक्यं वणु(?)पुल्लिङ्गं प्रकीर्तितम् ।पदमन्ते * सुप्तिङ्युक्तं तत्तु समर्थं रहिताकाङ्क्षम् ।वाक्यं तादृक्पदसंघातः * * * * * * * * * * ॥ ५८ ॥
1.5.58 · p. 59
metre not recognised
पदं प्रसिद्धं रूढं स्या[38b]द्योग्यं यौगिकमीरितम् ।शक्तं समर्थं क्लिष्टं तु बह्वर्थप्रतिपादकम् ॥ ५९ ॥
1.5.59 · p. 59
अनुष्टुप्metre not read in every line
महावाक्यं तत्त्वमसीत्यादि मोक्षैकसाधनम् ।अर्थोऽभिधेयः स त्रेधा वाच्यो वाचकबोधितः ॥ ५९ ॥
1.5.59 · p. 59
अनुष्टुप्
लक्ष्यो लक्षणया गम्यो व्यङ्ग्यो व्यञ्जनया स्फुटः ॥ ६० ॥
1.5.60 · p. 60
त्रिष्वार्थिकं तथार्थ्यं च भवेदर्थान्वितं हि यत् ।* * * * * * * * वर्णोऽस्त्र्यक्षरमन्तिमे ।अचः स्वरा व्यञ्जनं हल् वर्गाः स्पर्शास्तथोहितः ॥ ६१ ॥
1.5.61 · p. 60
अनुष्टुप्metre not read in every line
यणन्तःस्थः शलूष्मा स्यान्मातृका वर्णसंहतिः ।न(ञ)मः स्युरानुनासिक्या अथ ःकःपौ विसर्गयुक् ॥ ६२ ॥
1.5.62 · p. 60
अनुष्टुप्impossible sign sequence: सिक्या अथ ःकःपौ व
अयोगवाहा एते स्युरनुनासिकसंयुताः ।त्रिष्टा(ष्वा?)क्षर्यं च वश्यं च विकारे स्वर्यमित्यपि ॥ ६३ ॥
1.5.63 · p. 60
अनुष्टुप्
अभिनिष्टानविसर्गौ विसर्जनीयस्य(श्च?) पुंसि स्युः ।सौपस्तैरः(ङः) कार्तः सूत्रकृद्व्याख्यानके त्रितये ॥ ६४ ॥
1.5.64 · p. 60
metre not recognised
वैसर्गिको विसर्गाय प्रभवे भेद्यलिङ्गकः ।सर्गाय प्रभवत्यर्थे सार्गिकोऽप्येवमीरितः ॥ ६५ ॥
1.5.65 · p. 60
अनुष्टुप्
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
1.5.67 · p. 60
metre not recognised
ऋगृचाव(?)स्त्रियौ क्लीबे यजुः साम तु निर्ऋथः ।त्रयी स्त्रियां त्रिवेदीरि(?)त्रय्युद्धारस्त्वथर्वणि ॥ ६५ ॥
1.5.65 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
विधानमृग्यजुःसाम्नां त्रयीधर्मोऽस्त्रियां भवेत् ।क्रियासु विनियुक्तो यो वेदो मन्त्रः स उच्यते ॥ ६३ ॥
1.5.63 · p. 60
अनुष्टुप्
वशीकरणमन्त्रो यः स हृद्य इति कीर्त्तितः ।ऋचोर्द्वयोः प्रगथने प्रगाथो नरि कीर्त्तितः ॥आयुर्वेदो धनुर्वेदो गान्धर्वश्चोपवेदकाः ।शाखा स्त्री चरणस्त्वस्त्री सूक्तं स्यादेकदेवतम् ॥साम्नः षट्प्रणवा न्यूङ्खौ भङ्गस्त्वृग्भेदनं मतः ।अध्यायश्चानुवाकश्च ऋग्यजुःसंग्रहे मतौ ॥पदप्रकृतिका तु स्यात्संहिताऽथ पदं भवेत् ॥ ६४ ॥
