कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आतिथ्य

ātithyaक्ली · neut.

In 13 kośas: 14 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.499 · p. 23
सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ ॥प्रष्ठोऽथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः ।प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि ॥ ४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वे (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.33 · p. 2
आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रं तु सन्ततिः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.33
षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि ।क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.359 · p. 42
आतिथेयं तथातिथ्यमातिथेयी च कथ्यते ।अर्थी मार्गणकः प्रोक्तो याचकश्च वनीपकः ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.112 · p. 81
अर्घार्हं यत्तदर्घ्यं स्यात्पाद्यं पादार्हवारिणि ।आतिथ्यं स्यादातिथेयं तत्र साध्वातिथेयकम् ॥ ११२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 239
भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि ।आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि ॥अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः ।प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः ॥सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् ।पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.165 · p. 122
प्राघूर्णाभ्यासिकागन्त्वतिथिप्राघुणकाः समाः ।आवेशिकमातिथेय्यातिथ्यं तत्र निगद्यते ॥ १६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.778 · p. 112
प्राघूर्णकश्च प्राघूणः स्यादाऽऽतिथ्योऽतिथिस्तथा ।आवेशिकस्तथाऽऽगन्तुः अभ्यागतोऽपि कथ्यते ॥ ७७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.779 · p. 112
आतिथ्यमातिथेयी च स्यादाऽऽवेशिकमित्यपि ।सूर्यास्तात् परमायातः सूर्योढः कथ्यते हि सः ॥ ७७९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.64 · p. 114
आतिथ्यमातिथेयञ्च जने चैव गृहागते ।आवेशिकः प्राघुनः स्यादागन्तुरतिथिः पुमान् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.110 · p. 197
अतिथ्योऽतिथिरातिथ्य आङ्परौ गान्तु-गन्तुकौ ।आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1256 · p. 153
पर्येषणा चान्वीक्षा च पाद्यं पादाय वारि यत् ।अतिथ्यर्थं यदातिथ्यमातिथेयोऽत्र साधुनि ॥ १२५६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.67 · p. 88
आम्रसेकस्तु यस्तत्र सा चारी सा पितृप्रपा ।त्रिष्वातिथ्यमतिथ्यर्थं विघसो विप्रशेषितम् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.68 · p. 88
आवेशिकः स्यादागन्तुरातिथ्यः प्राहुणोऽतिथिः ।सूर्योढस्तु स संप्राप्तो यस्सूर्येऽस्तंगतेऽतिथिः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.72 · p. 297
आकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमेस्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् ।सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरेलौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.201 · p. 64
स्यादातिथ्यमतिथ्यर्थे त्रिः पुमांस्त्वतिथौ मतः ।आचार्य उपनीत्यादिकारिणि स्यान्नृलिङ्गकः ॥ २०१ ॥
अनुष्टुप्