कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

द्वितीयः परिच्छेदः (3/4)

प्राग्दक्षिणस्तथा प्राच्यो नदीं यावच्छरावतीम् ।प्रत्यन्तो म्लेच्छदेशोऽथोदीच्यः स्यात्पश्चिमोत्तरः ॥ २४१ ॥
2.241 · p. 34
अनुष्टुप्
निर्जलो जङ्गलो देशः कच्छोऽनूपोऽम्बुमान्स्मृतः ।कृष्णमृ[20]त्कृष्णभूमः स्यात्कुमुद्वान्कुमुदालयः ॥ २४२ ॥
2.242 · p. 34
अनुष्टुप्
नड्वलश्च नडप्रायो नडकीयोऽपि कथ्यते ।सपङ्कः पङ्किलो देशः शर्करावांश्च शार्करः ॥ २४३ ॥
2.243 · p. 35
अनुष्टुप्
नद्यम्बुजीवनो देशः स्यान्नदीमातृकः पुनः ।शाड्वलः शादहरितो वेतस्वान्बहुवेतसः ॥ २४४ ॥
2.244 · p. 35
अनुष्टुप्
वृष्टिजीवन आख्यातो मण्डलं देवमातृकः ।डाहलास्त्रैपुरा देशा मालवाश्चाप्यवन्तयः ॥ २४५ ॥
2.245 · p. 35
अनुष्टुप्
माधुमताश्च काश्मीरास्तर्जिकास्तायिका मताः ।दशेरकाश्च मरवो वाहीकाष्टक्किसंज्ञिताः ॥ २४६ ॥
2.246 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अङ्गाश्चम्पोपलक्ष्याः स्युर्मगधाः कीकटाः स्मृताः ।कुमालकाश्च सौवीराश्चेदयश्चैद्यसंज्ञकाः ॥ २४७ ॥
2.247 · p. 35
अनुष्टुप्
केरला औड्रनामानो वाह्लीका वह्लिका मताः ।मुरण्डाश्चापि लम्पाकाः शाखयश्च तुरुष्ककाः ॥ २४८ ॥
2.248 · p. 35
अनुष्टुप्
ग्रामो निवसथश्चापि तथा संवसथः स्मृतः ।तदर्धे पाटकः प्रोक्तः सीमाघाटो घटोऽवधिः ॥ २४९ ॥
2.249 · p. 35
अनुष्टुप्
मर्यादान्तोऽवसानं चोपशल्यं ग्रामसीमनि ।ग्रामन्तराटवी मालं कर्मान्तोऽपि च कर्मभूः ॥ २५० ॥
2.250 · p. 35
अनुष्टुप्
पर्यन्तभूः परिसरो गोस्थानं गोष्ठमेव च ।गोष्ठीनं भूतपूर्वं च गवीनं चाशितं हि तत् ॥ २५१ ॥
2.251 · p. 36
अनुष्टुप्
यत्राशिताः पुरा गावः क्षेत्रं वप्रस्तथोच्यते ।केदारः सेतुपाल्यालिसंवराः सारणिः स्तथा ॥ २५२ ॥
2.252 · p. 36
अनुष्टुप्
धूली रेणू रजः पांशुश्चूर्णं क्षोदः खलं पुनः ।खलधानं दलिर्लोष्टे लेष्टुलोष्टू तु कुत्रचित् ॥ २५३ ॥
2.253 · p. 36
अनुष्टुप्
मेधिर्मेथिः खले काष्ठं पशुबन्धाय निर्मितम् ।वल्मीको वामलूरश्च नाकुः कृमिगिरिस्तथा ॥ २५४ ॥
2.254 · p. 36
अनुष्टुप्
वम्रीकूटं शक्रमूर्धा पूः पुरी नगरी पुनः ।द्रङ्गोद्रङ्गौ समौ तत्र पत्तनं पुटभेदनम् ॥ २५५ ॥
2.255 · p. 36
अनुष्टुप्
निगमो निवेशनं च स्थानीयं च निगद्यते ।दुर्गं कोट्टं स्कन्धावारराजधान्यौ महीयसि ॥ २५६ ॥
2.256 · p. 36
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable); pāda 3, syllable 5 स्क (wrong syllable)
