कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समूहनी

samūhanīस्त्री · fem.

In 5 kośas: 5 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.122 · p. 40
समुद्गः संपुटः पेटा स्यान्मञ्जूषाऽथ शोधनी ॥ १०१५ ॥सम्मार्जनी बहुकरी वर्धनी च समूहनी ।
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.60 · p. 126
सम्मार्जनी शोधनी स्याद्वर्धनी च समूहनी ।भवेद्बहुकरीक्षिप्ते संकरोऽवकरस्तथा ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.647 · p. 82
समूहनं तु क्लीबं स्यात् संहतीकरणे तथा ।शरस्य योजने मौर्व्या स्त्रियां तु स्यात् समूहनी ॥ ६४७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.294 · p. 41
मञ्जूषा संपुटः पेटा समुद्गः शोधनी त्वथ ।समूहनी वर्धनी च तथा सम्मार्जनीत्यपि ॥ २९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.37 · p. 52
सम्मार्जनी शोधनी स्यादूहनी च समूहनी ।अथावकर-सङ्कारसङ्कराः त्रितयं पुनः ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.648 · p. 82
सम्मार्जन्यामना ण्यन्तसमूह्यर्थे समूहना ।स्त्रीपुंसयोः सहचरी पीतझिण्ट्याख्यझाटके ॥ ६४८ ॥
अनुष्टुप्