कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अतिथि

atithiपुं · masc.

In 15 kośas: 17 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.499 · p. 23
सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ ॥प्रष्ठोऽथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः ।प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि ॥ ४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वे (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.33 · p. 2
आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रं तु सन्ततिः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.59
स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 घू (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.358 · p. 42
जङ्घालो जवनो वेगी पाथेयं शम्बलं स्मृतम् ।आवेशिकः प्राघुणक आगन्तुरतिथिः स्मृतः ॥ ३५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.113 · p. 81
प्राघूर्णकः प्राघुणकः प्राघुणो गाथ इत्ययम् ।गृहागतः स्यादतिथिर्द्वयोर्देशिक इत्यपि ॥ ११३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 239
भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि ।आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि ॥अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः ।प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः ॥सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् ।पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.16 · p. 95
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
एतानि नपुंसकानि स्युः । यथा इदं क्षीरं दुग्धम् । इदमुदस्वित्तक्रविशेषः । नवनीतं दधिविकारः । वर्षं संवत्सरः । कुण्डं पेयादिपात्रम् । अण्डं बीजादिप्रादुर्भावः । घृतमाज्यम् । भगं योनिः । गगनमाकाशम् । ओदनस्तु पुंसि भवति । अयमोदनः भक्तम् । स्त्रियां ज्या च । धनुषो गुणः ।विषसञ्ज्ञाः पुंसि विषं तु नपुंसकं स्यात्स्त्रियां तिथिर्वोक्ता ।अतिथिस्तु पुंसि शकृन्नीतशोणितानीतरप्रकृतौ ॥ ४० ॥
metre not recognised
genderपुंmasc.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.165 · p. 122
प्राघूर्णाभ्यासिकागन्त्वतिथिप्राघुणकाः समाः ।आवेशिकमातिथेय्यातिथ्यं तत्र निगद्यते ॥ १६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.778 · p. 112
प्राघूर्णकश्च प्राघूणः स्यादाऽऽतिथ्योऽतिथिस्तथा ।आवेशिकस्तथाऽऽगन्तुः अभ्यागतोऽपि कथ्यते ॥ ७७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.64 · p. 114
आतिथ्यमातिथेयञ्च जने चैव गृहागते ।आवेशिकः प्राघुनः स्यादागन्तुरतिथिः पुमान् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.110 · p. 197
अतिथ्योऽतिथिरातिथ्य आङ्परौ गान्तु-गन्तुकौ ।आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.205 · p. 27
अक्षीलशण्डिलधनंजयवामदेव-कुत्सर्ष्टिषेणकुशिकच्यवनाप्नवानाः ।शक्त्यष्टकौ हरितमुद्गलपूतिमाष-शालावता अतिथिदेवलसोमवाहाः ॥ २०५ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1257 · p. 153
त्रिष्वथातिथिरागन्तुः सर्वातिथ्यं करोति यः ।स तु सर्वातिथिः पादग्रहणं त्वभिवादनम् ॥ १२५७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.9 · p. 57
इष्टापूर्तं तदेकोक्त्या यागखातादि कर्म्म यत् ।यज्ञद्रव्यन्तु पात्रीयं प्राधुणस्त्वतिथिर्द्वयोः ॥ ९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.68 · p. 88
आवेशिकः स्यादागन्तुरातिथ्यः प्राहुणोऽतिथिः ।सूर्योढस्तु स संप्राप्तो यस्सूर्येऽस्तंगतेऽतिथिः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.7 · p. 232
स्यात्संगतौ ना समिथो रणे चतथा कृशानावतिथिस्तु पुंसि ।कुशात्मजे रुष्यपरोपमः स्या-त्प्राघूर्णिकेऽथो वमथुर्वमौ ना ॥ ७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.150 · p. 59
पुमांस्त्वततिधातौ स्यादतिथिस्तु पुमानयम् ।कुशस्य तनयेऽपि स्यात् तथैव गृहमागते ॥ १५० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.151 · p. 59
अबन्धौ भोक्तुकामे च तिथिहीने तु भेद्यवत् ।अरत्निः पुंस्त्रियोर्हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १५१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.9 · p. 227
अतिथिर्ना दर्भपुत्रे भवेदागन्तुके त्रिषु ।अश्वत्थो वृक्षभेदे स्यादश्वत्था पूर्णिमातिथौ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.194 · p. 158
अतिथिः कुशपुत्रेऽपि हरीतक्यपि चाव्यथा ॥ १९४ ॥
अनुष्टुप्

अतिथि as a meaning in nānārtha verses

  • कोषकल्पतरु आतिथ्यआकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमे स्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् । सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरे लौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥ Koṣakalpataru 6.26.72
  • नानार्थार्णवसंक्षेप गन्तृकुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः । लुप्तवर्णपदे वाक्ये गन्तुस्तु पथिकेऽतिथौ ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.4.7
  • नानार्थार्णवसंक्षेप आतिथ्यस्यादातिथ्यमतिथ्यर्थे त्रिः पुमांस्त्वतिथौ मतः । आचार्य उपनीत्यादिकारिणि स्यान्नृलिङ्गकः ॥ २०१ ॥ Nānārthārṇavasaṃkṣepa 4.201
  • नानार्थार्णवसंक्षेप कुतपकुतपः सूर्यवह्न्योर्ना वृषभेऽप्यतिथावपि । भागिनेये द्वे तु विप्रे पुन्नपुंसकयोः पुनः ॥ ४९४ ॥ Nānārthārṇavasaṃkṣepa 4.494
  • शब्दरत्नावली सनातनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • वैजयन्ती कुतपयुवराजे च ना क्ली तु द्वीपे पुंस्त्री मृगोमयोः कुतपो भागिनेयेऽर्के विप्रेऽग्नावतिथौ गवि ॥ २९ ॥ Vaijayantī 7.5.29