कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · पुरवर्गः

॥ इति पृथ्वीवर्गः ॥

पुरं त्रिलिङ्ग्यां नगरी न पुंसिद्रङ्गो नृलिङ्गो निगमः स्त्रियां पूः ।निवेशनं पत्तन-पट्टने चस्थानीयमुक्तं पुटभेदनं च ॥ १ ॥
2.1.1 · p. 119
उपजातिः
मात्रंशमथ यन्मूलनगरोपान्तगं पुरम् ।तदभिष्यन्दिर[7a]मणं शाखानगरमित्यपि ॥ २ ॥
2.1.2 · p. 119
अनुष्टुप्metre not read in every line
भवेदुपपुरं गृह्या नौभिर्गम्यं च पत्तनम् ।नौभिर्गम्यं पट्टनं स्यात्खेटोऽर्धपुरमस्त्रियाम् ॥ ३ ॥
2.1.3 · p. 119
अनुष्टुप्
अतिपूः शोभनपुरं पुरतुल्यं यथापुरम् ।आयथापुरमेतस्य भावेऽयाथापुरं तथा ॥ ४ ॥
2.1.4 · p. 119
अनुष्टुप्
द्विजानां पूर्द्विजपुरं वेशो वेशाजनाश्रयः ।कोट्टो दुर्गं राजधानी स्कन्धावारश्च सा भवेत् ॥ ५ ॥
2.1.5 · p. 120
अनुष्टुप्
मथुरा स्यान्मधूपघ्नी मधुरा द्वारका पुनः ।कुशस्थली द्वारवती भवेद्विष्णुपदी च सा ॥ ६ ॥
2.1.6 · p. 120
अनुष्टुप्
विशालावन्त्युज्जयिनी सेयं पुष्पकरण्डिनी ।एतस्या निकटोद्यानं भवेत्पुष्पकरण्डकम् ॥ ७ ॥
2.1.7 · p. 120
अनुष्टुप्
माया तु स्याद्धरिद्वारं कान्तिः काञ्चिरुभे स्त्रियौ ।विदेहा मिथिला चाथ गजाह्वं हस्तिनापुरम् ॥ ८ ॥
2.1.8 · p. 120
अनुष्टुप्
हास्तिनं च गया तु स्त्री गयपूरथ पुंसि ना ।कन्याकुब्जं कन्यकुब्जं कौशं द्वंद्वे महोदयम् ॥ ९ ॥
2.1.9 · p. 120
अनुष्टुप्
कुशस्थलं गाधिपुरं [7b] कौशाम्बी वत्सपत्तनम् ।चम्पा तु मालिनी लोमपादपूः कर्णपत्तनम् ॥ १० ॥
2.1.10 · p. 120
अनुष्टुप्metre not read in every line
त्रिपुरी चेदिनगरी विदर्भा कुण्डिनं भवेत् ।निषधा स्यान्नलपुरी दामलिप्तं तमालिनी ॥ ११ ॥
2.1.11 · p. 120
अनुष्टुप्
तामलिप्तं तामलिप्ती स्तम्बपूर्विष्णुमन्दिरम् ।एकचक्रं चाथ पुष्पपुरं पाटलिपुत्रकम् ॥ १२ ॥
2.1.12 · p. 120
अनुष्टुप्
तद्भवस्तु त्रिलिङ्ग्यां स्यात्पूर्वपाटलिपुत्रकः ।कोटिवर्षं बाणपुरं स्याच्छोणितपुरं च तत् ॥ १३ ॥
2.1.13 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
देवीकोटमुमारण्यमिन्द्रप्रस्थं तु दिल्लिका ।माहिष्मती हैहयपूर्वह्निप्राकारिणी च सा ॥ १४ ॥
2.1.14 · p. 120
अनुष्टुप्
माहिष्मतेयस्तज्जः स्यात्कौण्डिनेयस्तथा त्रिषु ।सौवास्तवं सुवास्तोर्यददूरे नगरं भवेत् ॥ १५ ॥
2.1.15 · p. 120
अनुष्टुप्
वैदिशं वार्णशं चैवं विदिशादेरदूरजम् ।दत्तामित्रेण निर्वृत्ता दात्तामित्री पुरी त्रिषु ॥ १६ ॥
2.1.16 · p. 120
अनुष्टुप्
वैधूमाग्नी विधूमाग्निनिर्वृत्ता नगरी भवेत् ।सांकाश्यकस्तु सांकाश्ये भवः काम्पिल्य[8a]कस्त्रिषु ॥ १७ ॥
