All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
यान्ताः · यद्विः
इति मान्ताः ।
कन्या कुमारिकावन्ध्यास्थूलैलासारिवासु च ॥ ३३९ ॥
21.1.339 · p. 31
केश्यं तु वालके भृङ्गराजे चव्यं तु नो नरि ।कोलायां च्यवने चव्यं चव्या दूर्वोग्रगन्धयोः ॥ ३४० ॥
21.1.340 · p. 31
अनुष्टुप्
जयाभयामातुलानीजयन्त्यरणिभित्सु च ।विनापि तेषु तार्क्ष्यं तु रत्नभेदे रसाञ्जने ॥ ३४१ ॥
21.1.341 · p. 31
अनुष्टुप्
दिव्यं कोले लवे सूते शिवे ब्राह्म्यां तु योषिति ।दीप्यो यवान्यां मोदायां धन्या धात्र्यां वितुन्नके ॥ ३४२ ॥
21.1.342 · p. 31
अनुष्टुप्
पथ्या मुण्डीविजयावन्ध्यापद्मासु पथ्यन्तु ।सिन्धुनि पाक्यं काचे बिडे च पाक्यो यवक्षारे ॥ ३४३ ॥
21.1.343 · p. 31
metre not recognised
प्रिया प्रियङ्गुकाकोलीमल्लिकावृद्धिऋद्धिषु ।भव्या करिकणायां स्त्री कर्मरङ्गतरौ नशि ॥ ३४४ ॥
21.1.344 · p. 31
अनुष्टुप्
मेध्या ब्राह्मीशङ्खपुष्पीगन्धाढ्यारोचनासु च ।वचायां पीततैलायां वेल्ले मेध्यं तु जीरके ॥ ३४५ ॥
21.1.345 · p. 32
अनुष्टुप्
रम्यं पटोलमूले स्त्री रात्रौ पुंसि तु चम्पके ।वन्यं तु क्षुद्रमुस्तायां त्वचि वाट्या बलाभिदि ॥ ३४६ ॥
21.1.346 · p. 32
अनुष्टुप्
बलायामपि वाट्यां तु रुग्भृष्टयवपुष्करे ।वृष्या तु स्वादुकन्दायां धात्र्यां क्लीबं तु शाद्वले ॥ ३४७ ॥
21.1.347 · p. 32
अनुष्टुप्
शल्यं क्ष्वेडे च मदने शल्यः सेव्यस्तु पौण्ड्रके ।सेव्या तु हृद्यगन्धायामथ सेव्यं रणप्रिये ॥ ३४८ ॥
21.1.348 · p. 32
अनुष्टुप्
सौम्या सोमासोमराजीसुमनापर्णिनीषु च ।ऋद्धौ वृद्धावपि स्त्री स्यान्न द्वयोः सोमगन्धिके ॥ ३४९ ॥
21.1.349 · p. 32
अनुष्टुप्