मङ्गल्य
maṅgalyaपुं · masc.In 16 kośas: 30 synonym verses, 9 as a nānārtha head word, 2 as a meaning of another word.
दध्नि श्रीघनमङ्गल्ये तक्रे कट्वरसायणे ।अर्शोघ्नं परमरसः कुल्माषाभिषुते पुनः ॥ ९९ ॥गृहाम्बु मधुरा चाथ स्यात्कुस्तुम्बुरुरल्लुका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderक्लीneut.
मङ्गलं सौरभं तस्य मङ्गल्यं वरवर्णिनी ।वरारोहा देवकला कथ्यते सुरमल्लिका ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
मङ्गल्यं च वरारोहा कथ्यते देवमल्लिका ।निस्सङ्गा माधवी ज्ञेया गुञ्जचूडामणिस्तथा ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
यत्तु सर्वौषधिस्नानं तन्मङ्गल्यमलौकिकम् ।दिष्टं तु मृत्तिकास्नानमभिषेकस्तु मन्त्रवत् ॥ ३६८ ॥
अनुष्टुप्
genderक्लीneut.
गोशीर्षं चापि मङ्गल्यं तिलपर्णं महार्हकम् ।सुगन्धं चावनं चास्त्री शीतगन्धोऽपि चन्दनः ॥ ३७० ॥
अनुष्टुप्
genderक्लीneut.
सूरो मसूरो मङ्गल्यो रक्तपर्यायदालिकः ।पृथुकल्याणगुडतो बीजः कृष्णे वसन्तकः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गल्योऽपि च केशारिरथ स्यात्तिलकल्कके ।पललं तिलचूर्णे तु पिष्टकं तिलकिट्टके ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
आसप्ताहादथ दधि मङ्गल्यं क्षीरसम्भवम् ।विरलं तज्जलं मस्तु क्लीबेथो कट्वरः सरः ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
गुडपुष्पो रोध्रपुष्पो वनप्रस्थश्च माधवः ।मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः ।मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
फलार्थः स्याद्दन्तशठः कपीष्टः करभप्रियः ।मङ्गल्योऽपि स्त्रियां नीलमल्लिकाप्यथ तुम्बुरुः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः ।चिरञ्जीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गलसाधुनि मङ्गल्यं स्यान्माङ्गल्यं च स्याच्चरमे भावे ।सौवस्तिकमुक्तं स्वस्ति-हित-प्रभृतावर्थे लिङ्गत्रितये ॥ ५३ ॥
metre not recognised
genderविadj.
पञ्चाङ्गं तु तरोर्मूलवल्कपुष्पफलच्छदैः ।पुष्पज्वरस्तु पर्वा स्याज्ज्यौतिष्कस्त्वौषधिज्वरः ॥दशाङ्गं रसनिर्याससारकण्टकवृन्तकैः ।अश्वत्थः पिप्पलो बोधिश्चलपत्रो गजाशनः ॥मङ्गल्यः केशवावासः श्रीवृक्षः क्षीरपादपः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
मल्लिगन्धि तु मङ्गल्यमस्त्री भूर्जः स्थिरच्छदः ।चित्रपत्रो मृदुत्वक्को भूजो भूतहरः शिवः ॥ १७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
महाकपित्थस्तीक्ष्णाक्ष्यो वातसारो वरारुहः ।मङ्गल्यः स्यात्पीतफलः सर्वरूपश्च कङ्कटः (कण्टक ?) ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
जीवको जीवदः क्षोदी मङ्गल्यो मधुरप्रियः ।कूर्चकः कूर्चशीर्षश्च शृङ्गकश्चिरजीव्यपि ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गल्यः केशवावासः श्यामलो द्विरदाशनः ।गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गल्यकश्च मङ्गल्यो मञ्चितो मञ्चिदोऽप्यथ ।वनमुद्गे तु मङ्कुष्ठो मङ्कुष्ठकमयष्ठिकौ ॥ ४२९ ॥
अनुष्टुप्
genderपुंmasc.
