कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्वर्णपुष्प

svarṇapuṣpaपुं · masc.

In 4 kośas: 3 synonym verses, 1 as a nānārtha head word.

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 35 · p. 4
तिलके राजसूनुश्च कलस्तत्पुष्पसौरभम् ।कर्णीरः स्वर्णपुष्पः स्यात्पुन्नागे देवतापतिः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.244 · p. 276
कङ्केल्लिरपि कङ्केली स्थिरपुष्पस्तु चम्पकः ।अतिगन्धः स्वर्णपुष्पो हेमाह्वः सुकुमारकः ॥ २४४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.172 · p. 12
दीपपुष्पः स्वर्णपुष्पः चम्पको भ्रमराहितः ।करकन्दो वीरपुष्पः सिन्दूरी बाणनामकः ॥ १७२ ॥
अनुष्टुप्
genderपुंmasc.
शिवकोष Śivakoṣa · शिवदत्तमिश्र पच Śivakoṣa 17.3.309 · p. 28
स्वर्णपुष्पी नागदन्त्यां केतक्यां सुरभौ तु ना ।सुपर्णे स्वर्णपुष्पा तु चर्मकेश्यग्निजिह्वयोः ॥ ३०९ ॥
अनुष्टुप्