कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अलम्

alamअ · indecl.

In 11 kośas: 8 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.5 · p. 57
साकं सत्त्रा समं सार्धममा सह कृतं त्वलम् ॥ १५२७ ॥भवत्वस्तु च किं तुल्याः प्रेत्यामुत्र भवान्तरे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कां (wrong syllable)
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.11
अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥
अनुष्टुप्
genderअindecl.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.15 · p. 459
हठे प्रसह्य प्रसभं स्यादभीक्ष्णमनारतम् ।शश्वच्चाथाप्य मा नो ना मा स्मालं न हि वारणे ॥ १५ ॥
अनुष्टुप्
genderअindecl.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.3 · p. 119
अथाव्यया अस्ति भावेऽथाभावे न हि नो अनञ् ।नकीं माकीं तु माकिं च नकिः पृथगलं हलम् ॥अन्तरेणान्तरान्यत्र हिरुक्पृथगृते विना ।नेदथौ खलु नाना च वारणेऽङ्गीकृतौ पुनः ॥ओमामेवमुरर्यूरी स्यादुरी उररी तथा ।परमं चाथ सत्यं स्यादर्धस्वीकारवाचकम् ॥ ३ ॥
अनुष्टुप्
genderअindecl.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 157 · p. 76
भो रे हं हो हयामन्त्रे कश्चित् किञ्चन संशये ।द्राक्क्षणेऽह्नाय सपदि निषेधे मा न खल्वलम् ॥ १५७ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2786 · p. 455
अलमऽस्तु कृतं किञ्च भवतु कथ्यते पुनः ।भवान्तरे ह्यमुत्र स्यात् प्रेत्याऽपि मन्यते किल ॥ २७८६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.12 · p. 306
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
genderअindecl.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2298 · p. 279
अकामानुमतौ कामं प्रायो भूम्नि नमो नतौ ।नीचाह्वाने त्वरे रे च मालं मा स्म च वारणे ॥ २२९८ ॥
अनुष्टुप्
genderअindecl.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.492
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास मान्ताः Dharaṇikośa 34.15.4 · p. 240
अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] ।एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 त (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.9 · p. 132
अलं तु भूषा-प्रतिषेध-शक्ति-पर्याप्ति-वैयर्थ्य-निवारणेषु ।शं स्यात्सुखे मङ्गलवाचकं चसं तु प्रकृष्टे रुचिरे समे च ॥ ९ ॥
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.15 · p. 163
अलं भूषणसामर्थ्यनिषेधेष्वथ मङ्गले ।प्रारम्भकार्त्स्न्ययोः प्रश्नेऽनन्तार्थेऽप्यथो तथा ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.50 · p. 303
किमु सम्भावनायाञ्च विमर्षविदितार्थयोः ।तात्मकोपे स्मृतौ विस्मयकुत्सयोः ।प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः ।शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च ।हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि ।हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥एवमङ्गीकृते वार्थप्रकारेष्वषधारणे ।अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि ।कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि ।नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः ।सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि ।इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि ।साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2260 · p. 274
अलं तु शक्तौ पर्याप्तौ भूषणे विनिवारणे ।अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ॥ २२६० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.13 · p. 285
पीडेर्ष्यानुमतिष्वस्तु स्यादध्यधिक ईश्वरे ।अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे ॥ १३ ॥
अनुष्टुप्