सुरभि
surabhiपुं · masc.In 23 kośas: 65 synonym verses, 10 as a nānārtha head word, 28 as a meaning of another word.
genderपुंmasc.
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी ।उस्राघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुह्युषा ॥ ॥ १२६५ ॥तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा ।
अनुष्टुप्doubled daṇḍa: ॥ ॥
genderस्त्रीfem.
गन्धो जनमनोहारी सुरभिर्घ्राणतर्पणः ।समाकर्षी तु निर्हारी स आमोदो विदूरगः ॥ १३९० ॥
अनुष्टुप्
genderपुंmasc.
वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः ।इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
अनुष्टुप्
genderविadj.
अघ्न्या गौर्माहेयी सुरभिर्बहुला च सौरभेयी च ।उस्रार्जुनी च रोहिण्युक्तानडुही बुधैरनड्वाही ॥ २६८ ॥
गीतिः
genderस्त्रीfem.
अल्पमाले तु वैकुण्ठो बिन्वगन्धो वचाछदः ।कालपर्ण्यां तु सुरभिः करालिः कालमालिका ॥ २३१ ॥
अनुष्टुप्
genderस्त्रीfem.
चूते वसन्ततिलकः कामाङ्कः कोकिलप्रियः ।पल्लवे तस्य सुरभिः पुण्डरीकन्तु तत्फले ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
गन्धराजः स्वर्णवर्णः सुवर्णकणगुग्गुलुः ।पलंकषश्च सुरभिर्वंशपीतोथ भूमिजः ॥ ४१३ ॥
अनुष्टुप्
genderपुंmasc.
बहुरूपः कललजः सुरभिर्यक्षधूपकः ।देवेष्टः शीतलोऽपि स्यादथ पालीन्दभीषणौ ॥ ४१६ ॥
अनुष्टुप्
genderपुंmasc.
अथ क्वाथस्तु खदिररसोरङ्गः कषायकः ।वाच्यलिङ्गस्तु सुरभि रामोदी मुखवासनः ॥ ३३९ ॥
अनुष्टुप्
genderविadj.
षोडन् द्विदन् क्रमात् षड्द्विजातदन्ते वृषेऽथ च ।उस्रा स्त्रियां मही माता सुरभी सुरभिर्गवी ॥ ४५४ ॥
अनुष्टुप्
genderस्त्रीfem.
मधूली स्त्रीष्टगन्धि स्यात्सुगन्धिः सौरभोऽपि च ।सौरभ्यः सुरभिः पुंसि घ्राणतर्पण इत्यपि ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
नीलध्वजः कृष्णतालः कदम्बो ललनाप्रियः ।स्यात्सीधुवृत्तयोः पुष्पः सुरभिः कर्णपूरकः ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
सुरभिर्भ्रमरानन्दो मद्यामोदश्च शारदी ।करकः केसरो धन्वी मन्दमन्दनो गूढपुष्पकः ॥ २४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अरिष्टा सुरभिश्चाथ बालकोऽस्त्री तु शीतलम् ।पर्यायः केशजलयोर्ह्रीवेरं हिरिवेरकम् ॥ २९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शमी तु केशदमनी शान्ता तुङ्गा शुभङ्करी ।हविर्गन्धा शिवेशाना सुरभिः पापनाशनी ॥ ३११ ॥
अनुष्टुप्
genderस्त्रीfem.
सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला ।ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥ ४१३ ॥
अनुष्टुप्
genderस्त्रीfem.
