उपाधि
upādhiपुं · masc.In 13 kośas: 17 synonym verses, 9 as a nānārtha head word.
genderपुंmasc.
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।
अनुष्टुप्
genderपुंmasc.
उपाधिर्धर्मचिन्ता स्यान्निःशोध्यमनवस्करः ।कुप्रियं च जघन्यं स्यान्निःशेषं न्यक्षमिष्यते ॥ ७७० ॥
अनुष्टुप्
genderपुंmasc.
पुंस्युपाधिः सुन्दराङ्गः सिंहसंहननो हि सः ।निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
धर्मचर्च्चा पुंस्युपाधिर्वितर्क्कः पुनरुन्नयः ।विद्या ज्ञानं मतं मोक्षे विज्ञानं शिल्पशास्त्रयोः ॥मतस्य साधनं मत्यं भेद्यलिङ्गमुदीरयेत् ।परामर्षो विमर्षः स्याद्विचारोऽपि विचारणम् ॥संख्यानं च स्त्रियो गुञ्जा-चर्च्चा-संख्या-विचारणाः ।उत्प्रेक्षा स्त्री पुमानूहस्तर्क्कोऽध्याहार ऊहनम् ॥संवेदानुभवौ तस्मिन्नुपलम्भश्च भेदना ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
पुंस्युपाधिस्तथाभ्यागारिकः सोऽतिकुटुम्बकः ।व्रतसंग्रहणं दीक्षाथादिष्टी क्रतुषु व्रती ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वीप्सा तर्षश्चाभिलाषे स महान् लालसा द्वयोः ।उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथाः ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
स्यादभ्यागारिकोपाधिः कुटुम्बव्यापृते पुमान् ।श्रेष्ठावयवरूपो यः सिंहसंहननो हि सः ॥ ६४० ॥
अनुष्टुप्
genderपुंmasc.
उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् ।उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
genderपुंmasc.
अभ्यागारिकनामापि स उपाधिश्च कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तृ (wrong syllable)
genderपुंmasc.
त्रिचतुर्वर्गनाम्ना स्यादुपाधिर्धर्मचिन्तनम् ।त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गाः समीक्षकाः ॥ २५११ ॥
अनुष्टुप्
genderपुंmasc.
पुमान् उपाधिर्विज्ञेयो धर्मचिन्ता तु या भवेत् ।आधिः पुंसि समाख्यातो मानसी या व्यथा भवेत् ॥
अनुष्टुप्
genderपुंmasc.
भवेदभ्यागारिकस्तु कुटुम्बव्यापृते जने ।तस्मिन्नुपाधिः पुंस्येव क्लीबादिकविशेषणे ॥
अनुष्टुप्
genderपुंmasc.
उपाधिरुग्रगन्धरन्तु वचा क्षेत्रयमानिके ।उपलब्धिर्मतिप्राप्त्योरृद्धिः सम्पदि चौषधे ॥ २१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
उपाधिर्धर्मचिन्तायां गृहद्रव्ये विशेषणे ।आनद्धं मुरजाद्यं स्यादानद्धं बद्धमात्रकम् ॥
अनुष्टुप्
हरिवालुके सुगन्धिर्विशेष्यवत्त्विष्टगन्धे स्यात् ।सुबहुकुटुम्ब उपाधिर्धर्मविचारे विशेष ईशे च ॥ ७४ ॥
उद्गीतिःmetre not read in every line
औपधेयसमाख्ये च व्याजे चोपाधिवाक् पुनः ।कुटुम्बव्यापृते धर्मचिन्तायां च यदप्यदः ॥ ५८ ॥
अनुष्टुप्
कार्यान्वयव्यवच्छेत्तृ तत्राथोदयनोऽपठीत् ।साधनाव्यापकत्वे स्यात् समव्याप्तिकता तु या ॥ ५९ ॥
अनुष्टुप्
doubtful
साध्येनायमुपाधिः स्यादित्येवमथ ऋक्षरः ।कण्टके च जलस्थानेऽप्यृत्विज्यपि तथापरे ॥ ६० ॥
अनुष्टुप्
meaningsसाध्यसमव्याप्तिकता
उपाधिर्धर्मचिन्तायां स्याच्छले च विशेषणे ।कुटुम्बव्यापृते पुंसि नामचिह्ने तु कुत्रचित् ॥
अनुष्टुप्
उदान उदरावर्ते फणिवायुप्रभेदयोः ।उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृतावपि ॥ २०५४ ॥
अनुष्टुप्
अलङ्कारेऽपि चाबद्धः प्रत्याशाऽप्याधिरुच्यते ।कुटुम्बव्यापृते धर्मचिन्तायां च विशेषणे ॥ २१५ ॥
अनुष्टुप्
doubtful
उपाधिर्धर्मचिन्तायां कुडुंबव्यापृतेऽपि च ।उत्सवस्त्विच्छाप्रसर उत्सेधामर्षयोर्महे ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छा (wrong syllable)