1.5.64 · p. 60
अनुष्टुप्
सुप्तिङन्तपृथक्कारो विच्छेदः स्यादवग्रहः ।भे(?)गवत्पदसंघाटः पदसंघात इत्यपि ॥पदसंहतिकृत्तद्वद्वर्णसंघाट ईरितः ।प्रागग्रिमपदत्यागग्रहापाठे क्रमो नरि ॥ ६५ ॥
1.5.65 · p. 61
अनुष्टुप्
जटादयः पदावृत्तिभेदा अन्तः पुनः श्रुतेः ।स्त्रियामुपनिषद्वेदो रहस्यं तत्र चान्तिमे [39b] ॥ ६६ ॥
1.5.66 · p. 61
अनुष्टुप्
सामभागविशेषः स्यादुक्थमुद्गीथ आदिमे ।पृष्ठं स्तोत्रविशेषः स्याद्विरिब्धस्तु स्वरः स्मृतः ।निघातस्त्वनुदात्तः स्यात्समाहारः समश्रुतिः ॥ ६७ ॥
1.5.67 · p. 61
अनुष्टुप्
तत्तद्द्वंद्वे तु ऋक्सामे तद्वदृग्यजुषं भवेत् ।अर्द्धर्च्चोऽस्त्री स्यादृचोऽर्द्धं बह्वृचोऽध्येतरि त्रिषु ॥ ६८ ॥
1.5.68 · p. 61
अनुष्टुप्
अनृचस्तु नऋक्पाठीतरद्बह्वृगनृग्भवेत् ।प्रतिसामं भवेत्सामाभिमुखं क्लीबमव्ययम् ॥ ६९ ॥
1.5.69 · p. 61
अनुष्टुप्
साम्नोऽन्तिकेऽनुसामं स्यादवसामं त्वसामनि ।ऋगेकपदसंयुक्ता भवेदेकपदा हि सा ॥ ७० ॥
1.5.70 · p. 61
अनुष्टुप्
द्विपदा त्रिपदेत्यादि विशेष्यायां भवेदृचि ।पादं पादमृचः पाठे पच्छ इत्यव्ययं भवेत् ॥ ७१ ॥
1.5.71 · p. 62
अनुष्टुप्
स्यात्सामन्यः साम्नि साधुराथर्वणस्त्वथर्वणि ।स्यात्साम यज्ञायज्ञा(ज्ञि?)यं यज्ञायज्ञपदाङ्कितम् ॥ ७२ ॥
1.5.72 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्व (wrong syllable)
भवेद्वाशिष्ठकोऽध्यायो भवो व्याख्यानमस्य यत् ।स्याद्दीर्घजीवतो दीर्घजीवतीयोऽनुवाच(क?)कः ॥ ७३ ॥
1.5.73 · p. 62
अनुष्टुप्
इषेत्वको गोषदक इषेत्वादि[40a]पदान्वितः ।एतायामोपि च तौ यामीयोऽध्यायस्तथा मतः ।औक्तः प्रोक्तः प्रगाथः स्यादुक्तादिच्छन्द आदिमः ॥ ७४ ॥
1.5.74 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
अथ क्लीबे समूहे स्याच्छान्दोग्याथर्वणादयः ॥ ७५ ॥
1.5.75 · p. 62
बाह्वृच्यं तद्वदौक्थिक्यं तद्धर्माम्नाययोरपि ।पृष्ठ्यं पृष्ठसमूहे स्याद्भवे मान्त्रं तथा व्रजे ॥ ७२ ॥
1.5.72 · p. 62
अनुष्टुप्
त्रिषु तत्र भवे तस्य व्याख्याने वैदिकार्चिकौ ।स्यात्पुरोडाशिकः पौरोडाशिकश्च समार्थकः ॥सौवरस्तु स्वरव्याख्यामधिकृत्य कृतो हि यः ।ऐष्टिकं पाशुकं च स्यात्पौरश्चरणिकं तथा ॥छन्दस्यश्छान्दसः पादव्याख्यानः क्रामिकादयः ॥ ७३ ॥
1.5.73 · p. 62
अनुष्टुप्
एवमार्गयनब्राह्मणिकान्समुदी(र)येत् ।स्यादौपनिषदीस्तद्वदथ जीवति यस्तया ।भवेदौपनिषत्कोसावसाध्येतरि तद्विन्दा(?) ॥ ७४ ॥
