All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · पुरवर्गप्रकाशः
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां भूमिवर्गप्रकाशः ॥
पूः स्त्री पुरी च नगरी पुरं नगरपत्तनम् ।स्थानीयं कटकं पट्यं निगमः पुटभेदनम् ॥
3.2.1 · p. 50
अनुष्टुप्
अथ हट्टः क्रमारोहो महाघोषो वणिक्पथः ।पणग्रन्थिरवज्रङ्गस्तथा ग्राममुखोऽपि च ॥
3.2.4 · p. 50
अनुष्टुप्
निषद्या विपणिः पण्यवीथिका त्वापनस्तथा ।पण्यविक्रयशालायां भवेदेतच्चतुष्टयम् ॥
3.2.6 · p. 50
अनुष्टुप्
प्रतोली विशिखा रथ्या ग्रामाभ्यन्तरवर्त्मनि ।स्याच्चयो वप्रमस्त्री तु मृत्तिका स्तूप उच्यते ॥
3.2.7 · p. 50
अनुष्टुप्
प्राचीरं प्रावरोऽपि स्यात् प्रावृतिः प्रान्ततो वृतिः ।इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने ॥
3.2.9 · p. 50
अनुष्टुप्
स्त्री भित्तिर्भित्तिका कुड्यं कूड्यं कुड्यकमित्यपि ।भित्तौ न्यस्तं विचित्रार्थमस्थ्याद्येडूकमेडुकम् ॥
3.2.10 · p. 50
अनुष्टुप्
निवासवाससंवासवासाधिवासवेशकाः ।ओक ओको निवसतिर्वसतिश्च कुटिः कुटी ॥
3.2.12 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धि (wrong syllable)
स्यान्निकाय्यो निवसनं केतो भवनमन्दिरम् ।आलयश्च गृहाः पुंसि भूम्नि कूटो द्वयोः सभा ॥
3.2.13 · p. 50
अनुष्टुप्
उटजोऽस्त्री पर्णशाला पर्णोटजमपि क्वचित् ।अथ देवकुलाकारयज्ञस्थाने वसूच्यते ॥
3.2.15 · p. 50
अनुष्टुप्
बुद्धालये वृक्षभेदे चैत्यमायतनं द्वयम् ।वाजिशाला मन्दुरा स्यात् पानीयशालिका प्रपा ॥
3.2.16 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 य (wrong syllable)
आवेशनं शिल्पशाला च्छात्रादिनिलयो मठः ।गुञ्जा गञ्जा गञ्जका च मदिरागृहमुच्यते ॥गर्भागारं वासगृहं भोगसद्मापवारकम् ।सूतीगृहं सूतिगृहं अरिष्टं सूतिकागृहम् ॥
3.2.17 · p. 51
अनुष्टुप्
वातायनं गवाक्षस्तु रन्ध्रे गृहादिवेष्टने ।जनाश्रयो मण्डपोऽस्त्री देवादिदत्तवेश्मनि ॥
3.2.18 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 गृ (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
हर्म्यमट्टालिका चाट्टा धनिनान्तु निकेतने ।देवानां भूभुजां वासः प्रासादः परिकीर्तितः ॥
3.2.19 · p. 51
अनुष्टुप्
अथ भूपालभवनमस्त्री सौधं सुधामयम् ।उयारीति च विख्याते उपकार्योपकारिका ॥नन्द्यावर्तः स्वस्तिकः स्यात् सर्वतोभद्रचित्रकौ ।विच्छन्दको वर्धमानस्तारामण्डल इत्यपि ॥
3.2.20 · p. 51
अनुष्टुप्
अन्तःपुरन्तु शुद्धान्तस्त्ववरोधोऽवरोधनम् ।अट्टः क्षौमः क्षोममस्त्री प्राकाराग्रगृहे त्रयम् ॥
3.2.22 · p. 51
अनुष्टुप्
केचिदट्टालिकायाञ्च युद्धशिक्षादिके गृहे ।गृहाभ्यन्तरशद्यार्थपिण्डिकायामपि त्रयम् ॥
3.2.23 · p. 51
अनुष्टुप्
आलिन्दः स्यादलिन्दोऽपि स्यादलिन्दक इत्यपि ।भवेद्गृहावग्रहनी देहलिर्देहलीति च ॥
3.2.24 · p. 51
अनुष्टुप्
त्रयं द्वारपिण्डिकायां द्वारबाहुलिकेऽपि च ।चत्वरं प्राङ्गनञ्च स्यादजिराङ्गनमङ्गनम् ॥
3.2.25 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
