कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ज्ञान

jñānaक्ली · neut.

In 18 kośas: 18 synonym verses, 4 as a nānārtha head word, 97 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.238 · p. 16
पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.10
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.88 · p. 74
अनुभूरुपलब्धिश्च भूतिश्चित् ज्ञप्तिसम्भवा ।ज्ञानं च बोधनं जानं मेधा धीर्धारणा क्षमा ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.58 · p. 241
वियामो विगमे दिग्धं प्लुते चीर्णं तु शीलितम् ।श्वभ्रोऽवपातो ज्ञानं तु समज्ञा स्यान्मुदागमः ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.142 · p. 432
मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा ।प्रज्ञा संज्ञा चितिर्द्धामा विज्ञानं ज्ञानमित्यपि ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.145 · p. 433
शिल्पादिगा तु विज्ञानं क्लीबे ज्ञानं तु मोक्षगा ।शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.4 · p. 53
धर्मचर्च्चा पुंस्युपाधिर्वितर्क्कः पुनरुन्नयः ।विद्या ज्ञानं मतं मोक्षे विज्ञानं शिल्पशास्त्रयोः ॥मतस्य साधनं मत्यं भेद्यलिङ्गमुदीरयेत् ।परामर्षो विमर्षः स्याद्विचारोऽपि विचारणम् ॥संख्यानं च स्त्रियो गुञ्जा-चर्च्चा-संख्या-विचारणाः ।उत्प्रेक्षा स्त्री पुमानूहस्तर्क्कोऽध्याहार ऊहनम् ॥संवेदानुभवौ तस्मिन्नुपलम्भश्च भेदना ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.207 · p. 30
मोक्षबुद्धिर्मता ज्ञानं विज्ञप्तिः शास्त्रशिल्पयोः ।लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं चाथ संलयः ॥ २०७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.152 · p. 21
शिल्पे शास्त्रे च धीर्ज्ञानं विज्ञानं मोक्षसाधनम् ।मुक्तौ श्रेयोऽहंकृतौ स्यादविद्याज्ञानमित्यपि ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.137 · p. 33
चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः ।तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.455 · p. 57
प्रतिपत् षोडशं नाम सा मेधा धारणक्षमा ।तत्त्वानुसारिणी पण्डा ज्ञानं च मोक्षदायकम् ॥ ४५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.317 · p. 22
पण्डा स्यात् प्रतिपज्ज्ञप्तिर्ज्ञानं विज्ञानमित्यपि ।अथ मेधा निगदिता या बुद्धिर्धारणावती ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.327 · p. 23
नियमश्चाभ्युपगमो वाढमामोमिहाव्ययम् ।मोक्षे बुद्धिर्भवेज्ज्ञानं मोक्षादन्यत्र कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.51 · p. 7
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।स्रष्टृता चात्मसंवित्तिरप्यधिष्ठातृतेत्यमी ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
झिण्टीश ऊर्ध्वदन्ताख्यो ह्यग्निर्वाग्भव एव च ।भगश्च दक्षदन्तश्च ज्ञान-शक्ती च जङ्घकः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
उत्पलिनी Utpalinī · व्याडि Utpalinī 3 · p. 46
बोधिः स्वबोधनं ज्ञानं तन्मयो बोधिसत्त्वकः ॥ ३ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.47 · p. 6
बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः ।ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.164 · p. 96
ज्ञप्तिः पण्डोपलब्धिस्तु संवित्तिरनुभूश्चितिः ।अवगत्यनुभूती चिज्ज्ञप्तिर्ज्ञानं च बोधनम् ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.3 · p. 85
विमृशति तु विचारयतिस्यादिह मीमांसते च विन्ते वा ।दीदांसते च दीदां-सति च भवेदार्जवे तद्वत् ।जानाति वेत्ति मनुतेऽवति मन्यते चस्याद्बुध्यते ज्ञपयतीह च वेणते च ।बोधत्यवैति कलयत्यवगच्छति स्या-ज्ज्ञाने तथा भवति वेद च वेणतीति ॥ ३ ॥
वसन्ततिलकाmetre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.7 · p. 86
संप्रतिभ्यामनौत्कण्ठ्ये केवलः कर्तृगे फले ।अनुं विना सनन्तो ज्ञा भवति ह्यात्मनेपदी ॥स्मृ-दृशौ च सनि प्रत्याङ्भ्यां विनाथ तथा श्रुतिः ।समो वेत्तिस्तङ्यथास्य झे स्यात्संविद्रते लटि ॥ ७ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.8 · p. 86
तथा संविदते संतस्त्विच्छायां मन्यतिर्मतः ।अनुज्ञानेऽनुतोऽभेस्तु गर्वप्रणयहिंसने ॥ ८ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.9 · p. 86
ज्ञानेच्छयोर्गारयते तूक्तं विज्ञानवाचकम् ।चेतति स्याद्वेदयते तथा चेतयते मतम् ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वे (wrong syllable)

ज्ञान as a meaning in nānārtha verses