कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · डान्ताः

इति ठान्तवर्गः ॥

डस्त्रासे शङ्करेध्वाने दस्युवृन्दे खलेऽपि च ।
7.13.1 · p. 204
अनुष्टुप्
इडा बुधस्त्री वाक् पृथ्वी स्वर्मतीषु च गोषु च ॥
7.13.2 · p. 204
अनुष्टुप्
काण्डं बाणे तरुस्कन्धे स्तम्बे नीचेऽपि कुत्सिते ।नाडी व्रणान्तरे वृक्षभेदे महसि न स्त्रियाम् ॥
7.13.3 · p. 204
अनुष्टुप्
क्रीडा केलिप्रभेदे स्यादवज्ञाखेलयोरपि ।कुण्डं वह्निगृहे मानभेदे सुरजलाशये ॥
7.13.4 · p. 204
अनुष्टुप्
कुण्डी कमण्डलौ स्थाल्यां कुण्डो जारसुते पुमान् ।क्ष्वेडो ध्वनौ विषे कर्णरोगे ज्वालाकुलेऽपि च ॥
7.13.5 · p. 204
अनुष्टुप्
क्ष्वेडा तु सिंहनादे स्याच्शलाकायामपि स्त्रियाम् ॥
7.13.6 · p. 204
रक्तार्कपर्णप्रसवे घोषपुष्पे नपुंसकम् ।दुरासदे च कुटिले वाच्यलिङ्गं निगद्यते ॥
7.13.7 · p. 204
अनुष्टुप्
क्रोडोऽङ्कवक्षसोरस्त्री शनिशूकरयोः पुमान् ।खण्डोऽस्त्री शकले पुंसि मणिदोषेक्षुपाकयोः ॥
7.13.8 · p. 204
अनुष्टुप्
खडः स्यात्पानभेदे च भेदे लघुतृणे स्त्रियाम् ।गण्डः खड्गे यागभेदे हयभूषणबुद्बुदे ॥
7.13.9 · p. 205
अनुष्टुप्
वीथ्यङ्गे पिटके चिहणे ग्रहे वीरे कपोलके ।गडुः कुब्जे गले पृष्ठे गुडे शल्ये पुमानयम् ॥
7.13.10 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 चिह (syllable split)
गडो मत्स्यप्रभेदे स्यात्परिखाव्यवधानयोः ।गुडो द्विरदसन्नाहे गोलकेक्षुविकारयोः ॥
7.13.11 · p. 205
अनुष्टुप्
गुडा स्रुहीद्रुमे स्त्री स्याद् गुडिकामलयोरपि ।गोण्डः स्याद्वृद्धनामौ च नीके पामरजातिषु ॥
7.13.12 · p. 205
अनुष्टुप्
चण्डः शमनदूते ना दैत्ये च तित्तिडीद्रुमे ।चण्डी भवान्यां हिंस्रायां कोपनायाञ्च योषिति ॥
7.13.13 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चण्डा धनहरी शङ्खपुष्प्योश्च कोपन त्रिषु ।चूडा शिखायां वडभौ शिखर करभूषणे ॥
7.13.14 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 2 ख (wrong syllable)
जडो मूकहिमग्रस्तमूर्खेषु शिखिषु स्त्रियाम् ।ताडी पत्रद्रुमे ना तु ताडने मुष्टिशब्दयोः ॥
7.13.15 · p. 205
अनुष्टुप्
दण्डोऽस्त्री लगुडे पुंसि व्यूहभेदे प्रकाण्डके ।अग्निकोणे च मन्थाने नाडीमानाभिमानयोः ।सैन्ये दमे यमे कालमानभेदे व्रणान्तरे ॥
7.13.16 · p. 205
अनुष्टुप्
तथा षट्क्षणकाले च चण्डांशु पारिपार्श्विके ।स्याद्धण्ड(?) दूर्वाशिवयोश्चर्यायां गहनादिभिः ॥
7.13.17 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
नीडं कुलाये स्थानेऽस्त्री पण्डः षण्डे मतौ स्त्रियाम् ।पाण्डुर्ना नृपतौ रोगनागभेदसितेषु च ॥
7.13.18 · p. 205
अनुष्टुप्
पिण्डो गृहैकदेशे ना बले बाणे च सान्द्रके ।पितृदाने देहमात्रे गोलसिह्लकयोरपि ॥
7.13.19 · p. 205
अनुष्टुप्
