कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सपर्या

saparyāस्त्री · fem.

In 11 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.447 · p. 21
पूजार्हणासपर्यार्चा उपहारबली समौ ॥ ४४७ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.14
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.34
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.128 · p. 16
अर्चा पूजा सपर्या स्यादुपहारो बलिः स्मृतः ।प्रणिधानं समाधानं समाधिश्च समास्त्रयः ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.115 · p. 81
पादपर्यायग्रहणमुपसंग्रह इत्यपि ।पूजा नमस्यापचितिः सपर्याप्यर्हणा स्त्रियाम् ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 239
भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि ।आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि ॥अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः ।प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः ॥सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् ।पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.110 · p. 115
[63] उपहारः सपर्या च बलिः पूजापि कथ्यते ।पीवरः पीनपीवानौ स्थूलविह्वलविक्लवाः ॥ ११० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.123 · p. 31
पूजार्हणा सपर्यार्चोपहारोऽपचितिर्बलिः ।सन्मानादरसत्कारा अभ्युत्थानं च गौरवम् ॥ १२३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.679 · p. 91
अर्चाऽर्हणा सपर्या स्यात् पूजा चाऽपचितिस्तथा ॥ ६७९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.65 · p. 115
अभागतश्च तत्रैवेत्याह श्रीमधुमाधवः ।पूज्या सपर्यापचितिर्नमस्यार्चर्हना नुतिः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1246 · p. 152
अनुकल्पस्तदधमः पूजा त्वर्चार्हणार्चना ।समा नमस्यापचितिः सपर्या च पुरस्क्रिया ॥ १२४६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.39 · p. 86
पूजार्चना नमस्यार्चा सपर्येज्यार्हणांचनम् ।नमस्या तु नमस्कारो वन्दनं चाभिवादनम् ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.