2.1.17 · p. 121
अनुष्टुप्metre not read in every line
पूर्वैषुकामशम्युक्ता तद्भवस्त्री त्रिलिङ्गके ।स्यान्नागरेयकः पौरो नागरो नगरोद्भवः ॥ १८ ॥
2.1.18 · p. 121
अनुष्टुप्
संकुत्सितः प्रवीणो वा भवेन्नागरकस्त्रिषु ।स्यात्पौर्वनगरेयश्च यः पूर्वनगरीभवः ॥ १९ ॥
2.1.19 · p. 121
अनुष्टुप्
तथैव नान्दीपुरक एकचक्रिक इत्यपि ।कास्तीरं तु द्वयोनं स्यादीषत्तीरयुतं पुरम् ॥ २० ॥
2.1.20 · p. 121
अनुष्टुप्
पुरभेदा अजस्तुन्दं वत्सगुल्मं तथा परे ।मुखं निःसरणं तुल्ये पुरोटिः पुरसंस्कृतिः ॥ २१ ॥
2.1.21 · p. 121
अनुष्टुप्
खगं साल्वपुरं सौभमथ तन्मायया कृतम् ।गन्धर्वनगरं प्रोक्तमथ पांसुकुलं भवेत् ॥ २२ ॥
2.1.22 · p. 121
अनुष्टुप्
रथ्या प्रतोली विशिखा निषद्या हट्ट आपणः ।क्रयारोहो महाघोषं जन्यं ग्राममुखं च तत् ॥ २३ ॥
2.1.23 · p. 121
अनुष्टुप्
अट्टोऽस्त्री निगमो द्वंद्वे विपणिः स्याद्वणिक्पथः ।क्रयस्थली पण्यवीथी वासनी विपणिर्द्वयोः ।बहुमानवसंकीर्णं निर्मुटं च कचङ्गनम् ॥ २४ ॥
2.1.24 · p. 121
अनुष्टुप्
वीथी गृह[8b]तटी हट्टी पलिघः शालगोपुरम् ।शालः सालश्च वरणः प्राकारोऽथाश्मपीठभूः ॥ २५ ॥
2.1.25 · p. 121
अनुष्टुप्metre not read in every line
वप्रः पुमान्वप्रमस्त्री नेमं * * * * * * ।प्राकारीया इष्टकाद्या याः प्राकारहितास्त्रिषु ॥ २६ ॥
2.1.26 · p. 121
metre not recognised
कषीशीर्षं(?) तु तस्याग्रं प्राचीनं वाटिका वृतिः ।आवेष्टकोऽन्त्ये प्राचीरं कुड्यं भित्तिश्च भित्तिका ॥ २७ ॥
2.1.27 · p. 121
अनुष्टुप्
भवेदेडूकमेडोकं तदन्तर्न्यस्तकीकसम् ।कन्था तु मृन्मयी भित्तिः प्राग्भारोऽस्यावतारभूः ॥ २८ ॥
2.1.28 · p. 122
अनुष्टुप्
स्यादिष्टकचिता या स्यादिष्टकाभिश्चिता त्रिषु ।एवं पक्वेष्टकचिताथाश्रयो वृषयः पुमान् ॥ २९ ॥
2.1.29 · p. 122
अनुष्टुप्
ओकः पदास्पदे स्थानमस्त्र्युपघ्नोऽन्तिकाश्रयः ।भीरुष्ठानं तु गदितं चकितस्याश्रयो हि यः ॥ ३० ॥
2.1.30 · p. 122
अनुष्टुप्
अधस्पदं पदं वाधः शिरसस्तच्छिरस्पदम् ।त्रिषु स्यात्प्रतिवेशी स्वगृहोपान्तगृहाधिपः ॥ ३१ ॥
2.1.31 · p. 122
अनुष्टुप्
वासो निवासो निलयो निवेशःक्षयो निकाय्यावसथाश्रयाश्च ।प्राणन्त(?) आवास इहा[9a]लयः स्यात्संस्त्याय उक्तोऽत्र गृहा नृभूम्नि ॥ ३२ ॥
2.1.32 · p. 122
उपजातिःmetre not read in every line
कुटिर्द्वयोः पुंसि न मन्दिरा स्यात्स्त्रियां न गेहं भवनं च वास्तु ।स्थानं च धानं वसतिश्च शालासभा निशान्तं च निकेतनं च ॥ ३३ ॥
2.1.33 · p. 122
उपजातिः