ओड्रपुष्पे च पुंसि स्यात् पिण्डमाजीवलीहयोः ।स्यात्पिण्डी पिण्डतगरे तुम्बी खर्जूरभेदयोः ॥
7.13.20 · p. 205
अनुष्टुप्
पीडापमर्दसरलशिरोमालाकृपासु च ।भाण्डं वणिक् मूलधने पात्रे भूषाश्चभूषयोः ॥
7.13.21 · p. 205
अनुष्टुप्
मण्डः शाकविशेषे स्यादेरण्डदधिमण्डयोः ।मण्डा त्वामलकीवृक्षे न स्त्रियां पिच्छसारयोः ॥
7.13.22 · p. 205
अनुष्टुप्
मुण्डो दैत्यप्रभेदे स्याद् राहो ना मुण्डिते त्रिषु ।मुण्डा मुण्डीरिकौषध्यां मुण्डमन्द्रीतु मूर्द्धनि ॥
7.13.23 · p. 205
अनुष्टुप्
रण्डा स्त्री विधवायां स्यान्मूषीपर्ण्यामपि स्त्रियाम् ।रोडस्तृप्तो वाच्यलिङ्गः क्षते तृप्तो भवेत्पुमान् ॥
7.13.24 · p. 205
अनुष्टुप्
वण्डा स्त्रियां पांशुलायां हस्तादिवर्जिते त्रिषु ।व्याडो विषधरे हिंस्रपशौ शतमखेऽपि च ।शुण्डा तु जलहस्तिन्यां हस्तिहस्ते सुरागृहे ॥
7.13.25 · p. 205
अनुष्टुप्metre not read in every line
वेश्यायां मदिरायाञ्च तथा पानगृहे स्त्रियाम् ।अथ शौण्डा तु पिप्पल्यां शौण्डो विख्यातमत्तयोः ॥
7.13.26 · p. 206
अनुष्टुप्
षण्डः स्याद्गोपतौ पुंसि षण्डं पद्यादिसंहतौ ।
7.13.27 · p. 206
अनुष्टुप्
कुष्माण्डः पुंसि कर्कारौ शत्रुभेदे गणान्तरे ॥
7.13.28 · p. 206
अनुष्टुप्
उमायामपि कुष्माण्डी तथा यागक्रियान्तरे ।कोदण्डं कार्मुके पुंसि भ्रूलतादेशभेदयोः ॥
7.13.29 · p. 206
अनुष्टुप्
गारुडं विषमन्त्रे स्याद्रले मरकतेऽपि च ।तरण्डो भेलके वर्शीसूत्रादिबद्धदारुणि ॥
7.13.30 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
नौकायामस्त्रियां कुम्भतुम्बीरम्भादिसञ्चरे ।निर्गुण्डी सिन्धुवारे स्यान्नीलशेफालिकासु च ॥
7.13.31 · p. 206
अनुष्टुप्
प्रचण्डो दुर्धरे शुक्लकरवीरे प्रतापिनि ।प्रकाण्डोऽस्त्री तरुस्कन्धे प्रशस्तविटपेषु च ॥
7.13.32 · p. 206
अनुष्टुप्
पिचिण्डो जठरे स्यात्तु पशोरवयवेऽपि च ।वरण्डो मुखरोगे स्यादन्तरावेदिभेदयोः ॥
7.13.33 · p. 206
अनुष्टुप्
वारुण्डी स्त्री द्वारपिण्ड्यां गले स्थ(?) राजके पुमान् ॥
7.13.34 · p. 206
न स्त्रियां श्रवणाक्ष्णोश्च मले च सेचपात्रके ।भेरुण्डी यक्षिणीभेददेवतान्तरयोः स्त्रियाम् ॥भयानके भिन्नलिङ्गं भेरुण्डं गर्भधारणे ।मार्तण्डो मिहिरे क्रोडे शिखण्डो वर्हचूडयोः ॥मारुण्डोऽपि च सर्पाण्डे पथगोमयमण्डले ।वण्डोशाविकाश(?) स्त्रीवर्त्तिभेदेषु च स्त्रियाम् ॥वितण्डा स्त्री वादभेदे कच्वी शाके शिफाद्वये ।सरण्डः सरटे धूर्ते कामुके भूषणान्तरे ॥
7.13.35 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 1 व (syllables merged)
अपोगण्डस्तु वलिने विकलाङ्गे च बालके ।चक्रवाडः शैलभेदे चक्रवाडस्तु मण्डले ॥जलरण्डः पयौरेणौ जलावर्ते भुजङ्गमे ।देवताडश्च जीमूते सैंहिकेये हुताशने ॥
7.13.36 · p. 206
अनुष्टुप्