पुरार्धविस्तरः खेटः तथा शाखापुरे पुनः ।उपपूर्वपुरे चाथ कन्याकुब्जं महोदयम् ॥ २५७ ॥
2.257 · p. 36
अनुष्टुप्
कान्यकुब्जं गाधिपुरं काश्यां वाराणसीत्यपि ।[21] वराणसी शिवपुरी विदेहा मिथिलापि च ॥ २५८ ॥
2.258 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गा (wrong syllable)
अयोध्यायां च साकेतं कोशलापि च दृश्यते ।उज्जयिन्यामवन्ती च तथा पुष्पकरण्डिनी ॥ २५९ ॥
2.259 · p. 37
अनुष्टुप्
चम्पा च मालिनी चेदिपुरी तु त्रिपुरी स्मृता ।मथुरायां मधूपघ्नं मधुराथ तमालिनी ॥ २६० ॥
2.260 · p. 37
अनुष्टुप्
तामलिप्तं दामलिप्तं तामलिप्तीत्यपीक्ष्यते ।गजनामपुरं हस्तिनापुरं हस्तिनीपुरम् ॥ २६१ ॥
2.261 · p. 37
अनुष्टुप्
कुण्डिनं च विदर्भायां नलस्य निषधा पुरी ।तथा पाटलिपुत्रं च कुसुमाख्यपुरं तथा ॥ २६२ ॥
2.262 · p. 37
अनुष्टुप्
वत्सपत्तनकौशाम्ब्यौ द्वारका द्वारवत्यपि ।वप्रोऽथ वरणः साले चयः प्राकार एव च ॥ २६३ ॥
2.263 · p. 37
अनुष्टुप्
कपिशीर्षं तु वप्राग्रं क्षोमाट्टाट्टालकाः समाः ।प्रतोल्यां गोपुरं रथ्या विशिखापि तथोच्यते ॥ २६४ ॥
2.264 · p. 37
अनुष्टुप्
आवेष्टको वृतिर्वाटो मार्गोऽध्वा सरणिः सृतिः ।निगमः पद्धतिः पद्या पन्था एकपदी पुनः ॥ २६५ ॥
2.265 · p. 37
अनुष्टुप्
पदवी वर्त्म मञ्जुः स्यात्सुपन्थाश्चातिपूर्वकः ।अपन्था अपथं चैव उन्मार्गो मार्गवर्जिते ॥ २६६ ॥
2.266 · p. 37
अनुष्टुप्
दुरध्वः कापथो व्यध्वा कदध्वा विपथं तथा ।प्रान्तरं दूरशून्योऽसो कान्तारो दुर्गमो मतः ॥ २६७ ॥
2.267 · p. 37
अनुष्टुप्
भुवोऽन्तरं गूढमार्गः सुरुङ्गा सन्धिलापि सा ।चतुष्पथं चतुष्कं च संस्थानं च निगद्यते ॥ २६८ ॥
2.268 · p. 38
अनुष्टुप्
त्रिपथे तु त्रिकं घन्टापथः संसरणं च तत् ।राजमार्गश्रीपथौ च महामार्गोपनिष्करे ॥ २६९ ॥
2.269 · p. 38
अनुष्टुप्
मार्गत्रयं च शृङ्गाटं चत्वरं बहुपथं स्मृतम् ।मन्दिरं सदनं गेहं गृहं सद्म निकेतनम् ॥ २७० ॥
2.270 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निकाय्यो नीलयो वेश्मालयो भवनमुच्यते ।धामावासो निवासोऽपि निशान्तं धिष्ण्यमाश्रयः ॥ २७१ ॥
2.271 · p. 38
अनुष्टुप्
अगारं शरणं पस्त्यं संस्त्यायावसथावपि ।स्थानौकसी गृहा भूम्नि क्षयकूटौ तथा कुलम् ॥ २७२ ॥
2.272 · p. 38
अनुष्टुप्
मण्यादिर्भिबद्धभूमिः कुट्टिमं कथितं च तत् ।हर्म्यं धनिगृहं प्रासादो देवानां च भूपतेः ॥ २७३ ॥
