कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

तिर्यक्काण्डः · पृथ्वीकायः (2/2)

नन्द्यावर्तप्रभृतयो विच्छन्दा आढ्यवेश्मनाम् ।
4.1.121 · p. 40
अनुष्टुप्
समुद्गः संपुटः पेटा स्यान्मञ्जूषाऽथ शोधनी ॥ १०१५ ॥सम्मार्जनी बहुकरी वर्धनी च समूहनी ।
4.1.122 · p. 40
अनुष्टुप्
संकरावकरौ तुल्यावुदूखलमुलूखलम् ॥ १०१६ ॥
4.1.1016 · p. 40
अनुष्टुप्
प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् ।
4.1.124 · p. 40
अनुष्टुप्
कटः किलिञ्जो मुसलोऽयोग्रं कण्डोलकः पिटम् ॥ १०१७ ॥
4.1.1017 · p. 40
अनुष्टुप्
चालनी तितउः शूर्पं प्रस्फोटनमथान्तिका ।चुल्ल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा ॥ १०१८ ॥
4.1.1018 · p. 40
अनुष्टुप्
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
4.1.1019 · p. 40
अनुष्टुप्
हसन्यङ्गाराच्छकटीधानीपात्र्यो हसन्तिका ।
4.1.128 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ऋ (wrong syllable)
भ्राष्ट्रोऽम्बरीष ऋचीषमृजीषं पिष्टपाकभृत् ॥ १०२० ॥
4.1.1020 · p. 40
अनुष्टुप्metre not read in every line
कम्बिर्दर्विः खजाकाथ स्यात्तर्दूर्दारुहस्तकः ।
4.1.130 · p. 40
अनुष्टुप्
वार्धान्यां तु गलन्त्यालूः कर्करी करकोऽथ सः ॥ १०२१ ॥
4.1.1021 · p. 40
अनुष्टुप्
नालिकेरजः करङ्कस्तुल्यौ कटाहकर्परौ ।
4.1.132 · p. 40
अनुष्टुप्metre not read in every line
मणिकोऽलिंजरो गर्गरीकलस्यौ तु मन्थनी ॥ १०२२ ॥
4.1.1022 · p. 40
अनुष्टुप्metre not read in every line
वैशाखः खजको मन्था मन्थानो मन्थदण्डकः ।मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ १०२३ ॥
4.1.1023 · p. 40
अनुष्टुप्
शालाजीरो वर्धमानः शरावः कोशिका पुनः ।मल्लिका चषकः कंसः पारी स्यात्पानभाजनम् ॥ १०२४ ॥
4.1.1024 · p. 40
अनुष्टुप्
कुतूश्चर्मस्नेहपात्रं कुतुपं तु तदल्पकम् ।
4.1.136 · p. 40
अनुष्टुप्
दृतिः खल्लश्चर्ममयी त्वालूः करकपात्रिका ॥ १०२५ ॥
4.1.1025 · p. 40
अनुष्टुप्
सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् ।
4.1.138 · p. 40
अनुष्टुप्
तद्विशालं पुनः स्थालं स्यात्पिधानमुदञ्चनम् ॥ १०२६ ॥
4.1.1026 · p. 40
अनुष्टुप्
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
4.1.1027 · p. 40
शार्दूलविक्रीडितम्
हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः ।
4.1.141 · p. 40
अनुष्टुप्
रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः ॥ १०२८ ॥
4.1.1028 · p. 40
अनुष्टुप्
क्रौञ्चः क्रुञ्चोऽथ मलय आषाढो दक्षिणाचलः ।
4.1.143 · p. 40
अनुष्टुप्
स्यान्माल्यवान्प्रस्रवणो विन्ध्यस्तु जलबालकः ॥ १०२९ ॥
4.1.1029 · p. 40
अनुष्टुप्
शत्रुंजयो विमलाद्रिरिन्द्रकीलस्तु मन्दरः ।
4.1.145 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
सुवेलः स्यात्त्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः ॥ १०३० ॥
4.1.1030 · p. 40
अनुष्टुप्metre not read in every line
उज्जयन्तो रैवतकः सुदारुः पारियात्रकः ।
4.1.147 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रै (wrong syllable)
लोकालोकश्चक्रवालोऽथ मेरुः कर्णिकाचलः ॥ १०३१ ॥रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः ।
4.1.148 · p. 40
metre not recognised
शृङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः ॥ १०३२ ॥
4.1.1032 · p. 40
अनुष्टुप्
मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः ।
4.1.150 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
दरी स्यात्कन्दरोऽखातबिले तु गह्वरं गुहा ॥ १०३३ ॥
4.1.1033 · p. 40
अनुष्टुप्metre not read in every line
द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः ।
4.1.152 · p. 40
अनुष्टुप्
दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ॥ १०३४ ॥
4.1.1034 · p. 40
अनुष्टुप्
अधित्यकोर्ध्वभूमिः स्यादधोभूमिरुपत्यका ।
4.1.154 · p. 40
अनुष्टुप्
स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ॥ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्च्युताः ।
4.1.155 · p. 40
अनुष्टुप्
स्यादाकरः खनिः खानिर्गञ्जा धातुस्तु गैरिकम् ॥ १०३६ ॥
4.1.1036 · p. 40
अनुष्टुप्
शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ।
4.1.157 · p. 40
अनुष्टुप्
लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम् ॥ १०३७ ॥गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः ।
4.1.158 · p. 40
अनुष्टुप्
सिंहानधूर्तमण्डूरसरणान्यस्य किट्टके ॥ १०३८ ॥
4.1.1038 · p. 40
अनुष्टुप्
सर्वं च तैजसं लोहं विकारस्त्वयसः कुशी ।
4.1.160 · p. 40
अनुष्टुप्
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् ॥ १०३९ ॥म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम् ।ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् ॥ १०४० ॥नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् ।वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०४१ ॥
