कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शङ्खपुष्पी

śaṅkhapuṣpīस्त्री · fem.

In 5 kośas: 3 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.442 · p. 298
शङ्खपुष्पी तु शङ्खाह्वा सुपुष्पा कम्बुमालिनी ।पीतपुष्पा तु भूलग्ना मेध्या मलविनाशिनी ॥ ४४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 159
शङ्खपुष्पी श्वेतयूथी पीतासौ हेमपुष्पिका ।हरिणी पीतिका चाथ वारमोटातिशोणका ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.254 · p. 139
शङ्खपुष्पी क्षीरपुष्पी शिवा ब्राह्मी किरीटिनी ।मधुपुष्पी मधुगन्धा शङ्खाह्वा शङ्खमालिनी ॥ २५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 धु (wrong syllable)
genderस्त्रीfem.
शिवकोष Śivakoṣa · शिवदत्तमिश्र पच Śivakoṣa 17.3.305 · p. 28
शतपुष्पा शताह्वायां क्लीबे स्यात्पुण्डरीयके ।शङ्खपुष्पी तु यूथीभित्कम्बुमालिन्ययोः स्त्रियाम् ॥ ३०५ ॥
अनुष्टुप्

शङ्खपुष्पी as a meaning in nānārtha verses

  • कोषकल्पतरु चण्डाचण्डी तु हिंस्राम्बिकयोश्च चण्डा स्याच्छङ्खपुष्प्यां गणहासके च । स्याद्गोपतौ नाम्बुरुहादिसंघे षडे च षण्डो विपिने च नस्त्री ॥ ७४ ॥ Koṣakalpataru 6.12.74
  • कोषकल्पतरु मङ्गल्यस्त्रियां तु गुन्द्राशतपुष्पिकाधः- पुष्पीषु शम्यामपि रोचनायाम् । स्याच्छङ्खपुष्प्यां च सिताग्निकाया- मथ प्रगल्भे भयदेऽप्यधृष्यः ॥ ७६ ॥ Koṣakalpataru 6.26.76
  • शिवकोष मेध्यामेध्या ब्राह्मीशङ्खपुष्पीगन्धाढ्यारोचनासु च । वचायां पीततैलायां वेल्ले मेध्यं तु जीरके ॥ ३४५ ॥ Śivakoṣa 21.1.345
  • शब्दरत्नावली चण्डाचण्डा धनहरी शङ्खपुष्प्योश्च कोपन त्रिषु । चूडा शिखायां वडभौ शिखर करभूषणे ॥ Śabdaratnāvalī 7.13.14