2.273 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्भि (wrong syllable)
शिरोगृहं चन्द्रशाला कोषः स्याद्भाण्डधामनि ।सौधं राजगृहं छात्रावासेऽप्यावस[22]थः स्मृतः ॥ २७४ ॥
2.274 · p. 38
अनुष्टुप्
मठावसथ्यौ वासौकः स्वापगृहमुदीरितम् ।उटजः पर्णशाला स्याच्चैत्यं बौद्धजिनालये ॥ २७५ ॥
2.275 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प (wrong syllable)
विहारोऽपि च तत्रैव कायमानं तृणगृहम् ।संधानी कुप्यशाला स्यान्मन्दुरा वाजिनां गृहम् ॥ २७६ ॥
2.276 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ण (wrong syllable)
गर्भधामापवरके पाकधाम महानसम् ।यन्त्रगृहं तैलशाला गर्तिका तन्तुधामनि ॥ २७७ ॥
2.277 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
चतुरं करिणां शाला होत्रीयं हविषो गृहम् ।जालिनी चित्रशाला च तथा संदानिनी गवाम् ॥ २७८ ॥
2.278 · p. 39
अनुष्टुप्
वपनी नापितानां च शिल्पा खरकुटीत्यपि ।प्रतिश्रयः सत्रशाला नीरशाला प्रपा पुनः ॥ २७९ ॥
2.279 · p. 39
अनुष्टुप्
आथर्वणं शान्तिधामारिष्टं स्यात्सूतिकागृहम् ।सुरागृहं च गञ्जाथावेशनं शिल्पिनां गृहम् ॥ २८० ॥
2.280 · p. 39
अनुष्टुप्
उपघ्नश्चान्तिकागारं मुनिस्थाने तथाश्रमः ।पक्वणो वरटावासो घोषश्चाभीरपल्लिका ॥ २८१ ॥
2.281 · p. 39
अनुष्टुप्
पुरं वेश्योऽपि वेश्यानामाश्रयः परिकीर्ततः ।जनाश्रयो मण्डपोऽथ पण्यशालापणौ तथा ॥ २८२ ॥
2.282 · p. 39
अनुष्टुप्
हट्टाट्टौ विपणिर्भित्तिः कुड्यं वेदी वितर्दिका ।एडूकं क्लीबलिङ्गे स्याद्यदन्तर्न्यस्तकीकसम् ॥ २८३ ॥
2.283 · p. 39
अनुष्टुप्
अङ्गणं चत्वरं तुल्ये अजिरं प्राङ्गणं तथा ।अर्गला परिघः साल्पा सूचिरर्गलिका पुनः ॥ २८४ ॥
2.284 · p. 39
अनुष्टुप्
कुञ्चिकायां च साधारण्यङ्कुटः कूचिका च सा ।तालकं द्वारयन्त्रं च तस्योद्घाटनकं यथा ॥ २८५ ॥
2.285 · p. 39
अनुष्टुप्
प्रतिताली च ताली सा कपाटस्त्वररिः पुमान् ।अररं च कुवाटोऽपि बाह्यद्वारं च तोरणम् ॥ २८६ ॥
2.286 · p. 40
अनुष्टुप्
गोपानसी च वलभी वक्रकाष्ठावृते पदे ।उम्बरो देहली चापि गृहावगृहणी स्रियाम् ॥ २८७ ॥
2.287 · p. 40
अनुष्टुप्
उदम्बरोऽम्बरोऽलिन्दे प्रघाणः प्रघणोऽपि च ।बहिर्द्वारप्रकोष्ठे स्याद्विशिष्यैव विभाव्यताम् ॥ २८८ ॥
2.288 · p. 40
अनुष्टुप्
छदिस्तु पटलं तुल्ये वलीकं नीव्रमुच्यते ।इन्द्रकोशस्तमङ्गोऽपि नीव्रप्रान्त उभौ समौ ॥ २८९ ॥
2.289 · p. 40
अनुष्टुप्
