पूजा
pūjāस्त्री · fem.In 16 kośas: 12 synonym verses, 41 as a meaning of another word.
पूजार्हणासपर्यार्चा उपहारबली समौ ॥ ४४७ ॥
अनुष्टुप्
genderस्त्रीfem.
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
अर्चा पूजा सपर्या स्यादुपहारो बलिः स्मृतः ।प्रणिधानं समाधानं समाधिश्च समास्त्रयः ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
पादपर्यायग्रहणमुपसंग्रह इत्यपि ।पूजा नमस्यापचितिः सपर्याप्यर्हणा स्त्रियाम् ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
genderस्त्रीfem.
भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि ।आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि ॥अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः ।प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः ॥सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् ।पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
[63] उपहारः सपर्या च बलिः पूजापि कथ्यते ।पीवरः पीनपीवानौ स्थूलविह्वलविक्लवाः ॥ ११० ॥
अनुष्टुप्
genderस्त्रीfem.
पूजार्हणा सपर्यार्चोपहारोऽपचितिर्बलिः ।सन्मानादरसत्कारा अभ्युत्थानं च गौरवम् ॥ १२३ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्चाऽर्हणा सपर्या स्यात् पूजा चाऽपचितिस्तथा ॥ ६७९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
अभागतश्च तत्रैवेत्याह श्रीमधुमाधवः ।पूज्या सपर्यापचितिर्नमस्यार्चर्हना नुतिः ॥
अनुष्टुप्
genderस्त्रीfem.
अपचितोऽथार्हणायां पूजा पूज्याऽथ पीनके ।बहुलो बहलः स्थूर-स्थूलौ पीवा सपीवरः ॥ ७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderस्त्रीfem.
अनुकल्पस्तदधमः पूजा त्वर्चार्हणार्चना ।समा नमस्यापचितिः सपर्या च पुरस्क्रिया ॥ १२४६ ॥
अनुष्टुप्
genderस्त्रीfem.
पूजार्चना नमस्यार्चा सपर्येज्यार्हणांचनम् ।नमस्या तु नमस्कारो वन्दनं चाभिवादनम् ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
पूजा as a meaning in nānārtha verses
- धरणिकोश अर्घमघौषधे मघा ऋक्षे श्लाघा त्विच्छाप्रशंसयोः । मेघौ मुस्तकजीमूतावर्घौ पूजाप्रतिक्रयौ ॥ Dharaṇikośa 4.1.1
- धरणिकोश अर्चान्यङ् निकृष्टे तथा कार्त्स्ने वीचिः कल्लोलस्वल्पयोः । अर्चा स्यात्प्रतिमा पूजा क्रौञ्चा द्वीपाद्रिपक्षिषु ॥ Dharaṇikośa 5.1.1
- धरणिकोश क्रियाक्रिया कृत्ये चिकित्सायां चेष्टायां कर्म[75]पूजयोः । उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे ॥ Dharaṇikośa 25.3.1
- धरणिकोश देवीविश्वं सर्वं जगच्छुण्ठी विश्वा चातिविषा स्मृता । देवी दुर्गा च पूजा च देवौ सुरमहीभुजौ ॥ Dharaṇikośa 28.2.8
- धरणिकोश सुसु पूजायां तथाधिक्ये आस्तु स्यात्कोपपीडयोः । [शनैः] शनैश्चरे स्वैरे नीचैः स्वैराल्पयोः स्मृतम् ॥ Dharaṇikośa 34.20.1
- कोषकल्पतरु सुष्ठुशम्बट् वित्तेऽथ सुष्ठु स्यात्पूजात्यर्थप्रशंसने । अपष्ठु निन्द्येऽभव्ये च दुष्ठु निन्दित-निन्दयोः ॥ ८६ ॥ Koṣakalpataru 5.1.86
- कोषकल्पतरु उपदाक्षिण्यात्ययदोषवादनमृतिव्याप्त्यंहतिप्रक्रमे पूजाचार्यविधानशक्तिषु भवेदुद्योगत( ? )द्योगयोः । गर्हाप्रश्नसमुच्चयेष्वपि भवेत्संभावने शङ्कने वीप्सेत्थंभवसंभवेषु गदितं विद्वद्भिरभ्यव्ययम् ॥ ५ ॥ Koṣakalpataru 5.1.5
