कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · डान्ताः

डान्ताः ।

डो वन्दिवर्गेऽतिशुभध्वनौ च
6.12.1 · p. 188
उपजातिः

द्विडाः ।

गुडस्तु संनाह इभस्य गोले ।इक्षोश्च पाके गुडिकासु तु स्त्रीस्नुह्यां गडो विघ्नझषार्थकः स्यात् ॥ ६८ ॥
6.12.68 · p. 188
उपजातिः
जडोऽन्यवन्मूर्खहिमातुरेषुशूकस्य शिम्बी गदिता जडेति ।ग्रन्थौ तु पृष्ठस्य गडुश्च कुब्जेव्याडिस्तु हिंस्रेऽपि पशौ भुजंगे ॥ ६९ ॥
6.12.69 · p. 188
उपजातिः
ताडो द्रुभेदे नरि ताडने च ।स्त्रियां तु ताडी विटपिप्रभेदे ।स्थाने कुलाये त्रिषु नीडमाहुःसकारपूर्वं तु समीपवाचि ॥ ७० ॥
6.12.70 · p. 189
उपजातिः
हिण्डिः स्त्रियां बालकरात्रिरक्षा-चारे भवान्यामपि भाष्यतेऽसौ ।क्रोडः शनौ घोणिनि पुंस्त्वहीनोभुजान्तरे प्रावरणान्तरे तु ।देशेऽपि चोडः श्रवणामये तुक्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥
6.12.61 · p. 189
उपजातिःmetre not read in every line
वक्रे स्त्रियां वीरनिनादवाद्य-भिद्वंशशल्येषु नपुंसके तु ।स्याद्घोषपुष्प्यामपि लोहितार्क-फलेऽप्यथाण्डं पतगादिपेश्याम् ॥ ७२ ॥
6.12.72 · p. 189
उपजातिः
वीर्ये च मुष्के शकले तु खण्डो-ऽस्त्री रत्नदोषेक्षुविकारयोश्च ।चण्डस्तु दैत्येऽन्तकसेवके चस्यात्तिन्त्रिणीपादपकोपनेषु ॥ ७३ ॥
6.12.73 · p. 189
इन्द्रवज्रा
चण्डी तु हिंस्राम्बिकयोश्च चण्डास्याच्छङ्खपुष्प्यां गणहासके च ।स्याद्गोपतौ नाम्बुरुहादिसंघेषडे च षण्डो विपिने च नस्त्री ॥ ७४ ॥
6.12.74 · p. 189
उपजातिः
गण्डः पुमान्खड्गिनि योगखेट-भेदेषु चिह्ने पिटके प्रवीरे ।स्याद्वाजिनां भूषणबुद्बुदे चकपोलवीथ्यङ्गकवाचकश्च ॥ ७५ ॥
6.12.75 · p. 189
उपजातिः
दण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमेचण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये ।गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत्द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥
6.12.76 · p. 189
शार्दूलविक्रीडितम्
सान्द्रे ना तु निवापसिल्हकजपापुष्पेषु लोहेऽन्तिमेखर्जूरीभिदि तुम्बि[276a] कासु तगरे पिण्डः स्त्रियां सम्मतः ॥ ७७ ॥
6.12.77 · p. 190
metre not recognised
षण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सितेकुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि ।एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ सस्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥
6.12.78 · p. 190
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
त्रय्यां मुण्डित ओषधौ तु वनिता मत्ते तु शौण्डोऽन्यवत्स्याच्चव्याकणयोः स्त्रियामथ शरे नीरे तरुस्कन्धके ।स्तम्बे चावसरे रहस्यपि मितौ वर्गे च काण्डोऽस्त्रियांनिन्द्ये च त्रिषु भाण्डमत्र वणिजां मूले धने भूषणे ॥ ७९ ॥
6.12.79 · p. 190
शार्दूलविक्रीडितम्
पात्रे वाजिविभूषणे च तटिनीपात्रेऽथ गोभूबुध-स्त्रीवाणीमखपात्रभित्स्वपि शिरासृष्ट्योरिडेले मते ।क्रीडा खेलनहेलयोरथ भवेच्चूडा वलभ्यां शिखा-दोर्भूषास्वथ मौलिमाल्यसरलानुक्रोशमर्दार्तिषु ॥ ८० ॥
6.12.80 · p. 190
शार्दूलविक्रीडितम्
पीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा-व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता ।रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरेबन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे ।वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता-
6.12.15 · p. 190
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्