गवाक्षजालकौ तुल्यौ वातायनमपीक्ष्यते ।[23] द्वार्द्वारं च प्रतीहारः कोणोऽणिः कोटिरित्यपि ॥ २९० ॥
2.290 · p. 40
अनुष्टुप्
सोपानारोहणे तुल्ये निःश्रेणिश्चाधिरोहिणी ।सर्वतोभद्रविच्छन्दनन्द्यावर्तादयोऽपि च ॥ २९१ ॥
2.291 · p. 40
अनुष्टुप्
स्वस्तिकश्चेभ्यसदनभेदाः सन्त्येव भूरयः ।संक्षिप्यान्योपकाराय परमानन्द उक्तवान् ॥ २९२ ॥
2.292 · p. 40
अनुष्टुप्
पाञ्चालिका शालभञ्जी पुत्रिका काष्ठनिर्मिता ।लेप्योद्भवा त्वञ्जलिकारिका सा परिकथ्यते ॥ २९३ ॥
2.293 · p. 41
अनुष्टुप्
मञ्जूषा संपुटः पेटा समुद्गः शोधनी त्वथ ।समूहनी वर्धनी च तथा सम्मार्जनीत्यपि ॥ २९४ ॥
2.294 · p. 41
अनुष्टुप्
उलूखलोदूखले च कलिञ्जमुशलौ पुनः ।कण्डोलकपिटेऽयोग्रं संकरावकरौ समौ ॥ २९५ ॥
2.295 · p. 41
अनुष्टुप्
तितउश्चालनी चाथ शूर्पप्रस्फोटने समे ।प्रस्फोटनं तु पवनेऽवघातः कण्डनं पुनः ॥ २९६ ॥
2.296 · p. 41
अनुष्टुप्
चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा ।कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥
2.297 · p. 41
अनुष्टुप्
कलशोऽलिञ्जरेऽथ स्यान्महाघटमणीवकौ ।दर्विस्तु कम्बिखजकौ हसन्यङ्गारपात्रिका ॥ २९८ ॥
2.298 · p. 41
अनुष्टुप्
अङ्गारशकटी चैव हसन्त्यङ्गारधान्यपि ।कलशी गर्गरी तुल्ये मन्थनी मथनोचिता ॥ २९९ ॥
2.299 · p. 41
अनुष्टुप्
कटाहकर्परौ तुल्यौ करङ्को नालिकेरजः ।मन्थानः खजको मन्थो वैशाखो मन्थदण्डकः ॥ ३०० ॥
2.300 · p. 41
अनुष्टुप्
मन्था मन्थस्य विष्कम्भे मञ्जीरकुटरावपि ।शरावे वर्धमानोऽपि तथा शालाजिरोऽप्यसौ ॥ ३०१ ॥
2.301 · p. 42
अनुष्टुप्
कौशिका मल्लिका तुल्ये चषकः कंससंज्ञकः ।पारी तु स्यात्पानपात्रं स्नेहपात्रं कुतूः स्त्रियाम् ॥ ३०२ ॥
2.302 · p. 42
अनुष्टुप्
तदल्पं कुतपः पात्रममत्रं भाजनं समे ।स्थालं तत्र विशालं स्यात्पिधानं स्यादुदञ्चनम् ॥ ३०३ ॥
2.303 · p. 42
अनुष्टुप्
दृतिश्चर्ममयी खल्लस्त्वालूः करकपात्रिका ।पर्वतः शिखरी भूध्रो गोत्राद्री भूधराचलौ ॥ ३०४ ॥
2.304 · p. 42
अनुष्टुप्
नगोऽहार्यः सानुमांश्च शैलो ग्रावा शिलोच्चयः ।धरो गिरिः पूर्वशैलेऽथोदयः परिकीर्तितः ॥ ३०५ ॥
2.305 · p. 42
अनुष्टुप्
अस्ताचलः प्रान्तभूध्रे मेरुः स्यात्काञ्चनाचलः ।सुमेरुः स्वर्गिरी रत्नसानुः स्वर्गगिरिस्तथा ॥ ३०६ ॥
2.306 · p. 42
अनुष्टुप्
हिमालयो हिमप्रस्थो मेनकाप्राणवल्लभः ।भवानीजनकश्चापि हिमवानपि कथ्यते ॥ ३०७ ॥
2.307 · p. 42
अनुष्टुप्
मैनाको हिमवत्पुत्रे सुनाभोऽष्टापदे त्वथ ।स्फटिकाद्रिरथ कैलासे रजतोऽद्रिर्मलये त्वथ ॥ ३०८ ॥
