कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सूर्योढ

sūryoḍhaपुं · masc.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.208 · p. 23
सूर्योढस्तु स संप्राप्तो यः सूर्येऽस्तं गतेऽतिथिः ।
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 239
भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि ।आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि ॥अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः ।प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः ॥सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् ।पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.166 · p. 122
अस्तंगते रवौ प्राप्तः सूर्योढः प्राघुणो मतः ।अभ्युत्थानं गौरवं च व्यथकः स्यादरुंतुदः ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.779 · p. 112
आतिथ्यमातिथेयी च स्यादाऽऽवेशिकमित्यपि ।सूर्यास्तात् परमायातः सूर्योढः कथ्यते हि सः ॥ ७७९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.68 · p. 88
आवेशिकः स्यादागन्तुरातिथ्यः प्राहुणोऽतिथिः ।सूर्योढस्तु स संप्राप्तो यस्सूर्येऽस्तंगतेऽतिथिः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.