द्वाराधःस्थितकाष्ठे तु शिला चापि शिलिः शिली ।द्वारोर्ध्वस्थितकाष्ठे तु नासा च नासिकेत्यपि ॥प्रकोष्ठाभ्यन्तरगृहद्वारे गूढनिषेविते ।प्रच्छन्नमन्तद्वारस्तु द्वयन्तत्राभिधीयते ॥
3.2.26 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पक्षकः पक्षपालिः स्यात् पक्षद्वारं खडक्किका ।पटलः प्रान्तदेशे तु बलीकं नीध्रमित्यपि ॥
3.2.27 · p. 52
अनुष्टुप्
तत्रैव वडभिश्चैव बलभिर्बलभीति च ।कपोतपालिकायास्तु विटङ्कोऽस्त्री विटङ्ककम् ॥
3.2.29 · p. 52
अनुष्टुप्
प्रतिहारः प्रतीहारः स्त्री द्वार्द्वारञ्च वारकम् ।वेदिर्वेदी वितर्दिः स्याद्वितर्दी च वितर्दिका ॥
3.2.30 · p. 52
अनुष्टुप्
पताका स्रग्युतस्तम्भद्वयेन परिकल्पितम् ।वहिर्द्वारं तोरणोऽस्त्री द्वयं तत्राभिधीयते ॥
3.2.31 · p. 52
अनुष्टुप्
नगरादिद्वारनाम पुरद्वारञ्च गोपुरम् ।अथ दुर्गपुरद्वारि मृत्तिकास्तूपकं हि यत् ॥
3.2.32 · p. 52
अनुष्टुप्
अथ त्रिषु कपाटञ्च कवाटं द्वारकण्टकम् ।अररं त्वररी च स्यादरारमपि कुत्रचित् ॥
3.2.34 · p. 52
अनुष्टुप्
हुङ्कावाडीति विख्याते अर्गलार्गलमित्यपि ।आरोहनञ्च सोपानं पठा इति समाह्वये ॥
3.2.35 · p. 52
अनुष्टुप्
सोपाने काष्ठघटिते निःश्रेणी त्वधिरोहिणी ।निःश्रेणिः स्यान्निश्रयनी तथा निःश्रयनीत्यपि ॥
3.2.36 · p. 52
अनुष्टुप्
सम्मार्जनीविनिक्षिप्तधूल्यादौ परिकीर्तितः ।गृहादीनां प्रवेशादिनिर्गमादिपथेऽपि च ॥
3.2.38 · p. 52
अनुष्टुप्
मुखं निःसरणञ्चेति भवेन्निःसारणन्तु तत् ।नगरादिवहिःस्वैरविहारचारुभूमिषु ।एतद्द्वयं निगदितं सन्निवेशो निकर्षणम् ॥
3.2.39 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
अथ संवसथग्रामौ तथावसथ इत्यपि ।वास्त्वस्त्री वेश्मभूर्वाटी वाटिका गृहपोतकः ॥ग्रामान्त उपशल्यञ्च द्वयं ग्रामसमीपके ।द्वे स्त्रियौ सीमसीमे च ग्राम्यावधिनिश्चिते ॥
3.2.40 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घोष आभीरपल्ली स्यादाभीरपल्लिरेव च ।पङ्कणः पक्कणश्चापि शवरालय इत्यपि ॥
3.2.41 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
चण्डालादिगृहव्यूहे केचिदाहुर्विषालये ।प्रतिवेशप्रतीवेशौ आसन्नगृहिणां गृहे ॥
3.2.42 · p. 53
अनुष्टुप्
चूडा चूला चन्द्रशाला वडभी वलभिस्तथा ।कूटागारञ्च वलभी गृहाद्युपरि यद्गृहम् ॥
3.2.43 · p. 53
अनुष्टुप्
हर्म्यादीनां प्रकोष्ठे तु कख्या कक्ष्या समीरिता ।सुधाभूमिः कुट्टिमोऽस्त्री मालभूमिश्च सा मता ॥
3.2.44 · p. 53
अनुष्टुप्
कपिशीर्षं द्रुमशीर्षं तथा चाखोटशीर्षकम् ।एते कुट्टिमभेदाः स्युः शाब्दिकैः समुदाहृताः ॥
3.2.45 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
कायमानं तृणकुटी भवेत्तृणगृहे द्वयम् ।वासकर्णी रङ्गशाला पक्षिशाला कुलालिका ॥
3.2.47 · p. 53
अनुष्टुप्
कुत्रङ्गः पिठरञ्चैवमुद्घाटः सस्वभेदकाः ।मञ्चेन्द्रकोषौ स्याद्ब्रह्मशासनं धर्मकीलकः ॥
3.2.49 · p. 53
अनुष्टुप्
सामान्यशासनं सौवं मकुतिः शूद्रशासनम् ।स्थानं चतुःशतग्राममध्ये स्यात् कर्वटोऽस्त्रियाम् ॥
3.2.50 · p. 53
अनुष्टुप्