2.308 · p. 42
अनुष्टुप्metre not read in every line
आषाढो दक्षिणाद्रिः स्यात्क्रौञ्चक्रुञ्चौ समावुभौ ।इन्द्रकीले मन्दरोऽपि सुवेलस्त्रिककुत्तथा ॥ ३०९ ॥
2.309 · p. 43
अनुष्टुप्
त्रिकूटोऽपि त्रिमुकुटः सुदारुः पारियात्रिकः ।शत्रुंजयो विमलाद्रिर्विन्ध्ये च जलवालकः ॥ ३१० ॥
2.310 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
रैवते तूज्जयन्तः स्याद्गुहायां गह्वरं मतम् ।देवखातबिले च स्याद्दरी स्त्री कन्दरोऽस्त्रियाम् ॥ ३११ ॥
2.311 · p. 43
अनुष्टुप्
तटे भृगुः प्रपातोऽथ शिखरे शृङ्गकुटके ।नितम्बमेखले भूध्रमध्ये च कटकस्तथा ॥ ३१२ ॥
2.312 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
पर्यन्तपर्वताः पादा द्रोणी सन्धिस्तु शैलयोः ।तिर्यग्बहिःप्रदेशाः स्युः दन्तका निर्गता गिरेः ॥ ३१३ ॥
2.313 · p. 43
अनुष्टुप्
प्रस्थे स्नुः सानुरस्त्री स्यादधोभूमिरुपत्यका ।अधित्यका तूर्ध्वभूमिः पाषाणाश्मदृषच्छिलाः ॥ ३१४ ॥
2.314 · p. 43
अनुष्टुप्
ग्रावोपलौ प्रस्तरश्च गण्डशैलाश्च्युताः शिलाः ।खटी तु कठिनी शुक्लधातुः स्यात्खटिनीत्यपि ॥ ३१५ ॥
2.315 · p. 43
अनुष्टुप्
गिरेर्मनःशिलादिः स्याद्धातुः स्याद्गैरिकादिकम् ।अथाकरे खनिः खानिर्लोहं कालायसं घनम् ॥ ३१६ ॥
2.316 · p. 43
अनुष्टुप्
शस्त्रं पिण्डं शिलासारं गिरिसारमयोऽपि च ।तीक्ष्णकृष्णामिषे पारशवं तत्किट्टके पुनः ॥ ३१७ ॥
2.317 · p. 44
अनुष्टुप्
मण्डूरसरणे धूर्तसिंहाने विकृतिः कुशी ।ताम्रं शुल्वं मर्कटास्यं रक्तं म्लेच्छमुखं तथा ॥ ३१८ ॥
2.318 · p. 44
अनुष्टुप्
उदुम्बरं ह्यष्टब्रह्मवर्धने च कनीयसम् ।सीसं नागं सीसपत्रं वध्रं सिन्दूरकार[25]णम् ॥ ३१९ ॥
2.319 · p. 44
अनुष्टुप्
गण्डूपदभवं वप्रं योगेष्टं च सुवर्णकम् ।कस्तीरं त्रपु वङ्गं च नागजं नागजीवनम् ॥ ३२० ॥
2.320 · p. 44
अनुष्टुप्
मृद्वङ्गं स्वर्णजं रङ्गं सिंहलालीनके अपि ।गुरुपत्रं चक्रसंज्ञं पिच्चटं तमरं तथा ॥ ३२१ ॥
2.321 · p. 44
अनुष्टुप्
रूप्यं च रजतं तारं श्वेतं दुर्वर्णकं पुनः ।हिमांशुहंसकुमुदाभिख्यं खर्जूरमप्यथ ॥ ३२२ ॥
2.322 · p. 44
अनुष्टुप्
सुवर्णं काञ्चनं रुक्मं कल्याणं कनकं वसु ।हिरण्यं हाटकं वह्निबीजं चामीकरार्जुने ॥ ३२३ ॥
2.323 · p. 44
अनुष्टुप्
कार्तस्वरं जातरूपं गाङ्गेयं भूरिभर्मणी ।स्वर्णं चन्द्रो हेमशातकुम्भे रजतभूत्तमे ॥ ३२४ ॥
2.324 · p. 44
अनुष्टुप्