1.5.74 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 द्वि (wrong syllable)
छान्दस-श्रोत्रियौ तुल्यौ तद्भावे श्रौत्रमन्तिमे ।श्रोत्रियत्वं श्रोत्रियता स्याच्छ्रोत्रियकमन्तिमे ॥ ७५ ॥
1.5.75 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रो (wrong syllable)
तस्मिंश्छान्दसकं च [40b] स्यादथ सांहितिको भवेत् ।पादिकः पदिकस्तुल्यो क्रामि(क)क्रमकौ समौ ।पदकक्रमकं क्लीबे द्वंद्वे बह्वृचयाजुषम् ।बह्वृचार्यो याजुषः स्यात्सामकः सामगः समौ ॥ ७६ ॥
1.5.76 · p. 63
अनुष्टुप्metre not read in every line
स्यादाथर्वणिकोऽथ स्याद् द्विवेदोऽथ त्रिवेदवत् ।सार्ववैद्यः सर्ववेदश्चातुर्वैद्यश्च तादृशः ॥ ७७ ॥
1.5.77 · p. 63
अनुष्टुप्
सार्ववेदी सर्ववेदा चातुर्वेदी द्विजावली ।स्यादाथर्वणिको विप्रः स्त्री त्वाथर्वणिकी भवेत् ॥ ७८ ॥
1.5.78 · p. 63
अनुष्टुप्
शतपथिकः शतपथिकी स्त्री चेत्यष्टिपथिकस्तु तद्वत्स्यात् ।उक्थग्रन्थमधीते वेत्ति च यो वा स औक्थिको ज्ञेयः ॥ ७९ ॥
1.5.79 · p. 63
गीतिःmetre not read in every line
ब्राह्मणोऽनुब्राह्मणी स्यादनुब्राह्मणिनी द्विजा ।एवं भवेदैतरेयी काश्यपी कौशिकी तथा ॥भवेद्वाजसनेयीति याज्ञवल्क्यसमार्थकः ।एवमाश्मरथाद्याः स्युस्तत्कल्पाध्येतृवेदिनोः ॥ ८१ ॥
1.5.81 · p. 63
अनुष्टुप्
शिक्षा कल्पश्छन्दो व्याकरणं ज्योतिषं निरुक्तं च ।[41a] वेदाङ्गान्यथ शिक्षां पठन्विदन्भवति शिक्षकस्त्रितये ॥ ८२ ॥
1.5.82 · p. 63
गीतिः
त्रिषु तदधीते वेदेत्यर्थे त्रैविद्य-धार्मविद्याद्याः ।सांग्रहसूत्रिक-पाराशरकल्पिक-काल्पसूत्राश्च ॥ ८३ ॥
1.5.83 · p. 63
आर्या
कल्पः प्रोक्तस्तनयः स्यादैतरेयी सभाल्लवी ।पैगीशाद्यायती शौनकीयः कातीय इत्यपि ॥ ८४ ॥
1.5.84 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
आरभ्यैकाक्षरं पादमेकैकाक्षरवर्धनात् ।आषड्विंशत्यक्षरं स्युरुक्ताद्याश्छन्दसां भिदः ।गायत्राद्या यद्विशेषास्तद्विष्टारमुदीरितम् ॥ ८५ ॥
1.5.85 · p. 64
अनुष्टुप्metre not read in every line
उक्ता स्त्री क्लीबमौक्तं स्यादत्युक्तात्युक्तमन्तिमे ।मध्या माध्यं प्रतिष्ठा तु प्रातिष्ठं च नपुंसके ॥ ८६ ॥
1.5.86 · p. 64
अनुष्टुप्
सौप्रतिष्ठं सुप्रतिष्ठा भवेद्गायत्रमन्तिमे ।गायत्री स्त्री भवेत्तूष्णि[गुष्णि]कं च नपुंसके ॥ ८७ ॥