पुष्पपर्यायकालार्थः सुरभिश्च पलाङ्गकः ।उष्णस्तूष्मायणोऽपि स्यान्निदाघस्तप ऊष्मकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
अदितिश्च दितिश्चापि दनुः कालादनायुषा ।सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वशा ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्गादिभिस्त्रिभिः पुंसि विसर्गो दक्षिणायनम् ।कुसुमसम * * * कामबन्धुः क्षिपण्युःसुरभिरिह वसन्तो * ष्मपुष्पाकरौ च ।ऋतुपतिरबलाङ्गः स्यात्तु वास[32a]न्तमेतद्-भवमिह पुनरुप्तं तच्च वासन्तकं च ॥ ८८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कर्पूरस्य समानः स्यादामोदी मुखवासनः ।इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
स्यान्महारजतं जाम्बूनदं च कलधौतकम् ।चारुरत्नं च पिङ्गाशं हरिणं काचिघः पुमान् ।हारिद्रं स्त्री तु सुरभि डूर्वर्णिः(?)सानसिश्च राः ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
कङ्कारी गन्धवीरा च वल्लकी व्रणरोपणी ।सुस्रवा सुरभिर्मोचा ह्लादिनी च ह्लदा रसा ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
कपिशः कपिजः कल्को वृकधूपश्चलप्लवः ।भवेत्कृत्रिमधूपश्च याचतः (?) सुरभिस्तथा ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
सौरभेयी च माहेयी तम्पा तम्बा निलिम्पिका ।उषा शृङ्गिण्यर्जुनी च रोहिणी सुरभिश्च सा ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् ।फलकी सुरभिः सारं महार्हं रोहणोद्भवम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
गन्धवीरा गन्धकारी सुरभिर्वनकर्णिका ।एरण्डे तरुणश्चित्रो दीर्घदण्डो व्यडम्बरः ॥ १५२ ॥
अनुष्टुप्
genderस्त्रीfem.
पद्मके मालकः पीतरक्तश्चारुश्च सुप्रभः ।सुरभिः शीतवीर्यश्च पाटलः पीतवर्णकः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
सुलोमशा भूतजटा पूतना केशिकेत्यपि ।सुरायां सुरभिर्दैत्या गन्धाढ्या गन्धमादनी ॥ २८२ ॥
अनुष्टुप्
genderस्त्रीfem.
चिन्तामणौ महारत्नं श्यामोपल इतीर्यते ।कामधेनौ तु सुरभिः श्वेतगौरिति कथ्यते ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
अल्पमाले तु वैकुण्ठो बिल्वगन्धो वचाच्छदः ।कालपर्ण्यां तु सुरभिः करालः कालमालिका ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
वसन्तः पुष्पकालेष्यौ सुरभिश्च बलाङ्गकः ।उष्णागमो निदाघोष्णौ तपो ग्रीष्मोष्मकावपि ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
सुरभिः सौरभेयी तु माहेयी गौस्तथार्जुनी ।निलिम्पा शृङ्गिणी चोषानङ्वाह्यनडुही समा ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
कषायतुबरौ तुल्यौ निर्हारी घ्राणतर्पणः ।इष्टगन्धिः समाकर्षी सुगन्धिः सुरभिस्तथा ॥ २८४ ॥
अनुष्टुप्
genderविadj.
हेमन्ते हिमदः प्रोक्तः शिशिरे शीतलः स्मृतः ।वसन्ते सुरभिः प्रोक्तो ग्रीष्मे स्यादूष्मकस्तपः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
उक्षा वृषो बलीवर्द्दो वृषभो गौर्विषाणभृत् ।धेनुर्गौः सुरभिर्गृष्टिर्वत्सकस्तर्णकोऽर्णकः ॥ १२९ ॥
अनुष्टुप्
genderस्त्रीfem.
बलीवर्दः सौरभेयः ककुद्माञ्शांकरो वृषः ।सुरभिर्गौरनड्वाही सौरभेयी च रोहिणी ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
आमोदश्च परिमलो गन्धो वासो विमर्दजः ।इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
इष्यश्च पुष्पकालस्तु सुरभिः पिकबान्धवः ।पुष्पसाधारणश्चाथ निदाग ऊष्म ऊष्मकः ॥ १५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderपुंmasc.
शल्लकी सल्लकी चापि सिल्लकी सुवहा रसा ।सुरभी सुरभिश्चापि ह्लादिनो ह्रादिनी तथा ॥ २०६३ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्जुनी रोहिणी गौश्च शृङ्गिणी सुरभिस्तथा ।उस्राऽघ्न्या सौरभेया च तम्बा तम्पा निलिम्पिका ॥ २२८२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुरभिश्च समाकर्षी गन्धश्च घ्राणतर्पणः ।तथा जनमनोहारी निर्हारी नाम विद्यते ॥ २५२६ ॥
अनुष्टुप्
genderविadj.
वसन्तः सुरभिः पुष्पसमयो मधुरित्यपि ।ग्रीष्मे शुचिनिदाघोष्णतपोष्णोपगमा अपि ॥
अनुष्टुप्
genderपुंmasc.