लोहोत्तमं गारुडं च महारजतकर्बुरे ।जाम्बूनदं गैरिकं च निष्कं चाष्टापदं तथा ॥ ३२५ ॥
2.325 · p. 44
अनुष्टुप्
रूप्यस्वर्णद्वयं श्लेषः कथ्यते घनगोलकः ।अथालङ्कारपीते स्याच्छ्टङ्गीकनकमायुधम् ॥ ३२६ ॥
2.326 · p. 45
अनुष्टुप्
कुप्यं तु तद्द्वयादन्यद्रूप्यं तु द्वयमाहतम् ।आरं तु पित्तलेऽथारकूटो रीरी सुलोहकम् ॥ ३२७ ॥
2.327 · p. 45
अनुष्टुप्
पीतलोहं रिरी रीतिः कपिलोहं सुवर्णकम् ।कपिला तु ब्रह्मरीतिर्ब्राह्मी सा च महेश्वरी ॥ ३२८ ॥
2.328 · p. 45
अनुष्टुप्
रङ्गताम्रोद्भवं कांस्यं घोषं सौदामिनीप्रियम् ।असुराह्वं प्रकाशं च पारदे सूतपारतौ ॥ ३२९ ॥
2.329 · p. 45
अनुष्टुप्
हरबीजं रसो लोलो गन्धिको गन्धकोऽपि च ।शुकपुच्छस्ताम्रशत्रुः पामारिः कुष्ठनाशनः ॥ ३३० ॥
2.330 · p. 45
अनुष्टुप्
हरितालं विस्रगन्धि गोदन्तं नटमण्डपम् ।बिडालं पिञ्जरं वङ्गशत्रुर्लोमहरं तथा ॥ ३३१ ॥
2.331 · p. 45
अनुष्टुप्
खर्जूरं पीतनं वंशपत्रकं चालपीतके ।अभ्रकं गगनं स्वच्छपत्रं च गिरिजामले ॥ ३३२ ॥
2.332 · p. 45
अनुष्टुप्
मेघाख्यमथ तुत्थं च शिखिग्रीवमयूरके ।तुत्थाञ्जनं कांश्यनीलं मूषातुत्थं वितुन्नकम् ॥ ३३३ ॥
2.333 · p. 45
अनुष्टुप्
स्रोतोञ्जनं च कापोतं सौवीरं कृष्णयामुने ।सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ ३३४ ॥
2.334 · p. 46
अनुष्टुप्
मनःशिला नागमाता मनोगुप्ता च रोचनी ।मनोह्वा कुनटी गोला नेपाली रसनेत्रिका ॥ ३३५ ॥
2.335 · p. 46
अनुष्टुप्
करवीरा नागजिह्वा सिन्दूरं नागजं पुनः ।शृङ्गारभूषणं नागरक्तं बोले शशः पुनः ॥ ३३६ ॥
2.336 · p. 46
अनुष्टुप्
प्राणो गोपरसः पिण्डस्तथा गन्धरसः स्मृतः ।कुरुविन्दो हंसपादो हिङ्गुलोऽथ शिलाजतु ॥ ३३७ ॥
2.337 · p. 46
अनुष्टुप्
अश्मजं गिरिजमर्थ्यं गैरेयेऽथ कुलात्थिका ।चक्षुष्या च कुलाली स्यात्काचे क्षारोऽपि कथ्यते ॥ ३३८ ॥
2.338 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
वसुरत्ने मणिर्भेदा इन्द्रनीलादयो मताः ।वालवायजवैडूर्ये गारुत्मतहरिन्मणी ॥ ३३९ ॥
2.339 · p. 46
अनुष्टुप्
लक्ष्मीपुष्पः पद्मरागो हीरको वज्रनामभृत् ।सूचीमुखं रत्नमुख्यं वरारकमपीक्ष्यते ॥ ३४० ॥
2.340 · p. 46
अनुष्टुप्
राजावर्तो राजपट्टो विराटज इतीरितः ।विद्रुमो रक्तकन्दः स्याद्रक्ताङ्को हेमकन्दलः ॥ ३४१ ॥
2.341 · p. 46
अनुष्टुप्
प्रवालं सूर्यकान्ते तु सूर्याश्मा दहनदृषत् ।चन्द्रकान्तश्चन्द्रमणिश्चान्द्रोपलौ समौ ॥ ३४२ ॥
2.342 · p. 47
metre not recognised
