कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुञ्जा

guñjāस्त्री · fem.

In 16 kośas: 27 synonym verses, 8 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.886 · p. 35
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1156 · p. 45
तुम्ब्यलाबूः कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ ॥मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः ।श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.144
चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.85
यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.203 · p. 25
कथ्यते कृष्णला गुञ्जा तापिच्छः काकतुण्डिका ।किम्पाकः स्यान्महाकाल ओष्ठी विम्बी च तुण्डिका ॥ २०३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.54 · p. 14
सुरागृहे स्त्रियां गञ्जा गुञ्जाथो सूतिकागृहम् ।अरिष्टं सूतकगृहं वेशो वेश्यागृहे पुमान् ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.517 · p. 190
द्वाभ्यां यवाभ्यां गुञ्जा स्यात्पञ्च ता माषमाषकौ ।स एव हेमधान्यो ना तैश्चतुर्भिस्तु शाणकः ॥ ५१७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.433 · p. 297
रक्ता तु रक्तिका गुञ्जा शिखण्डी भिल्लभूषणा ।सौम्या चूडामणिः कृष्णचूडिका कृष्णलाऽरुणा ॥ ४३३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.24 · p. 343
गुञ्जा स्त्रियां सुवर्णादिजन्मभूर्द्धातुकः पुमान् ।शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.148 · p. 433
अध्यूहनं विचारश्चाध्याहारश्चापि निश्चयः ।चर्चा विचारणा संख्या गुञ्जा स्यादथ संशयः ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.4 · p. 53
धर्मचर्च्चा पुंस्युपाधिर्वितर्क्कः पुनरुन्नयः ।विद्या ज्ञानं मतं मोक्षे विज्ञानं शिल्पशास्त्रयोः ॥मतस्य साधनं मत्यं भेद्यलिङ्गमुदीरयेत् ।परामर्षो विमर्षः स्याद्विचारोऽपि विचारणम् ॥संख्यानं च स्त्रियो गुञ्जा-चर्च्चा-संख्या-विचारणाः ।उत्प्रेक्षा स्त्री पुमानूहस्तर्क्कोऽध्याहार ऊहनम् ॥संवेदानुभवौ तस्मिन्नुपलम्भश्च भेदना ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.59 · p. 72
भूषणजन्मनि शिञ्जितमन्त्येशिञ्जा गुञ्जा गुञ्जितमलिजे ।वाशित-विरुते स्तश्च तिरश्चांक्रन्दनकणिते पीडाभाजाम् ॥ ५९ ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.25 · p. 177
सनालिका पीतदुग्धा केनादीप्ता रसालिका ।गुञ्जा तु काकणन्ती स्यात्कणीचिः काञ्चिरुच्चटा ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 292
त्रिराजिकः सर्षपोऽथ यवोऽष्टाभिश्च सर्षपैः ।गुञ्जा चतुर्यवा तास्तु पञ्च स्युर्माषकोऽस्त्रियाम् ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.44 · p. 99
गञ्जा सुरासद्मनि पुञ्जिपिञ्जागुञ्जाण्डजा स्फिग्विसमासरज्जुः ।सिञ्जाप्यजाजी कथिताथ झञ्झायाच्ञाथ सा(शा?)टी भ्रुकुटी च भाटिः ॥ ४४ ॥
इन्द्रवज्रा
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.79 · p. 62
गुञ्जा तु कृष्णला तुल्ये विशाला चेन्द्रवारुणी ।हारहूरा तु मृद्वीका गोस्तनी द्राक्षया सह ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.411 · p. 153
गुञ्जा स्यात्पञ्चभिर्माषैः कर्षः षोडशमाषकैः ।पलं कर्षचतुष्केन तुला पलशतं मतम् ॥ ४११ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.47 · p. 216
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.193 · p. 14