समाकर्षी तु निर्हारी गन्धो दूरोपहारकः ।स्यादिष्टगन्धः सुरभिः सुगन्धो घ्राणतर्पणः ॥
अनुष्टुप्
genderपुंmasc.
मुरा गन्धकुटी दैत्या लालपर्णी च गन्धिनी ।स्यात् शल्लकी मल्लकी च सुरभिः सुरभी रसा ॥
अनुष्टुप्
genderस्त्रीfem.
गवी गौः सुरभिर्माता माहेयी शृङ्गिनी महा ।उस्रा निलिम्पा सुरभी सौरभेयी च रोहिनी ॥
अनुष्टुप्
genderस्त्रीfem.
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
चिन्तामणिः सुरमणिः सुरभिः सुरनैचिकी ।कामधेनुर्वियद्यानं विमानं पुंनपुंसुकम् ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुरभिर्यूपकर्माग्निः स्वाहाग्नाय्यनलप्रिया ।स्यात् त्रिलिङ्गः स्फुलिङ्गोऽग्नेः समौ संतापसं ज्वरौ ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
दित्यदिती दनुकद्रू विनताताम्राक्षराजरारिष्टाः ।सुरभिः क्रोधवशामुनिसुरसाः स्युः कश्यपगृहिण्यः ॥ २०३ ॥
आर्या
genderस्त्रीfem.
स्यात्तपस्यः फाल्गुनिकः सान्ता ये तेऽत्र न स्त्रियाम् ।वसन्ते तु मधुः पुष्पसमयः सुरभिस्त्रयः ॥ २५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
genderपुंmasc.
गन्धे परिमलामोदौ सौरभ्यं सौरभोऽस्त्रियाम् ।घ्राणतर्पणगन्धे तु कषायः सुरभिः कटुः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
जम्बूटनीलजम्बूटौ सल्लकी सुखिनी ध्रुवा ।हस्तिप्रिया ह्लादिनी च सुरभिः कुञ्जराशनः ॥ ५११ ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णनिम्बः कालशाकः कैडर्यः सुरभिश्च सः ।अभ्रिका मधुरा शीता विषघ्नी विषदूषिणी ॥ ५५९ ॥
अनुष्टुप्
genderपुंmasc.
विश्रुतविदितख्यातप्रथितव्यपदिष्टवित्तविज्ञाताः ।सुरभिप्रतीतकीर्तितवर्णितसुकलप्रसिद्धसुगृहीताः ॥ १५८९ ॥
गीतिः
genderविadj.
कस्तूरिकायामामोदः कर्पूरे मुखवासनः ।बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
विनाकृतं विरहितं मुक्तं निर्व्यूढमुच्यते ।तिक्तः कषायः सुरभिः कक्खटो निर्भरो दृढः ॥ १९ ॥
अनुष्टुप्
genderविadj.
आधानादिष्वहस्तानः सुरभिर्यूपकर्मणि ।ब्रह्मौदनाग्निर्भरतो यविष्ठः सवनाहुतौ ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
हेमन्तः प्रसवो लोध्रः शैखस्तु शिशिरोऽस्त्रियाम् ।मधुर्वसन्तः सुरभिर्वलांगः पुष्पसारणः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
सल्लक्यां सुरभिर्हस्तिप्रिया हस्त्यशना ध्रुवा ।वैजयन्त्यां तु तर्कारी नादेयी च जयन्त्यपि ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कालपर्ण्यां तु सुरभिः करालः कालमालकः ।मालो ब्रह्मजटायां तु सलज्जं दानवांजनम् ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
सिता तु धवला पुण्ड्रा सुनन्दा जलसंभवा ।कपिला त्वग्निजा दाक्षी सुरभिः कामरूपिणी ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुरभ्यसुरभी गन्धौ विभिन्नौ तौ च योगतः ।बहुधा तत्र सुरभिः कटुस्तिक्तः कषायकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
जात्यां सौमनसो नागकेसरे गन्धसारणः ।चंपके सुरभिः पद्मे वासनः कुटजे घुणः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् ।उत्तालमुन्नतेऽपि श्रेष्ठेऽपि निगद्यते सुरभिः ॥ ८०० ॥
आर्या
meaningsश्रेष्ठ
आरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपलेचाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः ।सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समेवर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥
शार्दूलविक्रीडितम्metre not read in every line
वल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु ।वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः ।योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥विस्रम्भः प्रणये केलिकोपविश्वासयोरपि ।विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि ।शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च ।सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥वसन्ते चम्पके जातीफलगन्धफले पुमान् ।क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पा (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)
सरन्ध्रे त्रिषु वंशाद्ये वाद्ये क्लीबे नटे नरि ।स्त्रियां विद्रुमवल्लर्यां सुषिराथ गवि स्त्रियाम् ॥ २१८१ ॥
अनुष्टुप्
meaningsगो
doubtful
सुरभि as a meaning in nānārtha verses
- धरणिकोश नन्दिनीनन्दी हरप्रतीहारे नन्दिनी सुरभिः मता । … ॥ Dharaṇikośa 19.3.11
- कोषकल्पतरु तिक्ततिक्तो रसे ना सुरभौ च षण्ढे किरातके पर्पटके स्त्रियां तु कट्व्या[288b]मथो रिक्तमरण्य उक्तं शून्येऽन्यवत्स्याद्धुसृणे तु रक्तम् ॥ ३५ ॥ Koṣakalpataru 6.16.35
- कोषकल्पतरु सरस्वतीस्यात्पुष्पदन्तकरिणो भार्यायामथ सरस्वती वाचि । वाग्देव्यां च सुरभ्यां नदीविशेषेऽङ्गनारत्ने ॥ ८२ ॥ Koṣakalpataru 6.17.82
- कोषकल्पतरु आमोदस्याद्याम्यदिग्दन्तिवधूगतः स्त्री शान्तान्तरे स्याद्वरदः प्रसन्ने । कन्यापगाभेदगतः स्त्रियां स्या- दामोद उक्तः सुरभौ च हर्षे ॥ Koṣakalpataru 6.19.17
- कोषकल्पतरु पयस्विनीरात्रौ दोग्ध्र्यां सुरभौ पयस्विनी स्यात्तथा सरिति । पशुतृणभक्ष्यस्थाने गवादनी चेन्द्रवारुण्याम् ॥ ५३ ॥ Koṣakalpataru 6.21.53
- कोषकल्पतरु कषायस्याच्छोणे सुरभौ भवेत्स परगोऽथाम्नाय उक्तः श्रुता- वभ्यासेऽपि च संततौ निगदितो ज्ञैः संप्रदायेऽपि च । स्थाने पक्षिनिकेतने च गदितो विज्ञैः कुलायस्तथा ऽथोपायो नरि सामभेदविषये चोपागतौ सम्मतः ॥ ६४ ॥ Koṣakalpataru 6.26.64
- कोषकल्पतरु कीशकाशस्तृणे योषिति[ नाथ ]वा[81a]रा- णस्यां स्त्रियां स्याद्वरुणे तु केशः । ह्रीबेरबालासुरभित्सु कीशः शाखामृगे पुंसि दिगम्बरे च ॥ ७ ॥ Koṣakalpataru 6.30.7
- नानार्थार्णवसंक्षेप गोगौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 1.5.3
- नानार्थार्णवसंक्षेप जगतीलोके स्त्री तु जगत्यष्टाचत्वारिंशत्स्वरादिषु । छन्दोभेदेषु सुरभौ पृथिव्यां चाथ तत् त्रिषु ॥ ४६९ ॥ Nānārthārṇavasaṃkṣepa 2.5.469
- नानार्थार्णवसंक्षेप तिक्तगन्धे च सुरभावेतद् गुणत्रययुते त्रिषु । स्त्री तिक्ता कटुरोहिण्यां तिष्यस्तु नरि मारुते ॥ ५३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.536
- नानार्थार्णवसंक्षेप शृङ्गिणीभेषजे वृषभेऽश्वे च यस्य शृङ्गपदे भवेत् । मांसबुद्बुद उक्ता तु शृङ्गिणी सुरभौ स्त्रियाम् ॥ १४१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1414