- कोषकल्पतरु परिसर्वतोभवनभूषणपूजा- दोषवादपरिरम्भगदेषु । लक्षणादिषु च शोकनिवास- व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥ Koṣakalpataru 5.1.16
- कोषकल्पतरु अर्चाप्रतिमायां पूजायामर्चा चर्चा स्थासकसुचर्चिकाचिन्ताः । इच्छाशोभारुचयो रुचिः स्त्रियां चर्मवल्कयोस्त्वक् ॥ ८ ॥ Koṣakalpataru 6.5.8
- कोषकल्पतरु प्रतिकृतिप्रतिकृतिरुक्ता प्रतिमा पूजा किं च प्रतीकारः । अस्वाध्याये क्षेपे निराकृतिः स्यादनाकृतौ तद्वत् ॥ ७६ ॥ Koṣakalpataru 6.17.76
- कोषकल्पतरु इज्यास्याद्दक्षिणस्यां नरि कुम्भयोनौ पटीरवृक्षेऽथ नरीज्य उक्तः । बृहस्पतौ संगमवाचकश्च स्त्रियां तु दाने मखपूजयोश्च ॥ ४९ ॥ Koṣakalpataru 6.26.49
- नानार्थार्णवसंक्षेप अर्चावाचां मध्यमिकानां स्यात् सप्तानामेकवाचि च । अर्चा पूजाप्रतिमयोरत्ताश्वश्र्वां च मातरि ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 2.1.3
- नानार्थार्णवसंक्षेप इज्यादिवि वाच्यार्घ्यनाड्योश्च देवताबुधभार्ययोः । इज्या तु यागे पूजायां जनन्यामपि सज्जनः ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 2.1.13
- नानार्थार्णवसंक्षेप दीक्षासौहित्ये चाप्यथ त्रेता गार्हपत्यादिकत्रये । द्वितीये च युगेऽथ स्याद् दीक्षा यजनपूजयोः ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 2.1.47
- नानार्थार्णवसंक्षेप अर्घउरस्यर्घस्तु पूजायां मूल्येऽप्यब्दस्तु वारिदे । वत्सरे मुस्तकेऽथाब्दः(?) पुरोडाशर्षिभेदयोः ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.2.7
- नानार्थार्णवसंक्षेप क्रियाक्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारम्भपूजासु चेष्टायां सम्प्रधारणे ॥ २०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.204
- नानार्थार्णवसंक्षेप मानआधारानतिरिक्तत्वमाधेयस्येह ना पुनः । ज्ञाने चित्तसमुन्नत्यां पूजायां च स्त्रियां पुनः ॥ ९८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.983
- नानार्थार्णवसंक्षेप सम्मतिसम्मतिस्त्वपि वाञ्छायामनुज्ञापूजयोरपि । समितिः परिषत्स्थाने युद्धे संसदि सङ्गमे ॥ ९९ ॥ Nānārthārṇavasaṃkṣepa 3.1.99
- नानार्थार्णवसंक्षेप नमस्याइत्याशीर्यत्र तत्र स्यान्नमस्या तु स्त्रियामियम् । पूजायां पूजनीये तु त्रिर्नभाका त्वियं स्त्रियाम् ॥ ९९६ ॥ Nānārthārṇavasaṃkṣepa 4.996
- नानार्थार्णवसंक्षेप अपचितिव्ययनिष्कृतिपूजासु स्यादप्येकाहयज्ञयोः । अथ विद्यादनुमतिमनुज्ञायां तथैव च ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 6.5
- नानार्थार्णवसंक्षेप उपचर्याइरावती नदीमात्रे नदीभेदेऽप्यथोच्यते । उपचर्या चिकित्सायां पूजायां चेति मन्वते ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 6.13
- परमानन्दीयनाममाला अर्चाप्रतिमापूर्जयोरर्चाग्रं श्रेष्ठे प्रथमेऽधिके । अस्तः क्षिप्ते गिरेर्भेदेऽऽशू रथाङ्गे च सत्वरे ॥ ९ ॥ Paramānandīyanāmamālā 5.1.9
- शब्दरत्नावली अर्चाअर्चा स्यात् प्रतिमा पूजा जातकशुश्कषणेऽपि च । कचः बृहस्पतिसुते केशे शुष्कव्रणेऽपि च ॥ Śabdaratnāvalī 7.6.2