तेजोवती वह्निफला वायसी कनकप्रभा ।ताम्रिका कृष्णला गुञ्जा शिखण्डी कृष्णचूडिका ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1483 · p. 236
गुञ्जा लताफलं किञ्चिद् रक्तिका सैव कथ्यते ।पञ्च गुञ्जाः माषकः स्यात् स्वर्णकारस्य तोलने ॥ १४८३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2072 · p. 343
गुञ्जा च कृष्णला काकचिञ्ची काकाचिञ्चिस्तथा ।काकचिञ्चा च नामानि गुञ्जायाः कथयन्ति वै ॥ २०७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 चि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.17 · p. 51
आवेशनं शिल्पशाला च्छात्रादिनिलयो मठः ।गुञ्जा गञ्जा गञ्जका च मदिरागृहमुच्यते ॥गर्भागारं वासगृहं भोगसद्मापवारकम् ।सूतीगृहं सूतिगृहं अरिष्टं सूतिकागृहम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.181 · p. 71
कनीचिः कृष्णला गुञ्जा तुलाबीजन्तु चिञ्चिका ।काकचिञ्ची काकचिञ्चा काकाचिञ्चा तु सा स्मृता ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.36 · p. 310
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.582 · p. 75
तत्र प्रतिविषा घण्टारवा तु शणपुष्पिका ।काकचिञ्चा च विक्रोडा गुञ्जा चूडामणिर्वरा ॥ ५८२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1496 · p. 181
ते तु गौरस्त्रयस्ते तु षड्यवस्तच्चतुष्टयम् ।गुञ्जा ताः पञ्च माषस्ते षोडशोऽक्षः स कर्षकः ॥ १४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.1 · p. 20
बुद्धिः पण्डा विदा चार्वी विचारस्तर्कनिश्चयौ ।गुञ्जा चर्चाऽथ सिद्धान्तोत्तरपक्षसमाधयः ।कृतान्तः पूर्वपक्षस्तु चोद्यं गीर्भणितिर्गिरा ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास जार्धश्लोकः Dharaṇikośa 7.2.4 · p. 32
गुञ्जा तु वाद्यभाण्डं स्यात्काकचिञ्च्यां कलध्वनौ ।गञ्जो रीढा भाण्डागारे गञ्जा खन्यां सुरागृहे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ जान्ताः Koṣakalpataru 6.7.27 · p. 175
क्लीबे प्रजाविस्तृतिलोकलाम-ज्जकेषु गुञ्जा तु कलध्वनौ स्त्री ।स्यात्काकणन्त्यां पटहेऽथ गञ्जाद्वयोः खनौ मद्यगृहे पुनः स्त्री ॥ २७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.350 · p. 72
योगग्रन्थान्तरे गुञ्जा त्वक्ली स्याद्गुञ्जने स्त्रियाम् ।कृष्णलायां वाद्यभेदेऽप्यथ गुल्मो नृशण्डयोः ॥ ३५० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.150 · p. 180
गुञ्जा मञ्जुरवे वल्लीमेदे च पटहे पुनः ।गोण्डस्तु पामरे वृद्धनाभिकेऽपि तथोच्यते ॥ १५० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश जान्ताः Śabdaratnāvalī 7.8.9 · p. 197
गञ्जः पुमानवज्ञाते भाण्डागारे तु न स्त्रियाम् ।गुञ्जा तु कृष्णलायां स्यात् पटहे च कलस्वने ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.83 · p. 119
नखे करञ्जे करजः कुब्जो न्युब्जे द्रुमान्तरे ।खनौ सुरागृहे गञ्जो गुञ्जा पटहकृष्णले ॥ ८३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.11 · p. 220
कोटिस्त्वश्रौ प्रकर्षेऽग्रे दशोपायगमे गतिः ।गुप्तिः क्षितिव्युदासेऽपि गुञ्जा भाण्डेऽपि वादने ॥ ११ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 8.2.9 · p. 271
वैजयन्ती पताकायां जयन्त्यां केशवस्रजि ।गुञ्जायूथ्यौ शिखण्डिन्यौ द्राक्षा स्वादुरसा सुरा ॥ ९ ॥
अनुष्टुप्

गुञ्जा as a meaning in nānārtha verses