4.1.1041 · p. 40
अनुष्टुप्metre not read in every line
वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे ।स्याच्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ १०४२ ॥
4.1.1042 · p. 41
इन्द्रवंशा
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
4.1.163 · p. 41
metre not recognised
हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृते ॥ १०४५ ॥
4.1.1045 · p. 41
अनुष्टुप्
कुप्यं तु तद्द्वयादन्यद्द्रूप्यं तद्द्वयमाहतम् ।
4.1.165 · p. 41
अनुष्टुप्
अलंकारसुवर्णं तु शृङ्गीकनकमायुधम् ॥ १०४६ ॥
4.1.1046 · p. 41
अनुष्टुप्
रजतं च सुवर्णं च संश्लिष्टे घनगोलकः ।
4.1.167 · p. 41
अनुष्टुप्
पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् ॥ १०४७ ॥रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् ।
4.1.168 · p. 41
अनुष्टुप्
ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ १०४८ ॥
4.1.1048 · p. 41
अनुष्टुप्
कांस्ये विद्युत्प्रियं घोषं प्रकाशं वङ्गशुल्वजम् ।घण्टाशब्दमसुराह्वं रवणं लोहजं मलम् ॥ १०४९ ॥
4.1.1049 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
सौराष्ट्रके पञ्चलौहं वर्तलोहं तु वर्तकम् ।
4.1.171 · p. 41
अनुष्टुप्
पारदः पारतः सूतो हरबीजं रसश्चलः ॥ १०५० ॥
4.1.1050 · p. 41
अनुष्टुप्
अभ्रकं स्वच्छपत्त्रं खं मेघाख्यं गिरिजामले ।
4.1.173 · p. 41
अनुष्टुप्
स्रोतोऽञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ १०५१ ॥
4.1.1051 · p. 41
अनुष्टुप्
अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके ।
4.1.175 · p. 41
अनुष्टुप्
मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ १०५२ ॥
4.1.1052 · p. 41
अनुष्टुप्
स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् ।
4.1.177 · p. 41
अनुष्टुप्
रसगर्भं तार्क्ष्यशैलं तुत्थे दार्वीरसोद्भवे ॥ १०५३ ॥
4.1.1053 · p. 41
अनुष्टुप्
पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च ।
4.1.179 · p. 41
अनुष्टुप्
माक्षिकं तु कदम्बः स्याच्चक्रनामाजनामके ॥ १०५४ ॥
4.1.1054 · p. 41
अनुष्टुप्
ताप्ये नदीजः कामारिस्तारारिर्विटमाक्षिकः ।
4.1.181 · p. 41
अनुष्टुप्
सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ १०५५ ॥आढकी तुबरी कंसोद्भवा काक्षी मृदाह्वया ।
4.1.182 · p. 41
अनुष्टुप्
कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १०५६ ॥
4.1.1056 · p. 41
अनुष्टुप्
द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् ।
4.1.184 · p. 41
अनुष्टुप्
गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् ।विडालकं विस्रगन्धि खर्जूरं वंशपत्त्रकम् ॥ १०५८ ॥आलपीतनतालानि गोदन्तं नटमण्डनम् ।वङ्गारिर्लोमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ ॥करवीरा नागमाता रोचनी रसनेत्रिका ।नैपाली कुनटी गोला मनोह्वा नागजिह्विका ॥ १०६० ॥
4.1.1060 · p. 41
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् ।चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १०६१ ॥
4.1.1061 · p. 41
अनुष्टुप्
शिलाजतु स्याद्गिरिजमर्थ्यं गैरैयमश्मजम् ।
4.1.187 · p. 41
अनुष्टुप्
क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलत्थिका ॥ १०६२ ॥
4.1.1062 · p. 41
अनुष्टुप्
बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः ।
4.1.189 · p. 41
अनुष्टुप्
रत्नं वसु मणिस्तत्र वैदूर्यं वालवायजम् ॥ १०६३ ॥
4.1.1063 · p. 41
अनुष्टुप्
मरकतं त्वश्मगर्भं गारुत्मतं हरिन्मणिः ।
4.1.191 · p. 41
metre not recognised
पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपलाः ॥ १०६४ ॥
4.1.1064 · p. 41
metre not recognised
नीलमणिस्त्विन्द्रनीलः सूचीमुखं तु हीरकः ।वरारकं रत्नमुख्यं वज्रपर्यायनाम च ॥ १०६५ ॥
4.1.1065 · p. 41
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 2, syllable 3 मु (wrong syllable)
विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः ।रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १०६६ ॥
4.1.1066 · p. 41
अनुष्टुप्
सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः ।
4.1.195 · p. 41
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable); pāda 3, syllable 5 श्च (wrong syllable)
चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७ ॥
4.1.1067 · p. 41
metre not recognised
क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ ।
4.1.197 · p. 42
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 टि (wrong syllable); pāda 4, syllable 3 फ (wrong syllable)
शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥ १०६८ ॥
4.1.1068 · p. 42
metre not recognised