- शब्दरत्नावली अपचितिअंशुमान् पुंसि मिहिरे शालपर्ण्यामपि स्त्रियाम् । स्त्रियामपचितिः पूजा निष्कृतिव्ययहानिषु ॥ Śabdaratnāvalī 7.16.156
- शब्दरत्नावली क्रियापुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥ उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥ कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥ अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥ गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥ गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ Śabdaratnāvalī 7.26.11
- शब्दरत्नावली उपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
- शब्दरत्नावली परिआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
- शब्दरत्नावली सुसु भृशार्थे चानुमतौ समृद्धिपूजयोरपि । आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च ॥ इः कोपेऽपि च सन्तापे दुःखभावनयोरपि । निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च ॥ दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥ Śabdaratnāvalī 8.1.59
- शब्दरत्नाकर अर्चाअर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः । कोदण्डायुधयोरस्त्रमभ्रं व्योम्नि पयोमुचि ॥ १८७० ॥ Śabdaratnākara 4.1.1870
- शब्दरत्नाकर क्रियाकिष्कुर्द्वयोर्वितस्तौ स्यात् सप्रकोष्ठकरे नरि । क्रिया कर्मणि पूजायां करणे संप्रधारणे ॥ १९०४ ॥ Śabdaratnākara 4.1.1904
- शब्दरत्नाकर बलिराजदेये बलिर्दैत्यभेदे पूजोपहारयोः । कपिले त्रिषु बभ्रुर्ना नकुले केशवे मुनौ ॥ १९६४ ॥ Śabdaratnākara 4.1.1964
- शब्दरत्नाकर यजनयुञ्जानः सारथौ विप्रे युतकं यौतके युगे । वस्वाञ्चले वधूवस्त्रे यजनं यज्ञपूजयोः ॥ २१५१ ॥ Śabdaratnākara 4.1.2151
- शब्दरत्नाकर सुसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः । हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥ Śabdaratnākara 5.1.2256
- तन्त्राभिधान आअ-कारो वासुदेवः स्यादाकारश्च पितामहः । पूजायामपि माङ्गल्ये आ-कारः परिकीर्त्तितः ॥ १ ॥ Tantrābhidhāna 3.1
- त्रिकाण्डशेष अर्चाप्रतिमापूजयोरर्चा क्रौञ्चः पक्ष्यद्रिभेदयोः । कूर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि ॥ ७४ ॥ Trikāṇḍaśeṣa 3.3.74
- वैजयन्ती अर्घअट्टावतिशयक्षौमावर्घौ पूजाप्रतिक्रयौ । अर्याः शास्तृस्वामिवैश्याः सर्पे वृत्त्रासुरेऽप्यहिः ॥ ५ ॥ Vaijayantī 6.1.5
- वैजयन्ती अर्चाअर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः । अन्दूस्तु शृंखला पादभूषाप्यष्ठी फलास्थ्यपि ॥ १ ॥ Vaijayantī 6.2.1
- वैजयन्ती इज्याइलाप्येतासु चार्घे च स्यादिज्या यागपूजयोः । इष्टिः स्पृहायजनयोरिरा भूवाक्सुरांबुषु ॥ ४ ॥ Vaijayantī 6.2.4
- वैजयन्ती क्रियाक्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारंभपूजासु चेष्टायां संप्रधारणे ॥ ९ ॥ Vaijayantī 6.2.9
- वैजयन्ती प्रग्रहतुलासूत्रेऽश्वादिरश्मौ प्रग्रहः प्रग्रहः पुनः । तयोश्च संयमोद्योतपूजाबन्द्यर्ग्वधेषु च ॥ ४९ ॥ Vaijayantī 7.1.49
- वैजयन्ती सुसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । प्रत्यारंभे प्रसिद्धौ ह हा विषादशुगार्तिषु ॥ ८ ॥ Vaijayantī 8.7.8