1.5.87 · p. 64
अनुष्टुप्
आनुष्टुभमनुष्टुप् स्त्री बृहती बार्हतं मतम् ।पङ्क्तिः पाङ्क्तं च तुल्यार्थं त्रिष्टुप् स्त्री त्रैष्टुभं तथा ॥ ८८ ॥
1.5.88 · p. 64
अनुष्टुप्
जगती जागतमतिजगती त्वातिजाग[41b]तम् ।शक्वरी शाक्वरं चातिशक्वरी त्वातिशाक्वरम् ॥ ८९ ॥
1.5.89 · p. 64
अनुष्टुप्metre not read in every line
अष्टतिस्त्वाष्टतं क्लीबेऽथाष्टिराष्टं धृतिः पुनः ।धार्तं भवेत्त्वतिधृतिः क्लीबे त्वातिधृतं मतम् ॥ ९० ॥
1.5.90 · p. 64
अनुष्टुप्
कार्तं कृतिः प्राकृतं तु प्रकृतिः स्यादथाकृतिः ।आकृतं वैकृतं तु स्याद्वि[कृतिः संकृ]तौ पुनः ॥ ९१ ॥
1.5.91 · p. 64
अनुष्टुप्
सांकृतं स्यादातिकृतमतिकृत्यामथौत्कृतम् ।उत्कृतिश्चाथ षड्विंशत्यक्षराधिकपादकाः ॥ ९२ ॥
1.5.92 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
स्त्रीलिङ्गो ना दण्डकाः स्युः स्त्रियो गाथा इतोऽपराः ।क्रमः पदादिसंयोगः पदविच्छेदनं यतिः ॥ ९३ ॥
1.5.93 · p. 64
अनुष्टुप्
ओजं स्याद्विषमं स्थानं युक्समं समुदीर्यते ।प्रस्तारः स्यात्कलान्यासः छन्दो वृत्तं नपुंसके ॥ ९४ ॥
1.5.94 · p. 65
अनुष्टुप्
शब्दशास्त्रं व्याकरणं तदैन्द्रादिभिदाष्टधा ।सूत्रं स्तवनकृत्क्लीबेऽथ प्रोक्ते तेन भेद्यवत् ॥ ९५ ॥
1.5.95 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
भवेदापिशलं काशकृत्स्नमित्येवमादिकम् ।माहेश्वराणि तानि स्युर्यान्याद्यानि चतुर्दश ॥ ९६ ॥
1.5.96 · p. 65
अनुष्टुप्
* * * * * * * * पाणिनीयं तथाष्टकम् ।[42a] त्रिमुन्येतद्व्याकरणं दाक्षीपुत्रस्तु पाणिनिः ।शालातुरीयो दाक्षेयोऽप्यथोक्तानुक्तपूरकम् ॥ ९७ ॥
1.5.97 · p. 65
अनुष्टुप्metre not read in every line
वार्त्तिकं तत्र कातीयं कात्योक्तेऽथ पुनर्वसुः ।कात्यः कात्यायनो मेधाजित्स्याद्वररुचिश्च सः ॥ ९८ ॥
1.5.98 · p. 65
अनुष्टुप्
चूर्णिः स्त्रियां भवेद्भाष्यं सूत्राभिप्रायवर्णकम् ।शारीरकीयं तच्छारीरकं शंकरभाषितम् ।पातञ्जलं फाणिपतं तत्पतञ्जलिभाषितम् ॥ ९९ ॥
1.5.99 · p. 65
अनुष्टुप्
आवान्तरप्रकरणे विश्रामे शीघ्रपाठतः ।तदेकाहविनिर्वृत्तविचारं मतमाह्निकम् ॥ १०० ॥
1.5.100 · p. 65
अनुष्टुप्
यत्र व्याकरणस्य स्यात्फलाफलविचारणम् ।तत्राह्निके पस्पशा स्त्री गोनर्दीयः पतञ्जलिः ॥ १ ॥
1.5.1 · p. 65
अनुष्टुप्
