कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

पान्ताः · पच

खरपुष्पा तु गोजिह्वामोदाबर्बरकेषु च ॥ २९० ॥
17.3.290 · p. 27
गन्धपुष्पः प्रावृषेण्ये केतके केसरे लवे ।अङ्कोटेज्जलरोहीतरम्ये नील्यां च वेतसे ॥ २९१ ॥
17.3.291 · p. 27
अनुष्टुप्
गुच्छपुष्पा तु धातक्यां पुंसि पूतीकरञ्जके ।गूढपुष्पः पुमान्मद्यदोहदे जन्तुमत्फले ॥ २९२ ॥
17.3.292 · p. 27
अनुष्टुप्
चन्द्रपुष्पा श्वेतसिंह्यां चन्द्रपुष्पःसमिद्वरे ।जपापुष्पं कुङ्कुमे स्याज्जपायाः कुसुमेऽपि च ॥ २९३ ॥
17.3.293 · p. 27
अनुष्टुप्
ताम्रपुष्पी पाटलायां धातक्यां त्रिवृताभिदि ।कोविदारेऽपि चण्डाते क्लीबं पुन्नागके पुमान् ॥ २९४ ॥
17.3.294 · p. 27
अनुष्टुप्
देवधूपः पुरे सर्जे नागपुष्पस्तु चम्पके ।पुन्नागे नागकिञ्जल्के नागदन्त्यां तु योषिति ॥ २९५ ॥
17.3.295 · p. 27
अनुष्टुप्
नीलपुष्पा काञ्चनारनिर्गुण्ड्यार्त्तगलेषु च ।नीलपुष्पी क्षुमानीलीकटभीवृद्धदारके ॥ २९६ ॥
17.3.296 · p. 27
अनुष्टुप्
पिण्डपुष्पं जपाशोककञ्जेऽस्त्री दाडिमे पुमान् ।पीतपुष्पी तु देवार्हात्रपुसीवारुणीशणे ॥ २९७ ॥
17.3.297 · p. 27
अनुष्टुप्
पीतपुष्पा कारवल्ल्यां करवीरसुपुष्पयोः ।पीतपुष्पो झिञ्झिरीटे चम्पके च कुरण्टके ॥ २९८ ॥
17.3.298 · p. 27
अनुष्टुप्
बहुपुष्पी सीधुपुष्प्यां पुंसि स्यात्पारिभद्रके ।बीजपुष्पो मदनके जूर्णान्ने च फणिज्जके ॥ २९९ ॥
17.3.299 · p. 27
अनुष्टुप्
महापुष्पः काञ्चनारे श्लक्ष्णशाल्योदनोपमे ।मधुपुष्पं विशल्यायां शिरीषे गुडपुष्पके ॥ ३०० ॥
17.3.300 · p. 27
अनुष्टुप्
मृत्युपुष्पो नले काशे भूतावासेक्षुवेणुषु ।रक्तपुष्पः कुरबकागस्तिशाल्मलिरोहिणि ॥ ३०१ ॥
17.3.301 · p. 28
अनुष्टुप्
पलाशतुङ्गचण्डातबन्धुजीवमनोहरे ।रक्तपुष्पा चर्मरङ्गासिन्दूरीतरणीभिदि ॥ ३०२ ॥
17.3.302 · p. 28
अनुष्टुप्
रक्तपुष्पी वृद्धदारजपापाटलिपर्पटे ।वृत्तपुष्पी नागदन्त्यां पुंसि मल्लीकदम्बयोः ॥ ३०३ ॥
17.3.303 · p. 28
अनुष्टुप्
धूलीकदम्बमल्लीभिद्वानीरमृदुपुष्पके ।बृहत्पुष्पी शणे कुब्जे चिबुके केतके तु ना ॥ ३०४ ॥
17.3.304 · p. 28
अनुष्टुप्
शतपुष्पा शताह्वायां क्लीबे स्यात्पुण्डरीयके ।शङ्खपुष्पी तु यूथीभित्कम्बुमालिन्ययोः स्त्रियाम् ॥ ३०५ ॥
17.3.305 · p. 28
अनुष्टुप्
शणपुष्पी शणे तूले शिवपुष्पोऽर्कपद्मयोः ।शीधुपुष्पी ताम्रपुष्प्यां वङ्गसेनतरावपि ॥ ३०६ ॥
17.3.306 · p. 28
अनुष्टुप्
शुकपुष्पः शुकतरौ शुकपुष्पं शुकच्छदे ।श्वेतपुष्पः शतप्राशे वरुणे सिन्दुकुन्दयोः ॥ ३०७ ॥
17.3.307 · p. 28
अनुष्टुप्
श्वेतपुष्पी महाश्वेता गणरूपकुटन्नटे ।सदापुष्पी द्वयोरर्केऽलर्के कुन्दे तु योषिति ॥ ३०८ ॥
17.3.308 · p. 28
अनुष्टुप्
स्वर्णपुष्पी नागदन्त्यां केतक्यां सुरभौ तु ना ।सुपर्णे स्वर्णपुष्पा तु चर्मकेश्यग्निजिह्वयोः ॥ ३०९ ॥
17.3.309 · p. 28
अनुष्टुप्
सितपुष्पः सितरोहिणि कुन्दे वन्ये तु सितपुष्पम् ।सितपुष्पी मधुपुष्पा कटभीमङ्गल्यपुष्पीषु ॥ ३१० ॥
17.3.310 · p. 28
उपगीतिः
स्थिरपुष्पो हेमपुष्पछिन्नपुष्पकयोरपि ।सूक्ष्मपुष्पाऽक्षपीडायां सूक्ष्मपुष्पी शणाधमे ॥ ३११ ॥
17.3.311 · p. 28
अनुष्टुप्
हेमपुष्पोऽशोकरोध्रचम्पकारग्वधेषु च ।हेमपुष्पी तु भण्डीरी वारुण्यां यूथिकाभिदि ॥ ३१२ ॥
17.3.312 · p. 28
अनुष्टुप्
हेमपुष्पं जवापुष्पे पाठायां नागकेसरे ।
17.3.24 · p. 29