कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सत्यम्

satyamअ · indecl.

In 2 kośas: 1 synonym verse, 1 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.3 · p. 119
अथाव्यया अस्ति भावेऽथाभावे न हि नो अनञ् ।नकीं माकीं तु माकिं च नकिः पृथगलं हलम् ॥अन्तरेणान्तरान्यत्र हिरुक्पृथगृते विना ।नेदथौ खलु नाना च वारणेऽङ्गीकृतौ पुनः ॥ओमामेवमुरर्यूरी स्यादुरी उररी तथा ।परमं चाथ सत्यं स्यादर्धस्वीकारवाचकम् ॥ ३ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.50 · p. 303
किमु सम्भावनायाञ्च विमर्षविदितार्थयोः ।तात्मकोपे स्मृतौ विस्मयकुत्सयोः ।प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः ।शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च ।हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि ।हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥एवमङ्गीकृते वार्थप्रकारेष्वषधारणे ।अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि ।कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि ।नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः ।सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि ।इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि ।साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)