सम्बन्धी सामरसिको मङ्गल्यो मङ्गलब्रुवः ।द्विजातिर्ब्राह्मणो विप्रो वाडवो भूसुरो द्विजः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
क्षीरजं गोरसश्चैव मङ्गल्यं श्रीघनं दधि ॥ ६०७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् ।मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥
अनुष्टुप्
genderपुंmasc.
मध्यतालव्यकं प्रोक्तं, सुभं तालव्य-दन्त्ययुक् ।मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
वंशक वंशिकं काकतुण्डं लघु च जाङ्गलम् ।कालागर्वथ तदगरु मङ्गल्यं यत्तु मल्लिगन्धि स्यात् ॥ ११४८ ॥
metre not recognised
genderक्लीneut.
बोधिद्रुमे तु श्रीवृक्षः पलाशः स्यात्त्रिपर्णकः ।समानौ बिल्वमङ्गल्यौ मातुलुङ्गे तु लुङ्गकः ॥ १७८७ ॥
अनुष्टुप्
genderपुंmasc.
बिल्वे मालूरमङ्गल्यौ श्रीफलो गोहरीतकी ।परिव्याधे बालभीरुर्भीरुबालोऽम्बुवेतसः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
तिलपुष्पं वज्रपुष्पं मसुरस्तु मसूरकः ।मंगल्यं पृथुसूप्यश्च व्रीहिकंको मसूरिका ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.doubtful
दधि विप्रप्रियं हृद्यं क्षीरजं श्रीघनं गुरु ।स्थूलं श्वेतं च मंगल्यं कट्वारः शण्डगोरसौ ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.doubtful
सुगन्धामलकैः स्नानं यत्तल्लक्ष्मीनिकेतनम् ।यत्तु सर्वौषधिस्नानं तन्मंगल्यमलोचकम् ॥ ११४ ॥
अनुष्टुप्
genderक्लीneut.doubtful
समष्टिरप्यतोऽन्यो यो गन्धोऽसुरभिरित्यसौ ।मल्लिकायां स्थितो गन्धो मङ्गल्या मङ्गलश्च सः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
स्त्रियां तु गुन्द्राशतपुष्पिकाधः-पुष्पीषु शम्यामपि रोचनायाम् ।स्याच्छङ्खपुष्प्यां च सिताग्निकाया-मथ प्रगल्भे भयदेऽप्यधृष्यः ॥ ७६ ॥
उपजातिः
doubtful
मङ्गल्यं तु निमित्ते स्यान्मङ्गलस्याभिधेयवत् ।मल्लिकापुष्पगन्धेन युक्ते वस्तुनि चाथ नप् ॥ १३१९ ॥
अनुष्टुप्
ज्ञेयं सर्वौषधिस्नाने दध्नि चाथ नृलिङ्गकः ।बिल्वे मसूरसंज्ञे च धान्ये स्याद्रभसः पुनः ॥ १३२० ॥
अनुष्टुप्
doubtful
कालागुरुविशेषे च गन्धभेदे च यः स्थितः ।मल्लिकाकुसुमे तस्मिन् रभसस्तु बहुक्तवान् ॥ १३२२ ॥
अनुष्टुप्
doubtful
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)
मङ्गल्य as a meaning in nānārtha verses
- शिवकोष रोचनीरोचना चाथ कम्पिल्ले मङ्गल्ये चापि रोचनी । रोही रक्ते वटेऽश्वत्थे स्त्री तु कठ्यां च कट्फले ॥ २६६ ॥ Śivakoṣa 16.1.266
- शब्दरत्नावली आतर्पणअङ्गारिणी हसन्त्याञ्च रवित्यक्तदिशि स्त्रियाम् । आतर्पणन्तु मङ्गल्ये लेपने प्रीणनेऽपि च ॥ Śabdaratnāvalī 7.15.73