रसोद्भवं शुक्तिजं च मुक्ता मुक्ताफलं स्मृतम् ।मौक्तिकं भूमिवर्गोऽयमुक्तः कायस्थभानुना ॥ ३४३ ॥
2.343 · p. 47
अनुष्टुप्
पानीयं जीवनं तोयं शंवरं नीरवारिणी ।पुष्करं कं जलं पाथः सलिलं सर्वतोमुखम् ॥ ३४४ ॥
2.344 · p. 47
अनुष्टुप्
कीलालं यादसां वासः कुशं क्लीबे पयः पुनः ।दकोदके वनं क्षीरं भवनं कमलं समे ॥ ३४५ ॥
2.345 · p. 47
अनुष्टुप्
आपः स्त्रियां बहुत्वे च मेघपुष्पार्णसी मते ।अमृतं प्राणदं नारं ? जीवनीयाम्बुनी अपि ॥ ३४६ ॥
2.346 · p. 47
अनुष्टुप्
अम्भो घनरसः पुंसि वाः क्लीबे रत्नमुच्यते ।अगाधमतलस्पृक् चास्थागमस्ताघमेव च ॥ ३४७ ॥
2.347 · p. 47
अनुष्टुप्
अस्थाघं च तथा प्रोक्तं निम्ने गम्भीरमुच्यते ।गभीरं शब्दभेदेनोत्तानं स्यात्तद्विलक्षणम् ॥ ३४८ ॥
2.348 · p. 47
अनुष्टुप्
प्रसन्नाच्छेऽप्यथानच्छमाविलं कलुषं समे ।प्रालेयतुहिने तुल्ये अवश्यायो नरि स्मृतः ॥ ३४९ ॥
2.349 · p. 47
अनुष्टुप्
नीहारश्च तुषारश्च हिमं च मिहिका स्त्रियाम् ।घनोपलस्तु करको हिमानी तु हिमोच्चयः ॥ ३५० ॥
2.350 · p. 48
अनुष्टुप्
समुद्रः सागरः सिन्धु[27]र्वीचिमाली नदीपतिः ।पारावारो जलनिधिर्मितद्रुश्चार्णवोदधी ॥ ३५१ ॥
2.351 · p. 48
अनुष्टुप्
अवारपाराकूपारौ उदन्वान्मकराकरः ।रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥
2.352 · p. 48
अनुष्टुप्
तरङ्गो वीचिभङ्गोर्मिकलिका महति त्विह ।कल्लोलोल्लोललहरिभेदाश्चाब्धिकफे पुनः ॥ ३५३ ॥
2.353 · p. 48
अनुष्टुप्
डिण्डीरः फेनकश्चापि बुद्बुदे स्थासकः पुमान् ।जलवृद्धिः स्त्रियां वेलावर्तस्तु पयसां भ्रमः ॥ ३५४ ॥
2.354 · p. 48
अनुष्टुप्
तालूरवोलकौ तुल्यौ कूलभूः कच्छरोधसी ।कूले प्रपातमर्यादे प्रतीरं तीरमेव च ॥ ३५५ ॥
2.355 · p. 48
अनुष्टुप्
पुलिनं जलहीनं तत्सैकतं सिकतामये ।अन्तर्जले चान्तरीपं द्वीपं चाथ नदी पुनः ॥ ३५६ ॥
2.356 · p. 48
अनुष्टुप्
स्रोतस्विनी द्वीपवती तटिनी वाहिनी सरित् ।धुनी तरङ्गिणी कुल्या स्रोतो निर्झरिणी तथा ॥ ३५७ ॥
2.357 · p. 48
अनुष्टुप्
जम्बालिनी पर्वतजा रोधोवक्रा स्रवन्त्यपि ।शैवलिनी जलधिगा कर्षूः कूलंकषापगा ॥ ३५८ ॥
2.358 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
वहा च ह्रदिनी सिन्धु[र्निम्न]गा सागराङ्गना ।हिरण्यवर्णा सा प्रोक्ता सरस्वत्यपि कथ्यते ॥ ३५९ ॥
2.359 · p. 49
अनुष्टुप्
गङ्गा मन्दाकिनी भागीरथी त्रिपथगा च सा ।त्रिस्रोता जाह्नवी विष्णुपदी च हरशेखरा ॥ ३६० ॥
2.360 · p. 49
अनुष्टुप्