आगारं स्यादुदवसितमगारं गृहं चोक्तमोकोवस्त्यं पस्त्यं सदन-शरणे सादनं धाम धामम् ।धिष्ण्यं धर्त्रं विशिपकुलयुक् समवाश्रं च (?) घरं स्याद्--वेश्याथास्मिन्मणिविरचिते न स्त्रियां कुट्टिमः स्यात् ॥ ३४ ॥
2.1.34 · p. 122
metre not recognisednearly मन्दाक्रान्ता
त्रिष्वावसथिको ह्यावसतिकान्तिकवासिनि ।स्त्रियां त्वावसथक्युक्ता गोमुखं कुटिलं गृहम् ॥ ३५ ॥
2.1.35 · p. 122
अनुष्टुप्
अल्पकुट्यां कुटीरोऽस्त्री खाटिस्तल्पगृहे स्त्रियाम् ।जलवाट् जङ्गमकुटी कावारी मूर्धकर्पटी ॥ ३६ ॥
2.1.36 · p. 122
अनुष्टुप्
चतुःशालं चतुःशाली क्लीबे संजवनं भवेत् ।वयुनं स्यादायतनं देवलो देवतागृहम् ॥ ३७ ॥
2.1.37 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
देवक्षितीशयोर्गेहे प्रासादः पुंसि सम्मतः ।सौधोऽस्त्री[9b] भूभुजां गेहे हर्म्यं धनवतामिदम् ॥ ३८ ॥
2.1.38 · p. 123
अनुष्टुप्metre not read in every line
बुद्धादेस्तु विहारोऽस्त्री चैत्यं गन्धकुटी स्त्रियाम् ।आवसथ्यं क्लीबमावसथः पुंसि मठस्त्रिषु ॥ ३९ ॥
2.1.39 · p. 123
अनुष्टुप्
शिष्यवेश्मन्यथास्त्री स्यादुटजः पर्णशालिका ।तृण्यागेहं कायमानं छप्परं मयटस्तथा ॥ ४० ॥
2.1.40 · p. 123
अनुष्टुप्
खसृमः स्यात्कटकुटिः सौधाग्रं चन्द्रशालिका ।आश्रमोऽस्त्री मुनिस्थानं सिद्धौकः क्षेत्रमस्त्रियाम् ॥ ४१ ॥
2.1.41 · p. 123
अनुष्टुप्
होत्रीयं स्याद्धविर्धानी प्राग्वंशः प्राकृतो गृहम् ।आथर्वणं शान्तिगृहं कोशोऽस्त्री भाण्डमन्दिरम् ॥ ३० ॥
2.1.30 · p. 123
अनुष्टुप्
अपवरको गर्भगृहं भोगावासोऽपि शय्यौकः ।इन्द्रकमास्थानगृहं संधानी कुप्यशाला स्यात् ॥ ३१ ॥
2.1.31 · p. 123
metre not recognised
अरिष्टं सूतिकागारं गञ्जा स्त्री मदिरागृहम् ।तैलशाला यन्त्रगृहं चित्रशाला तु जालिनी ॥ ३२ ॥
2.1.32 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
तन्तुशाला गर्त्तिका स्यात्सत्त्रशाला प्रतिश्रयः ।आवेशनं शिल्पिशाला कर्मशा[10a]ला च सा भवेत् ॥ ३३ ॥
2.1.33 · p. 123
metre not recognised
अन्वासनं चाथ कुम्भशाला पाकपुटी भवेत् ।संदानिनी तु गोशाला वाजिशाला तु मन्दुरा ॥ ३४ ॥
2.1.34 · p. 123
अनुष्टुप्
गोशालः खरशालश्च तत्तच्छालाभवे त्रिषु ।वत्सशालो वात्सशालो वाजिस्थानश्च तद्भवः ॥स्यात्पौर्वशाला पूर्वस्यां शालायां हि भवा त्रिषु ।पूर्वशाला प्रिया यस्य पूर्वशालाप्रियश्च सः ॥चतुरं हस्तिशाला स्यादुष्ट्रगोष्ठं मयस्थलम् ।वापशाला खरकुटी भवेन्नापितशालिका ॥ ३५ ॥
2.1.35 · p. 123
अनुष्टुप्