- नानार्थार्णवसंक्षेप अर्जुनस्त्रियां तु सुरभौ रात्रावुषस्यप्यापगान्तरे । बाहुदाख्येऽर्जुनी च स्यात् त्रि तु स्यादग्र्यशुक्लयोः ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 4.14
- नानार्थार्णवसंक्षेप कषायरक्तवर्णयुते रक्तपीतवर्णद्वयान्विते । सुरभौ तुवराख्येन रसेन च समन्विते ॥ ३४९ ॥ Nānārthārṇavasaṃkṣepa 4.349
- नानार्थार्णवसंक्षेप कर्बुरातद्वर्णयुक्तसुरभौ पुनः स्त्री कर्बुरा तथा । जलौकाजातिभेदे च सविषे तस्य लक्षणम् ॥ ३७२ ॥ Nānārthārṇavasaṃkṣepa 4.372
- नानार्थार्णवसंक्षेप धवलाश्वेतवर्णयुते चाथ सुरभौ धवला स्त्रियाम् । धनदस्तु कुबेरे ना भेद्यवत् तु धनप्रदे ॥ ९७० ॥ Nānārthārṇavasaṃkṣepa 4.970
- नानार्थार्णवसंक्षेप प्रसन्नाविदारिते प्रसन्ना तु स्त्री सुरायामथ त्रिषु । अनाविलेऽथ प्रसवोन्मुखायां सुरभौ स्त्रियाम् ॥ ११११ ॥ Nānārthārṇavasaṃkṣepa 4.1111
- नानार्थार्णवसंक्षेप बहुलास्त्रियां तु बहुला भूभ्यामेलायां सुरभावपि । श्वेतायां चाथ रोदस्यौ द्विवचो बहुले इति ॥ १२३० ॥ Nānārthārṇavasaṃkṣepa 4.1230
- नानार्थार्णवसंक्षेप रोहिणीऋश्यसंज्ञमृगे स्त्री तु रोहिणी सुरभौ स्मृता । पण्डितै रक्तवर्णायां रोहितं तु नपुंसकम् ॥ १५३३ ॥ Nānārthārṇavasaṃkṣepa 4.1533
- नानार्थार्णवसंक्षेप वसन्तजलोदराख्ये क्ली त्वप्सु प्रसवेऽत्रोक्तशाखिनः । वसन्तस्त्वृतुभेदे ना सुरभ्याख्ये त्रिषु त्वयम् ॥ १६२८ ॥ Nānārthārṇavasaṃkṣepa 4.1628
- नानार्थार्णवसंक्षेप विश्वरूपाअश्वे त्वाष्ट्रासुरे चापि ना स्त्री तु सुरभावियम् । विश्वरूपा स्त्रियां भूम्नि गायत्राह्वयसामनि ॥ ५६२ ॥ Nānārthārṇavasaṃkṣepa 6.562
- नानार्थार्णवसंक्षेप सौरभेयगन्धद्रव्ये गन्धकाख्ये वातौ तु स्यान पुमानसौ । सौरभेयस्तु वृषभे ना स्त्री तु सुरभावियम् ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 6.689
- शिवकोष स्वर्णपुष्पस्वर्णपुष्पी नागदन्त्यां केतक्यां सुरभौ तु ना । सुपर्णे स्वर्णपुष्पा तु चर्मकेश्यग्निजिह्वयोः ॥ ३०९ ॥ Śivakoṣa 17.3.309
- शिवकोष गन्धमूलाअथ गन्धफली फल्यां चम्पकस्य च कोरके । गन्धमूला पद्मनाड्यां सुरभौ द्राविडे पुमान् ॥ ४८२ ॥ Śivakoṣa 23.3.482
- शब्दरत्नावली कषायऔचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने ॥ अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥ क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥ गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ Śabdaratnāvalī 7.26.39
- शब्दरत्नाकर कटुमत्सरे सुरभौ तिक्ते चोषणे च कटुस्त्रिषु । कोक ईहामृगे चक्रे कायो देहे कदैवते ॥ १८९८ ॥ Śabdaratnākara 4.1.1898
- तन्त्राभिधान बक्लेदिनी तापिनी भूमिः सुगमिन्द्रो बलिः प्रियः । सुरभिर्मुख-विष्णू च संहारो वसुधाधिपः ॥ १३० ॥ Tantrābhidhāna 2.40.130
- त्रिकाण्डशेष कषायउदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे । कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥ Trikāṇḍaśeṣa 3.3.308
- वैजयन्ती कटुकटुस्तिक्ताप्रियाकार्यसुरभ्यूषणमत्सरे । क्रूरो भयंकरे क्रुद्धे नृशंसे कठिनोष्णयोः ॥ ४ ॥ Vaijayantī 6.4.4