भवेद्वाक्यपदीयं तु भाष्यव्याख्यानसंयुतम् ।षष्टिश्रावी भर्तृहरिर्वृत्तिः सूत्रार्थबोधिका ॥ २ ॥
1.5.2 · p. 65
अनुष्टुप्
सा काशिका काशिभवा कारिका त्वर्थभूयसी ।भवेत्कक्षपुरः पुंसि निबन्धे सारसंग्रहे ।नपुंसि टिप्पणं टीका क्लीबे विवरणं मतम् [42b] ॥ ३ ॥
1.5.3 · p. 65
अनुष्टुप्
स्यात्षात्वणत्विकस्तस्य व्याख्यानभवयोस्त्रिषु ।पदव्युत्पादनग्रन्थो निरुक्तं न द्वयोर्भवेत् ।पदभङ्गः पञ्जिका स्त्री न्यासस्तस्या भवेत्पुमान् ॥ ४ ॥
1.5.4 · p. 66
अनुष्टुप्metre not read in every line
अस्त्री कोषो निघण्टुः स्यात्सर्वविद्या कलिन्दिका ।प्रस्तावः स्यात्प्रकरणं संग्रहस्तु समाहृतिः ॥ ५ ॥
1.5.5 · p. 66
अनुष्टुप्
शास्त्रे दर्शनमप्यथाधिकरणं न्यायो नयः सम्मतोमीमांसा तु विचारणा विधिरिहाप्राप्तार्थसंप्रापणम् ।आन्वीक्षिक्युदितात्र तार्क्किकनयः सर्गादिभिः पञ्चभिःसंयुक्तं किल पञ्चलक्षणमिति प्रोक्तं पुराणं च तत् ॥ ६ ॥
1.5.6 · p. 66
शार्दूलविक्रीडितम्
धर्मशास्त्रं स्मृतिर्धर्मसंहिता च स्त्रियावु(मु)भौ ।पञ्चाङ्गवाक्यं ग्रन्थः स्याच्छम्बुर्ना ग्रन्थविस्तरम् ।काव्यं कावा(?)च कविता रसवत्पदबन्धनम् ॥ १० ॥
1.5.10 · p. 66
अनुष्टुप्
तदुत्तमं ध्वनिः पुंसि भवेद्व्यङ्गे(ङ्ग्ये)तिशायिनि ।गुणीभूते मध्यममं स्याच्चित्रं स्याद्व्यङ्गवर्जितम् ॥ ११ ॥
1.5.11 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तद्दृश्यमभिनेयं यच्छ्रव्यं तु श्रवणार्थकम् ।वृत्तबन्धः पद्यमन्त्ये श्लोकः पुंस्यत्र[43a] सम्मतः ॥ १२ ॥
1.5.12 · p. 66
अनुष्टुप्metre not read in every line
मुक्तकमेकश्लोकं द्विश्लोकं युग्मकं गदितम् ।संदानितं विशेषकमुदिते त्रिश्लोकसंबन्धम् ॥ १३ ॥
1.5.13 · p. 67
metre not recognised
श्लोकचतुष्टयकलितं कलापकं पञ्चतः कुलकम् ।काव्ये त्वधिकृत्य कृते तदिति किरातार्जुनीयमित्यादि ॥ १४ ॥
1.5.14 · p. 67
उद्गीतिः
फक्किका चूर्णिका गद्यं चम्पूः स्त्री तद्विमिश्रिता ॥ १५ ॥
1.5.15 · p. 67
अवान्तरकथापूर्तौ सर्गोऽध्यायः समार्थकौ ।आख्यानसंज्ञकास्ते स्युर्महाकाव्यगता यदि ॥ १६ ॥
1.5.16 · p. 67
अनुष्टुप्
प्राकृतैर्निर्मिते काव्ये सर्गा आश्वाससंज्ञकाः ।अपभ्रंशनिबद्धे तु सर्गाः काण्डवकाभिधाः ॥ १७ ॥
1.5.17 · p. 67
अनुष्टुप्
सर्गबन्धो महाकाव्यं संध्यङ्गादिसमन्वितम् ।खण्डकाव्यं भवेत्काव्यमेकदेशानुसारि यत् ॥ १८ ॥
1.5.18 · p. 67
अनुष्टुप्