त्रिडाः ।

थो हालाहलदर्शने मरकते क्लीबे भवेद्गारुडम् ।कर्चूरे विषयान्तरे च गणनासूक्तो बुधैर्द्राविडोमार्तण्डस्तु रवौ किरौ च गदितः स्यात्तु प्रचण्डोऽन्यवत् ॥ ८२ ॥
6.12.82 · p. 190
शार्दूलविक्रीडितम्metre not read in every line
शूरक्रूरसुदुर्वहेषु नरि तु स्यादश्वमारे सितेपश्वङ्गेऽप्युदरे पिचण्डमथ न स्त्री स्यात्तरण्डस्तथा ।वृद्धेऽन्तर्बडिशे च दारुणि तथा स्याद्भेलकेऽथान्तरा-वेद्यां वक्त्रगदे वरण्ड उदितो धीमद्भिरेष व्रजे ॥ ८३ ॥
6.12.83 · p. 191
शार्दूलविक्रीडितम्
मार्गे गोमयमण्डले च फणिनां मारण्ड उक्तोऽण्डके-ऽथो धूर्ते सरटे सरण्ड उदितो भूषान्तरेऽपि क्वचित् ।पूत्यण्डस्तु सुगन्धकीटमृगयोर्वारुण्ड उक्तोऽस्त्रियांदृक्कर्णोत्थमले गणस्थितपतौ स्त्री द्वारपिण्ड्याह्वये ॥ ८४ ॥
6.12.84 · p. 191
शार्दूलविक्रीडितम्
उक्तश्चूडाबर्हयोर्ना शिखण्डःकोदण्डोऽस्त्री भ्रूलतायां [च] देशे ।चापेऽथ स्यादस्त्रियां शाखिनः स्या-न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥
6.12.85 · p. 191
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्क (wrong syllable)
कारण्डो मधुकोषेदलाढकेऽसौ करण्डः स्यात् ।कूष्माण्डो गणभेदेभ्रूणे कर्कारुके पुंसि ॥ ८६ ॥
6.12.86 · p. 191
metre not recognised
स्त्री स्याद्गौर्यौषध्यो-र्भेरुण्डो भीमदर्शने परवत् ।देवीयक्षीभेदेस्त्रियामथो तित्तिडो वृक्षे ॥ ८७ ॥
6.12.87 · p. 191
metre not recognised
दानवभेदे काली-दासे स्त्री चुक्रिकादौ स्यात् ।असिधेनौ तु वरण्डासारिकवर्त्त्योश्च निर्दिष्टा ॥ ८८ ॥
6.12.88 · p. 191
metre not recognised
कूर्चीके तु वितण्डावादविभेदे शिलाह्वे च ।करवीर्यां निर्गुण्डीकरहाटके नीलशेफाल्याम् ॥ ८९ ॥
6.12.89 · p. 191
metre not recognised
स्यात्सिन्दुवारके
6.12.24 · p. 192
metre not recognised

चतुर्डाः ।

ऽथोवातखुडोऽस्त्री मरुत्संघे ।वामे च वातरक्तेस्फोटे स्यात्पिच्छिले परवत् ।वेण्यां तु देवताडोवह्नौ राहुग्रहे तद्वत् ।शैंले तु चक्रवाडो[गदि]तोऽप्यन्ते तु मण्डलार्थे द्वौ ॥ ९१ ॥
6.12.91 · p. 192
metre not recognised
आवर्ते वारिकणेजलरुण्डः स्याद्भुजंगेऽपि ।विकलाङ्गे त्वतिभीरौशिशावपि स्यादपोगण्डः ॥ ९२ ॥
6.12.92 · p. 192
metre not recognised