कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अ

aअ · indecl.

In 12 kośas: 7 synonym verses, 13 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.24 · p. 58
प्रादुराविः प्रकाशे स्यादभावे त्व न नो नहि ।
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.11
अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.3 · p. 119
अथाव्यया अस्ति भावेऽथाभावे न हि नो अनञ् ।नकीं माकीं तु माकिं च नकिः पृथगलं हलम् ॥अन्तरेणान्तरान्यत्र हिरुक्पृथगृते विना ।नेदथौ खलु नाना च वारणेऽङ्गीकृतौ पुनः ॥ओमामेवमुरर्यूरी स्यादुरी उररी तथा ।परमं चाथ सत्यं स्यादर्धस्वीकारवाचकम् ॥ ३ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.37 · p. 123
तैलंपाता स्वधार्थे स्यात्स्त्रियां नामायमिष्यते ।चैत्ययज्ञे नमोऽथ स्युर् ए ऐ ओ औ अ ई इ ऊ ।उ हे है भो पाडयेप्याडेते संबोधनार्थकाः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.12 · p. 306
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.107 · p. 258
अन्तरेणाऽन्तरभावे, अ ना नो नहिकं नहि ।नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे ॥ १०७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
genderअindecl.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.29 · p. 7
कोकः पुराणपुरुषो नलिनेशयश्चवासुनेर्नरायणपुनर्वसुविश्वरूपाः ।अः श्रीनिवासधरणीधरवामनैक-शृङ्गाश्च वृष्णिवृषशत्रुदशावताराः ॥ २९ ॥
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास अकाराद्यन्ताः Dharaṇikośa 34.1.1 · p. 234
अ स्वल्पार्थेऽप्यभावे च विष्णावीशे त्वनव्ययम् ।आङितीषदभिव्याप्तिसीमार्थे धातुयोगजे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.76 · p. 128
अ स्वल्पाभाववाचि स्यादाङ् मर्यादेषदर्थयोः ।अभिव्याप्तौ क्रियायोगे स त्वङित्स्मृतिवाक्ययोः ॥ ७६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.2.1 · p. 6
अथैकाक्षरपुल्लिँङ्गा अकारो विष्णुवेधसोः ।कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.4 · p. 1
अः कृष्णे गरुडेऽथाश्च द्रुहिणे पुष्पकेतने ।आ निपातः स्मृतौ वाक्ये कोपसंतापयोस्तथा ॥ ४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश अव्ययवर्गप्रकाशः Śabdaratnāvalī 8.1 · p. 299
अः स्यात्कृष्णे आ विधौ स्याद् इः कामे ईः श्रियामपि ।उः शिवे ऊ विधौ ऋः स्याद्देवमातरि ऋर्दिवि ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.2 · p. 300
अ अभावे निषेधाल्पार्थानुकम्येषु दृश्यते ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2240 · p. 271
एकाक्षरा इहोच्यन्ते पूर्वं नोक्ता यथाक्रमम् ।अस्तु विष्णौ वर्णमात्रे स्यादिः काम उरीश्वरे ॥ २२४० ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययैकाक्षराध्यायः Śabdaratnākara 5.1.2258 · p. 274
उ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् ।अ निषेधे पुमान्विष्णौ वि विचित्रे स्मरे पुमान् ॥ २२५८ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.1 · p. 1
अ-कारः केशवो विष्णुः श्रीकण्ठोऽपि स्वरादिकः ।मस्तकञ्च ललाटञ्च ह्रस्वश्च वरवर्णिनि! ॥ १ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.1 · p. 23
अ-कारो वासुदेवः स्यादाकारश्च पितामहः ।पूजायामपि माङ्गल्ये आ-कारः परिकीर्त्तितः ॥ १ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.47 · p. 64
कीर्त्याख्या कालवक्त्रा च महाकालेन भूषिता ।तपनादिः पञ्चरश्मिः सृष्टिस्थित्यन्तकृद्विधिः ॥ॐ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.10 · p. 284
उ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् ।अ निषेधे पुमान्विष्णावि विचित्रे स्मरे पुमान् ॥ १० ॥
अनुष्टुप्