प्रपा पानीयशाला स्याच्छ्रीग्रहः शकुनिप्रपा ।स्त्र्य * * * * शुद्धान्तोऽस्त्री क्लीबे त्ववरोधनम् ॥ ३६ ॥
2.1.36 · p. 124
अनुष्टुप्metre not read in every line
अन्तःपुरं च राज्ञां यत्स्त्रीजनस्य निकेतनम् ।अट्टोऽस्त्र्यट्टालको द्वंद्वे क्षौमं कथितमस्त्रियाम् ॥ ३७ ॥
2.1.37 · p. 124
अनुष्टुप्
अन्नकोष्ठः कुशूलः स्याद्वलतो(?)ऽथोपकारिका ।उपकार्याथ वलभी गृहोपरि कुटी मता ॥पूर्वेषां वसतिस्थानं भवेदभिजनः पुमा[10b]न् ।आत्मना वसतिस्थानं निवासः परिकीर्त्यते ॥मण्डपोऽस्त्री जनस्थानमथ वातायनोऽस्त्रियाम् ॥ ३९ ॥
2.1.39 · p. 124
अनुष्टुप्
गवाक्षो जालकं जालीः सिंहद्वारं प्रवेशनम् ।तोरणोऽस्त्री बहिर्द्वारं तदूर्ध्वं मङ्गलस्रजि ॥ ४० ॥
2.1.40 · p. 124
अनुष्टुप्
स्त्रियां वन्दनमाला स्याद्द्वारं बलजमन्तिमे ।प्रतिहारः स्त्रियां च द्वाः पक्षद्वारं तु पक्षकः ॥ ४१ ॥
2.1.41 · p. 124
अनुष्टुप्
प्रच्छन्नमन्तर्द्वारं च तस्मिन्खिडकिका स्त्रियाम् ।बलजं गोपुरं कूटोऽस्त्री पुरद्वारि सम्मतः ॥ ४२ ॥
2.1.42 · p. 124
अनुष्टुप्
तत्स्रुघ्नाद्यभिनिष्पन्नं स्रौघ्नं माथुरमन्यवत् ।द्वारपिण्डी तु वारुण्डी * * * * * * * * ।द्वाराधोदारुणि शिला शिली नासा त्विहोर्ध्वगा ॥ ४३ ॥
2.1.43 · p. 124
अनुष्टुप्metre not read in every line
उत्तरङ्गं मतं तिर्यग्द्वारस्योपरि दारु यत् ॥ ४३ ॥
2.1.43 · p. 124
शालारं स्याद्धस्तिनखः पुरद्वारावरोहणः ॥ ४४ ॥
2.1.44 · p. 124
स्तूपोऽस्त्रियां मृदां कूटोऽलिन्दस्त्वालिन्दकोऽस्त्रियौ ।प्रघाण-प्रघणौ पुंसि बहिर्द्वार-प्रकोष्ठके ॥ ४५ ॥
2.1.45 · p. 124
अनुष्टुप्
स्त्रियां कक्षा प्रको[11a]ष्ठः स्यात्कलाची च निगद्यते ।गृहावग्रहणी देहल्युम्बरोदुम्बराम्बराः ॥ ४६ ॥
2.1.46 · p. 124
अनुष्टुप्metre not read in every line
अङ्गनं प्राङ्गनं क्लीबेऽजिरं चत्वरमङ्गणम् ।छदौ छदिश्छादिषौ स्त्री कुलालं पटलं त्रिषु ॥ ४७ ॥
2.1.47 · p. 125
अनुष्टुप्
परवालं(?) चाथ न स्त्री वलीको नीध्रमन्तिमे ।छदिप्रान्तेऽथ वलभी स्त्रियां स्याच्छदिराश्रयः ॥ ४८ ॥
2.1.48 · p. 125
अनुष्टुप्
छादिषेयं त्रिषु भवेद्यद्धितं छदिषे भवेत् ।गोपानसी तु वलभी छादनं वक्रदारु यत् ।कपोतपालिकायां तु विटङ्को न स्त्रियां भवेत् ॥ ४९ ॥
2.1.49 · p. 125
अनुष्टुप्
चत्वरं स्थण्डिलं क्लीबे स्त्री वितर्दिश्च वेदिका ।वरण्डोऽस्त्र्यन्तरावेदिर्भूया * * परिष्कृता ॥ ५० ॥
2.1.50 · p. 125
अनुष्टुप्metre not read in every line
द्विस्तावा सा द्वित्रिगुणा त्रिस्तावाथ तमङ्गकः ।इन्द्रकोशः शेखरोऽस्त्री निर्यूहो निर्गतं बहिः ॥ ५१ ॥
