कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सङ्कर

saṅkaraपुं · masc.

In 5 kośas: 4 synonym verses, 4 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.18
सम्मार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.302 · p. 36
गृहावग्रहणी प्रोक्ता देहली तु मनीषिभिः ।सम्मार्जनी वर्धनी स्यात्सङ्करोऽवकरः स्मृतः ॥ ३०२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1746 · p. 284
गृहप्रकीर्णधूल्यादि सङ्करोऽवकरो भवेत् ॥ १७४६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.37 · p. 52
सम्मार्जनी शोधनी स्यादूहनी च समूहनी ।अथावकर-सङ्कारसङ्कराः त्रितयं पुनः ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1925 · p. 215
पञ्चरात्रपयःपानव्रतेऽथ मिलिते त्रिषु ।सङ्करोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते ॥ १९२५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1926 · p. 215
सङ्कीर्णे सङ्करी तु स्त्री कन्याभेदे नृदूषिते ।सहर्षस्तु पुमान् वायौ त्रि स्पर्धनसमानयोः ॥ १९२६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.107 · p. 274
शुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः ।शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु ॥शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे ।क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् ॥सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च ।बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च ॥सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 7 न्दु (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.109 · p. 274
क्लीबन्तु प्रतियत्नान्तर्भावमानसकर्मसु ।सङ्गरस्तु क्रियाकारे विषाङ्गीकारयोर्युधि ॥
अनुष्टुप्
doubtful