2.1.51 · p. 125
अनुष्टुप्
स्थूणा तु धारणं स्तम्भः स्थूणं चापि नपुंसकम् ।गृहे स्थूणं क्लीबमेव शालभञ्जी तु पुत्रिका ॥ ५२ ॥
2.1.52 · p. 125
अनुष्टुप्
पाञ्चाली या पुत्तलिका व[11b]स्त्रदन्तादिनिर्मिता ।दारुगर्भा दारुपुत्री कुरण्टी च निगद्यते ।किर्महेय्य(?)कृता लेप्यरचिताञ्जलिकारिका ॥ ५ ॥
2.1.5 · p. 125
अनुष्टुप्metre not read in every line
कपाटी च कवाटी च त्रिषु स्यादररी न ना ।अरिः स्त्रियामथैतस्य विष्कम्भिन्यर्गलस्त्रिषु ॥ ५५ ॥
2.1.55 · p. 125
अनुष्टुप्
आर्घटः परिघोऽल्पोऽसौ भवेदर्गलिका स्त्रियाम् ।सूचिः साधारणी तु स्यात्कुचिः कुञ्ची च कुञ्चिका ॥ ५६ ॥
2.1.56 · p. 125
अनुष्टुप्
तालकं द्वारयन्त्रं स्यात्प्रतिताली तु तालिका ।तद्यन्त्रेत्येतु(?)सोपानमारोहणवदीरितम् ।निःश्रेणिः स्त्र्यधिरोहिण्यां संनिवेशो निकर्षणः ॥ ५८ ॥
2.1.58 · p. 125
अनुष्टुप्
स्वस्तिकः सर्वतोभद्रो रुचको वर्धमानकः ।नन्द्यावर्तादयोऽन्ये च भेदा वैच्छन्दका मताः ॥ ५९ ॥
2.1.59 · p. 125
अनुष्टुप्
सम्मार्जनी शोधनी स्याद्वर्धनी च समूहनी ।भवेद्बहुकरीक्षिप्ते संकरोऽवकरस्तथा ॥ ६० ॥
2.1.60 · p. 126
अनुष्टुप्
अवस्करोऽवस्करजे स्यादवस्करकस्त्रिषु ।संवसथः परिवसथः प्र[12a]तिवसथो पवसथौनिवसथश्च ।* * * * * * * * * * * * ग्रामः ॥ ५७ ॥
2.1.57 · p. 126
अनुष्टुप्metre not read in every line
ग्रामार्धं पाटकः पुंसि * * * * * * * * ।द्विशतग्राममध्ये यो महाग्रामो मनोहरः ।स कर्वटः खर्वटोऽस्त्री भवेद्द्रोणमुखं पुनः ॥ ६२ ॥
2.1.62 · p. 126
अनुष्टुप्metre not read in every line
चतुःशतग्राममध्ये महीयान्ग्राम उच्यते ।ग्रामेवासो ग्रामवासो ग्रामेवास्यादयस्तथा ।दर्दुरो ग्रामजालं स्याद्गोमुखं तु विलेपनम् ॥ ६३ ॥
2.1.63 · p. 126
अनुष्टुप्metre not read in every line
प्रकरी चत्वरमही ग्रामेया त्रिषु तद्धिता ।ग्रामेयकस्तु कथितो ग्रामीणो ग्राम्य इत्यपि ॥दाक्षीग्रामीय उदितो यो दाक्षीग्रामसंभवः ।एकग्रामीयमेवं स्यात्समूहे ग्रामता स्त्रियाम् ॥ग्रामान्त उपशल्यं स्यादत्र सीमेयनादिते (?) ।अवधिर्घट आघाटः सीमा स्त्री सीम पुं सिमः ॥ ६४ ॥
2.1.64 · p. 126
अनुष्टुप्
स्थितिः स्त्र्यन्तोऽवसानं च मर्यादाथ तयोज्झिते ।निःसीममपसीमं च क्लीबाव्ययमुदीरितः ॥ ६५ ॥
2.1.65 · p. 126
अनुष्टुप्
अल्पग्रामस्तु पल्ली स्याद्भवेद्ग्रामटिका च सा ।[12b]पक्कणः शबरावासो घोष आभीरपल्लिका ॥ ६६ ॥
2.1.66 · p. 126
अनुष्टुप्
वेदानामेष वैदः स्याद्गार्गो दाक्षश्च तादृशः ॥
2.1.77 · p. 126